जातेष्टिन्याय (jAteSTinyAya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritजातेष्टिन्याय जैमिनिप्रदर्शिते पितृकृतेष्ट्या पुत्रगत-फलसूचके एकस्य काम्यत्वनैमित्तिकत्वसूचके न्यायभेदेस च न्यायो जै० प्रथमस्य चतुर्थे पादे यथा ।काम्येष्टिकाण्डे श्रूयते । “वैश्वानरं द्वादशकपालंनिर्वपेत् पुत्रे जाते यदष्टाकपालो भवति गायत्र्यैवेनंब्रह्मवर्च्चसेन पुनाति यन्नवकपालस्त्रिवृतैवास्मिंस्तेजोदधाति यद्दशकपालो विराजैवास्मिन्नन्नाद्यं, यदेकादशपाल-स्त्रिष्टुभैवास्मिन्निन्द्रियमादधाति यद्द्वादशकपालो जगत्यै-वास्मिन् पशून् दधाति यस्मिन् जाते एतामिष्टिं निर्व-पति स एव पूतो बलवान् तेजस्वी अन्नाद इन्द्रियावीपशुमान् भवतीति” । अत्राष्टादिसंख्यासामान्यात् पुरो-डाशादीनां गायत्र्यादिरूपताकल्पना कृता द्वादशकपालेषुया संख्या तस्यामष्टत्वादिसंख्यानामन्तर्भावात् संख्यां निमि-त्तीकृत्याग्निहोत्रादिशब्दवत् अष्टाकपालादिशब्दाः कर्म्म-नामधेयानीत्येकः पक्षः ।अयमनुपपन्नः तथा हि द्वादशकपालादिशब्दा न संख्यापराःकिन्तु पुरडाशद्रव्यपराः द्वादशकपालेषु संस्कृत इति व्युत्पत्तेःएवमष्टाकपालादिशब्दादयोऽपि तथा सति नामधेयस्यनिमित्तत्वं नास्तीति चेत् पुरोडाशद्रव्यरूपगुणो विधीयतांन च द्वादशकपालं निर्वपेदित्युत्पत्तिविधिशिष्टद्वादशपुरो-डाशविरुद्धत्वादष्टाकपालादेरनवकाश इति वाच्यं व्रह्म-वर्च्चसादिविशेषफलाय तद्विधीनामुपपत्तेरित्यपरः पक्षः ।अयमपि पक्षोऽनुपपन्नः अनेकगुणविधौ वाक्य-भेदापत्तेः न च भिन्नान्थेव वाक्यानि, द्वादशकपालंनिर्वपेदिति विहितयागस्य यस्मिन् जाते एतानित्युप-मंहारेण एकवाक्यत्वावगमात् द्वादशकपाल इतीष्टेर्नाम-धेयमिष्टिरंशी अष्टाकपालादिभिरंशैः स्तूयत इतिसिद्धान्तः पक्षः । अत्र च पुत्रजन्मनिश्चयः, पुत्रस्य पूतत्वा-दिफलकामना चेति संवलिताधिकारः काम्यनैमित्तिकत्वात् अतः केवलपुत्रजन्मरूपनिमित्तनिश्चयवतः केवलपुत्रपतत्वादिकामनावतो वा नाधिकार इति सुधीभिर्विभावनीयम्” तत्त्वबो० ।अनेन न्यायेन अन्यकृतकर्म्मणा अन्यस्य फलसाधनता-ऽपि सूचिता यथा पुत्रकृतश्राद्धेन पितुः स्वर्गादि फलंजन्यते एवं पितृकृतेष्ट्या पुत्रगतपूतत्वादिफलसिद्धिः ।अतएव हेमाद्रिणा श्राद्धकल्पे अयमेव न्यायः पुत्रकृ-तश्राद्धेन पितुरुपकारकत्वे दृष्टान्तयोक्तः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
