| YouTube Channel

जातीफलं (jAtIphalaM)

 
शब्दकल्पद्रुमः
Sanskrit
जातीफलं,
क्ली,
(जातीत्याख्यं फलम् ।) सुगन्ध-फलविशेषः जायफल इति भाषा
तत्-पर्य्यायः जातीकोषम् इत्यमरः १३२
जातीकोशम् जातिफलम् इति तट्टीका
जातिशस्यम् शालूकम् मालतीफलम् ७मज्जसारम् जातिसारम् पपुटम् १०सुमनःफलम् ११ फलञ्जातिः १२ फलञ्जाती १३कोशम् १४ कोषम् १५ जातिकोषम् १६ कोष-कम् १७ इति शब्दरत्नावली
(यथा, बृहत्संहितायाम् १६ ३० ।“जातीफलागुरुवचापिप्पल्यश्चन्दनं भृगोः
”)अस्य गुणाः कषायत्वम् उष्णत्वम् कटु-त्वम् कण्ठामयार्त्तिवातातीसारमेहनाशि-त्वम् वृष्यत्वम् दीपनत्वम् लघुत्वञ्च इतिराजनिर्घण्टः
रसे तिक्तत्वम् तीक्ष्णत्वम् ।रोचनत्वम् ग्राहित्वम् स्वरहितत्वम् श्लेष्मा-निलमुखवैरस्यमलदौर्गन्ध्यकृष्णताकृमिकासवमि-श्वासशोषपीनसहृद्रुञ् नाशित्वञ्च इति भाव-प्रकाशः
तृष्णाशूलनाशित्वम् इति राज-वल्लभः