| YouTube Channel

जातिशक्तिवाद (jAtizaktivAda)

 
Aufrecht Catalogus Catalogorum
English
जातिशक्तिवाद gr. by Ananta Bhaṭṭa. Gov. Or. Libr.
Madras 29.
वाचस्पत्यम्
Sanskrit
जातिशक्तिवाद
पु०
जातौ शक्तेर्वादः शब्दानां जातौशक्तिसमर्थके कथाभेदे वादः शब्दशक्तिप्र० पूर्वपक्षविधया दर्शितो यथा“ननु गामानयेत्यादौ गोत्वादिकर्मताकत्वेनैवानयना-देरन्वयधीर्गोत्वादिशक्तत्वेन पदज्ञानस्य गोत्वाद्यन्वयबुद्धिंप्रत्ये हेतुत्वात् सुवर्थकर्मत्वादौ स्वाश्रयवृत्तित्वसम्बन्धेनैवप्रकृत्यर्थस्य गोत्वादेः साकाङ्क्षत्वात् गवादिकर्मताकत्वेनवोधस्तूत्तरकालनाक्षेपात् कर्मत्वं गोवृत्ति गोत्वनिष्ठकर्मता-त्वात्, आनयनं गोवृत्तिकर्मताकं गोत्ववृत्तिकर्मताकत्वा-दित्थाद्यनुमानसाम्राज्यात् वस्तुगत्या यद्गोत्वशक्तत्वंतज्ज्ञानस्य हेतुत्वे गोपदं जातिशक्तमित्येवंग्रहादपिशुद्धगोत्वस्यान्वयबोधापत्तिः गोत्वत्वावच्छिन्नशक्तत्वप्रकारक-ज्ञानत्वेन तथात्वे लाघवाद्गोत्वावच्छिन्नशक्तताप्रकारक-ज्ञानत्वेनैव हेतुत्वं गोत्वत्वाद्यमवेशादितिवाच्यं गोपदंगोत्वशक्तमित्याकारकज्ञानत्वेन हेतुतायां शुद्धस्येव गोत्वस्यविषयतासम्बन्धेन शक्त्यंशे विशेषणत्वेन गोत्वत्वादिप्रवेश-गौरवस्यायोगात् हि समवायान्यसम्बन्धेन जातेःप्रकारतायां धर्म्मावच्छिन्नत्वनियमो मानाभावात् अयंगौरित्यादिव्यवसायोत्तरमिमं गोत्वेन जानामीत्याकारे तस्यज्ञाततालिङ्गकानुमानेऽनुव्यवसाये वा व्यभिचाराच्च प्राग-नुपस्थित्या गोत्वत्वादेस्तत्रोपनयायोगात् एतेन जाते-र्निरवच्छिन्नप्रकारत्वस्य समवायसंसर्गावच्छिन्नत्वनियमात्केवलस्य गोत्वादेः शक्त्यंशे विषयतया सुवर्थकर्मत्वांशे चपरम्परया प्रकारत्वायोग इत्यपि प्रत्युक्तम्, उक्तस्थलएव व्यभिचारात् चैवं कालोगौः पदं गौरित्यादि-प्रत्ययोऽपि प्रमा स्यात् कालिकादिसम्बन्धेन गोत्वादिमतितत्प्रकारकत्वादिति वाच्यं कालिकादिसम्बन्धेन गोत्वादेःप्रामाण्यस्य गोत्वत्वाद्यवच्छिन्नप्रकारतागर्भत्वेन तादृशमतेःप्रमात्वायोगात् अन्यथा घटत्वादिजातेः संस्थानसमवेतत्व-मते संयोगो घट इत्यादिप्रतीतेः समवायेन प्रमात्वस्यदुर्वारतापत्तेः शाब्दस्येव प्रत्यक्षस्यापि कालोगौरित्यादि-वोधस्य नियमतोगवाद्यभेदावगाहित्वेनैवाप्रमात्वसम्भवाच्चेति भट्टमतानुवर्त्तिनः ।”जातिशक्तिवादिप्रभाकरमतं तत्रैवोक्तं यथा“प्राभाकरास्तु गोत्वशक्तत्वेन ज्ञातं पदं ताद्रूप्येणगोशाब्दत्वावच्छिन्नं प्रत्येव हेतुरतोगोत्वशक्तिग्रहान्नगोत्वेन गवयादेः वा द्रव्यत्वादिना गोरन्वयधियोऽति-प्रसङ्गः नचैवं जातेरिव व्यक्तेरपि शक्यत्वमावश्यकंन हि गवादिपदस्य शक्यत्वं जन्यत्वमपि तु जन्यशाब्द-धीविषयत्वं तच्च गोत्वस्येव गोरप्यविशिष्टमिति वाच्यगवादिपदधर्मिकस्वशक्तताज्ञानत्वावच्छिन्नशाब्दधीजनक-तावच्छेदकत्वेन गोत्वादेरेव गवादिपदशक्यत्वात् गोत्वशक्त-तापेक्षएया गोशक्तत्वस्य गुरुतवा तज्ज्ञानत्वस्य गोशाब्दंप्रति जनकतानवच्छेदकत्वात् अतवान्वयबुद्धेरात्म-स्वात्मत्वाद्यवगाहित्वेऽपि तेषां पदशक्यत्वम् अस्तु वागोत्वादिशक्तत्वेन ज्ञातं पदं गोत्वादिशाब्दत्वावच्छिन्नंप्रत्येव हेतुर्विशेष्यतया तादृशशाब्दं प्रति समवायेन गोत्वस्यनियामकत्वकल्पनाच्च नातिप्रसङ्गः गोत्वादिना गवादेरिवगवादेर्गोत्वादिनान्वयबोधत्वावच्छिन्नं प्रत्यपि विनिगमका-भावेन गोत्वादिशक्तिज्ञानत्वेन हेतुत्वमपेक्ष्य गोत्वशाब्द-त्वावच्छिन्नं प्रत्येव गोत्वस्य तच्छक्तत्वज्ञानस्य द्वयोःकारणतायामेव लाघवात्, वस्तुतोगोत्वशाब्दं प्रति गोत्व-शक्तिज्ञानमेव हेतुर्न तु गोत्वमपि जातिव्यक्त्योस्तुल्य-वित्तिवेद्यत्वनियमादेव गोव्यक्तीनान्तद्विषयत्वसिद्धेः प्रमाण-विरहादेव गोत्वादिना गबयादिविषयत्वस्य तत्रासिद्धेश्च ।यद्यपि जातेर्विषयत्वं तत्समवायिव्यक्तिविषयतानिरूपित-मिति व्याप्तिर्गोत्वाद्यालोचने कालोगोत्ववानित्यादिबोधेच व्यभिचारात् नापि जातेर्निरवच्छिन्नप्रकारतायास्तथा-त्वनियमः गौरयमित्यादिज्ञानस्य प्रत्यक्षे गोत्वेनेमं जाना-मीत्याकारे तथात्वात् तथाप्यन्वयबोधस्य निरवच्छिन्नगोत्वा-दिप्रकारत्वं गवादिविशेष्यतानिरूपितमेवेति व्याप्तिस्ता-दृशविशेष्यताकत्वं विना शुद्धस्य गोत्वादेरन्वयबोधेनास्पर्श-नात् गुरूणां गोत्वेन गवयादिबोधस्यालीकत्वात् अत-एव गवाद्यंशे गोत्वादिप्रकारकोबोधः समवायेनेव सम्बन्धा-न्तरेणापि तत्प्रकारकः स्याद्गोत्वशक्तिज्ञानस्य तदीयसम्ब-न्धभानं प्रत्युदासीनत्वादित्यपि प्रत्युक्तं शाब्दमतेः शुद्ध-गोत्वप्रकारतायां गोविशेष्यताकत्वस्येव समवायावच्छिन्न-त्वस्यापि व्याप्तिबलेन सिद्धावपि सम्बन्धान्तरावच्छिन्नत्वस्यप्रमाणविरहेणासिद्धेः एवञ्च गोत्वादिशक्तिज्ञानत्वेनजनकतायां विषयतयावच्छेदकत्वाद्गोत्वादिरेव गवादिपद-स्यार्थः गवादौ तद्व्यवहारस्तु तादृशावच्छेदकधर्मवत्त्वप्रयु-क्तोगौणः नचैवं गम्यादिधातोरपि गत्यादौ शक्तिर्नस्याद्गतित्वादिशक्तिज्ञानादेव ताद्रूप्येण गत्यादेर्गम्यादि-धातुतोबोधम्भवादिति वाच्यं गुरूणां गतित्वादेःसंस्थानाव्यङ्ग्यत्वेन जातित्वासम्भवात् उत्तरसंयोगाद्यव-च्छिन्नक्रियात्वाद्युपाधिरूपे तत्र स्वरूपतः शक्तिग्रहा-योगात् सखण्डस्य निरवच्छिन्नप्रकारत्वाभावात् निरुक्त-क्रिवात्वत्वावच्छिन्नशक्तताज्ञानत्वेन हेतुतामपेक्ष्य लघुतयातादृशक्रियात्वावच्छिन्नशक्तिमत्त्वज्ञानत्वेनैव तथात्वौचि-त्यात् गुरुत्वादिप्रयोज्यस्य पतनत्वादेरखण्डत्वे पत्यादि-धातूनान्तत्र शक्तत्वेऽपि क्षत्यभावाच्च पश्वादिपदानामपिलोमवल्लाङ्गूलादिपर्य्यवसिते पशुत्वादिमात्रे शक्तिस्तत्र-वृत्तिग्रहोत्तरं तन्मात्रस्यैवानुमवेन तदाश्रयस्यालाभात्लोमादीनां स्वाश्रयतुल्यवित्तिवेद्यत्वस्य लोमवल्लाङ्गूलवान्देश इत्याद्यनुभवे व्यभिचारादितिप्राहुः ।”नैयायिकास्तु तदेतन्मतं पूर्वपक्षविधया व्यक्त्यादीनां केव-लानां शब्दवाचतां निराकृत्य जातिविशिष्टस्यैव शक्यत्वंव्यवस्थापितं यथा गौ० सूत्रे तद्भाष्ये ।“तदर्थे व्यक्त्याकृतिजातिसन्निधावुपचारात् संशयः ।” सू०“अविनाभाववृत्तिः सन्निधिः अविनाभावेन वर्त्तमानासुव्यक्त्याकृतिजातिषु गौरिति प्रयुज्यते तत्र ज्ञायतेकिमन्यतमः पदार्थः उत सर्व इति शब्दस्य प्रयोगसा-मर्थ्यात्पदार्थावधारणम् य्यात्” भाष्यम् ।“याशब्दसमूहत्यागपरिग्रहसंख्यावृद्धुपचयवर्णसमासा-नुबन्धानां व्यक्तावुपचाराद्व्यक्तिः” सू०“व्यक्तिः पदार्थः कस्मात् याशब्दप्रभृतीनां व्यक्तावुपचा-रादुपचारः प्रयोगः या गौस्तिष्ठति या गौर्निषर्ण्णतिनेदं वाक्यं जातेरभिधायकमभेदात् द्रव्याभिधायकम्, गवां समूह इत्यभेदात् द्रव्याभिधामं जातेरभेदात्, वै-द्याय गां ददातीति द्रव्यस्य त्यागो जातेरमूर्त्तत्वात्प्रतिक्रमानुक्रमानुपपत्तेश्च परिग्रहः स्वत्वेनाभिसम्बन्धः, कौण्डिन्यस्य गौ र्ब्राह्मणस्य गौरिति द्रव्याभिधाने द्रव्य-भेदात् सम्बन्धभेद इति उपपन्नमभिन्ना तु जातिरिति, सङ्ख्या दश गावो विंशतिर्गाव इति भिन्नं द्रव्यं सङ्ख्यायतेन जातिरभेदादिति, वृद्धिः कारणवतो द्रव्यस्यावयवोप-चयः अवर्द्धत गौरिति निरवयवा तु जातिरिति, एते-नापचयो व्याख्यातः वर्णः शुक्ला गौः कपिला गौरितिद्रव्यस्य शुक्लादियोगो सामान्यस्य, समासः गोहितंगोसुखमिति द्रवस्य सुखादियोगो जातेरिति अनुबन्धःसरूपप्रजननसन्तानोगौ र्गां जनयतीति तदुत्पत्तिधर्मत्वाद्-द्रव्ये युक्तं जातौ विपर्य्ययादिति द्रव्यं व्यक्तिरिति हिनार्थान्तरम्, अस्य प्रतिषेधः ।” भा० “न तदनवस्थानात्” सू०“न व्यक्तिः पदार्थः कस्मादनवस्थानात् याशब्दप्रभृ-तिभिर्यो विशेष्यते गोशब्दर्थो या गौस्तिष्ठति यागौर्निषर्ण्णेति द्रव्यमात्रमविशिष्टं जात्या विनाऽभिधी-यते, किन्तर्हि जातिविशिष्टं, तस्मान्न व्यक्तिः पदार्थःएवं समूहादिषु द्रष्टव्यम् यदि व्यक्तिः पदार्थः कथंतर्हि व्यक्तावुपचार इति निमित्तादतद्भावेऽपि तदुप-चारो दृश्यते खलु” भा० ।“सहचरणस्थानतादर्य्यवृत्तमानधारणसामीप्ययोगसाध-नाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाट-कान्नपुरुषेष्वतद्भावेऽपि तदुपचारः” सू०“अतद्भावेऽपितदुपचार इत्येतच्छब्दस्य तेन शब्देनाभि-धानमिति, सहचरणात् यष्टिका भोजयेति यष्टिकासह-चरितो ब्राह्मणोऽभिधीयेत इति, स्यानात् मञ्चाः क्रोश-न्तीति मञ्चस्थाः पुरुषा अभिधीयन्ते, तादर्थ्यात् कटार्थेषुवीरणेषु व्यूह्यमानेषु कटङ्करोतीति, वृत्तात् यमो राजाकुवेरो राजेति तद्वद्वर्त्तत इति, मानात् आढकेन मिताःसक्तवः आढकसक्तव इति धारणात् तुलया धृतं चन्द्रनंतुलाचन्दनमिति, सामीप्यात् गङ्गायां गावश्चरन्तीतिसन्निकष्टोदेशोऽभिधीयते योगात् कृष्णेन रागेण युक्तःशाटकः कृष्ण इत्यभिधीयते, साधनात् अन्नं प्राणा इति ।आधिपत्यात् अयं पुरुषः कुलं अयं गोत्रमिति तत्रायंसहचरणाद्योगाद्वा जातिशब्दो व्यक्तौ प्रयुज्यत इतियदि गौरित्यस्य पदस्य व्यक्तिरर्थोऽस्तु तर्हि ।” भा०“आकृतिस्तदपेक्षत्वात् सत्वव्यवस्थानसिद्धेः” सू०“आकृतिः पदार्थः कस्मात् तदपेक्षत्वात् सत्वव्यवस्थान-सिद्धेः सत्वावयवानां तदवयवानाञ्च नियतोव्यूहआकृतिः तस्यां गृह्यमाणायां सत्वव्यवस्थानं सिध्यतिअयं गौरयमश्व इति नागृह्यमाणायाम्, यस्य ग्रहणात्सत्वव्यवस्थानं सिध्यति तं शब्दोऽभिधातुमर्हति सोऽ-स्थार्थ इति नैतदुपपद्यते तस्य जात्या योगस्तदत्र जाति-विशिष्टमभिधीयते गौरिति नचावयवव्यू हस्य जात्यायोगः, कस्य तर्हि नियतावयवव्यूहस्य द्रव्यस्य, तस्मान्ना-कृतिः पदार्थः अस्तु तर्हि जातिः पदार्थः” भा०“व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात्प्रोक्षणादीनां मृद्गवकेजातिः” सू०“जातिः पदार्थः, कस्मात् व्यक्त्याकृतियुक्तेऽपि मृद्गवकेप्रोक्षणादीनामप्रसङ्गादिति गां प्रोक्षय गामानय गांदेहीति नैतानि मृद्गवके प्रयुज्यन्ते कस्मात् जातेरभा-वात् अस्ति हि तत्र व्यक्तिरस्त्याकृतिः यदभावात्तत्रासम्प्रत्ययः पदार्थ इति ।” भा०“नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तेः” सू०“जातेरभिव्यक्तिराकृतिव्यक्ती अपेक्षते नागृह्यमाणाया-माकृतौ व्यक्तौ जातिमात्रं शुद्धं गृह्यते तस्मान्न जातिःपदार्थः इति वै पदार्थेन भवितुं शक्यम् कःखल्विदानीं पदार्थ इति” भा०“व्यक्त्याकृतिजातयस्तु पदार्थः” सू०“तुशब्दो विशेषणार्थः किं विशिष्यं प्रधानाङ्गभाव-स्यानियमेन पदार्थत्वमिति यदा हि भेदविवक्षा विशे-षगतिश्च तदा व्यक्तिः प्रधानमङ्गन्तु जात्याकृती यदा तुभेदोऽविवक्षितः सामान्यगतिस्तदा जातिः प्रधानमङ्गन्तुव्यक्त्याकृती स्वीकृते तदेतद्बहुलं प्रयोगेष्वाकृतेस्तु प्रधा-नभाव उत्प्रेक्षितव्यः कथं पुनर्ज्ञायन्ते नानाव्यक्त्या-कृमिजातय इति लक्षणभेदात् तत्र तावत्” भा०“व्यक्तिर्गुणविशेषाश्रयो मूर्त्तिः” सू०“व्यज्यत इति व्यक्तिरिन्द्रियग्राह्येति सर्वं द्रव्यंव्यक्तिः यो गुणविशेषाणां स्पर्शान्तानां गुरुत्वघनत्व-द्रव्यत्वसंस्काराणामव्यापिनः परिमाणस्याश्रयो यथासम्भवंतदुद्रव्यम्, मूर्त्तिः मूर्च्छितावयवत्वादि” भा०“आकृतिर्ज्जातिलिङ्गाख्या” सू०“यया जातिर्जातिलिङ्गानि प्रख्यायन्ते तामाकृतिंविद्यात् सा नाना सत्वानां तदवयवानाञ्च नियतव्यूहादिति नियतावयवव्यूहाः खलु सत्वावयवा जातिलिङ्गं शिरसा पादेन गामनुमित्सन्ति नियते तुसत्वावयवानां व्यूहे सति गोत्वं प्रख्यायत इति अना-कृतिव्यक्तिकायां जातौ मृत्सुवर्णं रजतमित्येवमादिष्वा-कृतिर्निवर्त्तते जहाति पदार्थत्वमिति” भ०“समानप्रसवात्मिका जातिः” सू०“या समानां बुद्धिं प्रसूते भिन्नेष्वधिकरणेषु यथा बहू-नीतरेतरतो व्यावर्त्तन्ते योऽर्थोऽनेकत्र प्रत्ययानुवृत्ति-निमित्तं तत् सामान्यम् यच्च केषाञ्चिद्भेदं कुतश्चिद्भेदंकरोति तत् सामान्यविशेषो जातिरिति” भा०शब्दशक्तिप्रकाशिकायामपि तदेतन्मतं समर्थितं यथा“जात्यवच्छिन्नसङ्केतवती नैमित्तिकी मता जातिमात्रेहि सङ्केताद्व्यक्तेर्भानं सुदुष्करम्” “यन्नाम जात्य-वच्छिन्नसङ्केतवत् सा नैमित्तिकी संज्ञा यथा गोचैत्राःसा हि गोत्वचैत्रत्वादिजात्यवच्छिन्नमेव गवादिकमभि-धत्ते तु गोत्रादिजातिमात्रं गोपदं गोत्वे सङ्केतित-मित्याकारकग्रहाद्गामानयेत्यादौ गोत्वादिना गवादेरन्व-यानुपपत्तेः एकशक्तत्वग्रहस्यान्यानुभावकत्वेऽतिप्रसङ्गात्”ततःपरं प्राक्दर्शितं भट्टमतं प्रदर्श्य दूषितं यथा“विनाप्याक्षेपं गामानयेत्यादितोगवादिकर्मताकत्वेनानय-नादेरन्वयबोधस्यानुभविकत्वात् गौर्गच्छतीत्यादौ शुद्ध-गोत्वे गतिमत्त्वाद्यन्वयस्यानुभवेनास्पर्शनात् गोत्वत्वाद्य-नुपस्थित्या गोत्वं गच्छतीत्याद्यनुभवस्यासम्भवात्स्वाश्रयवृत्तित्वसम्बन्धेन गतिमत्त्वादिहेतुना गवादौसाक्षात्सम्बन्धेन गतिमत्त्वाद्याक्षेपस्य व्यभिचारादिदोषेणदुःशकत्वाच्च एतेन कर्मत्वादौ गोत्वादेः स्वाश्रय-वृत्तित्वसम्बन्धेनान्वयबोधोत्तरं कर्मत्वस्य गोत्ववृत्तित्वंगोवृत्तित्वं विनानुपपन्नमित्यनुपपत्तिधीसहकृतेन गामि-त्यादिवाक्येनैव कर्मत्वं गवीयमित्यौपादानिकोगवादि-व्यक्तेर्बोध इति श्रीकरमतमप्यनादेयं मिथोविरुद्धाभ्यांशाब्दत्वार्थापत्तित्वाभ्यामवच्छिन्नबोधस्यालीकत्वेन शब्दा-नुपपत्तिभ्यां सम्भय तथाविधौपादानिकबोधस्य जनना-थोगाच्च यत्तु गौर्ज्जायते गौर्नश्यति सर्वत्र गोत्वादि-जातिशक्तेनैव गवादिपदेन लक्षणया गोत्वादिविशिष्टाव्यक्तिर्बोध्यते व्यक्तीनां बहुत्वेनान्यलभ्यत्वेन तत्रशक्तेरकल्पनात् तात्पर्य्यानुपपत्तेरपि लक्षणाया वीज-त्वात् यदाहुर्मण्डनाचार्य्याः “जातेरस्तित्वनास्तित्वे नहि कश्चिद्विवक्षति नित्यत्वाल्लक्षणीयाया व्यक्तेस्ते हिविशेषणे” इति तदपि तुच्छं व्यक्तिविनाकृतायां गोत्वादि-जातौ गवादिपदस्य मुख्यप्रयोगाभावेन तन्मात्रस्याशक्यत्वेतद्वति गवादौ लक्षणाया वक्तुमशक्यत्वात् शक्यसम्बन्ध-स्यैव लक्षणात्वात् गोरन्यो महिष इत्यादौपञ्चम्यर्थेऽवधित्वे प्रतियोगित्वे वा स्वावच्छेद्यत्वसम्बन्धेनशुद्धस्य गोत्वादेरन्वयात्तथाविधस्थल एव जातौ मुख्य-प्रयोगः तत्र पञ्चम्याः स्वार्थेऽवधित्वादौ स्वनिष्ठगोत्वा-वच्छेद्यत्वसंसर्गेण प्रकृत्यर्थस्य गवादेरन्वयबोधकत्वात्अन्यथा गोगोत्वयोर्भक्तिशक्तिभ्यां गोपदेन बोधने वृत्ति-द्वययौगपद्यापत्तेः वस्तुतः शुद्धस्य गोत्वादेः शाब्दधी-प्रकारतायाः समवायावच्छिन्नत्वनियमात्तस्यावधित्वादौस्वावच्छेद्यत्वादिसम्बन्धेनान्वयोदुर्घटः एव द्रव्यं घटइत्यादिप्रतीतेः समवायेन प्रमात्वानुरोधाद्घटत्वजातेर्नाना-त्वोपगमादिति” ।ततः परं प्रागुपदर्शितं प्राभाकरमतमुत्थाप्य दूषितं यथा“शाब्दमतेर्गवादिव्यक्त्यवगाहित्वमवश्यङ्कारणप्रयोज्यंजन्यधीविषयतायास्तत्प्रयोज्यत्वनियमादन्यथा पक्षधर्मिकसाध्यावगाहितादेरपि परामर्शादिप्रयोज्यता स्यादनु-मित्यादि सामान्यं प्रत्येव ज्ञानत्वादिना हेतुत्वस्य लाघवे-नौचित्यात् पक्षतादिसहकृतपरामर्शाद्युत्तरज्ञानस्य तत्प्रकाशस्यैव वा पक्षे साध्यावगाहित्वनियमादेवानुमित्यादेःप्रतिनियतपक्षाद्यवगाहित्वसिद्धेः किञ्च गोत्वशक्यत्वंन गोत्वसमर्थत्वं यस्य धीरन्वयधीहेतुरप्रसिद्धत्वात् नापितद्गोचरमभिधानामकं पदार्थान्तरं तत्र मानाभावात् नवा गोत्वानुभवजनकत्वं पटादिपदस्यापिं गोत्वशक्यत्वाप-त्तेस्तस्यापि गवादिपदाकाङ्क्षादिसाचिव्येन गोत्वानुभव-जनकत्वात् गोत्वानुभवसामान्यं प्रति हेतुत्वन्तथागवादिपदेऽप्यसत्त्वात् नापि गोत्वानुभवजनकत्वप्रकारक-नित्यसङ्केतवत्त्वं तादृशसङ्केतवत्त्वमात्रं वा गोत्वशक्तत्व-मिति साम्प्रतं, गोपदं गोत्वेन गवानुभवस्य जनकतयान सङ्केतितमित्यादिग्रहेऽपि तस्य ग्रहाद्गोत्वेन गो-रन्वयधीप्रसङ्गात् किन्तु गोत्वेन गवानुभवस्य जनकतयासङ्केतितत्वं तथा, तथा पदधर्मिकतज्ज्ञानत्वेनगोत्वप्रकारकशाब्दं प्रति हेतुतायां गोत्वस्येव तद्विशिष्टस्यगोरपि विषयविधयावच्छेदकत्वादवश्यं गोत्वादिविशिष्टोगवादिर्गवादिपदस्यार्थः”