| YouTube Channel

जातिभ्रंशकरं (jAtibhraMzakaraM)

 
शब्दकल्पद्रुमः
Sanskrit
जातिभ्रंशकरं,
क्ली,
(जातेर्भ्रंशं करोतीति कृ +टः ।) नवविधपापान्तर्गतपापविशेषः यथा, मनुः ११ ६७ ।“ब्राह्मणस्य रुजः कृत्याघ्रातिरघ्रेयमद्ययोः ।जैह्मं पुंसि मैथुन्यं जातिभ्रंशकरं स्मृतम्
”“ब्राह्मणस्य दण्डहस्तादिना पीडाक्रिया अघ्रेयंलशुनपुरीषादि जैह्मं कुटिलत्वं वक्रता ।” इतिकुल्लूकभट्टः