| YouTube Channel

जातवेदाः (jAtavedAH)

 
शब्दकल्पद्रुमः
Sanskrit
जातवेदाः, [स्]
पुं,
(विद्यते लभ्यते इति विद्लाभे + असुन् जातं वेदो धनं यस्मात् ।)अग्निः (अस्य निरुक्तिरुक्ता यथा, महाभारते२ ३१ ४१ ।“पावनात् पावकश्चासि वहनाद्धव्यवाहनः ।वेदास्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि
”)चित्रकवृक्षः इत्यमरः ५६
(जाते जाते सर्व्वप्रपञ्चस्य स्वस्मिन् अध्यस्ततयाविद्यते यो जीवः यद्बा, जातानि सर्व्वाणिकारणत्वेन विदन्ति यमिति विद् ज्ञाने +असुन् अन्तर्य्यामी परमेश्वरः यथा, भाग-वते १४ “ओँ परो रजः सवितुर्जातवेदो देवस्य भर्गो मनसेदं जजान
“जातंवेदो धनं कर्म्मफलं यस्मात् कर्म्मफलदमित्यर्थः
”इति श्रीभागवतटीकाकृत् श्रीधरस्वामी
)