| YouTube Channel

जातकर्म्मन् (jAtakarmman)

 
वाचस्पत्यम्
Sanskrit
जातकर्म्मन्
न०
जाते कर्म पुत्रजन्मनिमित्ते पितृकर्त्तव्येपुत्रसस्कारभेदे तच्च आश्व० गृ० १५ दर्शितं यथा ।“कुमारं जातं पुराऽन्यैरालम्भात् सर्पिर्मधुनीहिरण्यनिकाषं हिरण्येन प्राशयेत् “प्र ते ददामि मधुनीघृतस्य वेदं सवित्रा प्रसूतं मघोनाम् आयुष्मान्गुप्तो देवताभिः शतं जीव शरदो लोके अस्मि-न्निति” सू० “इदं जातकर्म कुमारग्रहणं कुमारी-निवृत्त्यर्थम ननु कुमार्य्या अपि भवत्येव जातकर्म ।कुतः वक्ष्यति “आवृतैव कुमार्याः” इति, उच्यते प्रवा-सादागतस्य विहितं कर्मावृता भवति जातकर्मअनन्तरत्वात् एवमेके अन्ये पुरनरावृतैव कुमार्याइत्येतदुभयार्थमिति वदन्ति तेन कुमार्या अपिजातकर्म भवति मनुनाप्युक्तम् “अमन्त्रिकातु कार्य्येयं स्त्रीणामावृदशेषतः” इति तहिकुमारग्रहणं किमर्थम्? अधिकारार्थम् “अष्टमे वर्षेब्राह्मणमुपनयेदित्युपनयनं कुमारस्येव यथा स्यात्न कुमार्या इति ननु ब्राह्मणमिति पुंलिङ्गनिर्देशा-देव भविष्यति जातिनिर्देशे लिङ्गमविव-क्षितम् यथा ब्राह्मणो हन्तव्य इति ब्राह्मण्यपिन हन्यते एवमत्रापि स्त्रियाः प्रसज्यते तन्निवृत्त्यर्थंकुमारग्रहणमिति जातग्रहणमप्यधिकारार्थम् “गो-दानं षोडशे वर्षे” इति जन्मतः प्रभृतिषोडशोयथा स्यात्उपनयनप्रभृति मा भूदिति पुरा पूर्वमित्यर्थः अन्य-ग्रहणमनधिकृतालम्भनात् प्राक् कर्म कर्त्तव्यमित्येव-मर्थम् सर्पिर्मधुनी हिरण्येन निकाशयति ते हिरण्य-संसृष्टे हिरण्येन प्राशयेत् मातुरुपस्थ आसीनं “प्र तेददामीति” मन्त्रेण नारा० वृ० ।“कर्णयोरुपनिधाय मेधाजननं जपति “मेधान्तेदेवः सविता मेधां देवी सरस्वती मेधान्ते अश्विनौदेवावाधत्तां पुष्करस्रजौ” सू० “अस्य कर्णयोः हिरण्यंनिधाय मेधाजननं जपति मेधान्त इति उपग्रहणंतस्य मुखसमीपे आत्मनोमुखं निधाय जपार्थं मेधाजननमित्यस्य मन्त्रस्याख्या सकृन्मन्त्रः पर्यायेणोप-निधानमित्येके अन्ये मन्त्रावृत्तिमिच्छन्ति” नारा०“गार्भैर्होमैर्जातकर्म्मचौडमौञ्जीनिवन्धनैः प्राङ्-नाभिवर्द्धनात् पुंसो जातकर्म्म विधीयते” मनुः ।“नाभिवर्द्धनात् नाभिसम्बन्धात् नाडीच्छेदनात् वैज-वापिः “जन्मनोऽनन्तरं कार्य्यं जातकर्म यथाविधि ।दैवादतीतः कालश्चेत् अतीते सुतके भवेत्” एवञ्च, “मृदुध्रुवचरक्षिप्रभेष्वेषामुदयेऽपि वा गुरौ शुक्रेऽथ वाकेन्द्रे जातकर्म्म नाम च” इति ज्योतिःशास्त्रोक्तेर्दैवात् कालोत्कर्षे वेदितव्यम् अनुत्कर्षेऽपि नक्षत्रादि-नियमो न, नैमित्तिकस्य निमित्तान्तरभावित्वेन निरव-काशत्वात् ज्यो० त०