जातक (jAtaka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishCapeller Eng
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishजातक - jAtaka - - born under
जातक - jAtaka - - engendered by
जातक - jAtaka - - astrological calculation of a nativity
जातक - jAtaka - - new-born child
जातक - jAtaka - - mendicant
जातक - jAtaka - - nativity
जातक - jAtaka - - aggregate of similar things
जातक - jAtaka - - story of a former birth of gautama buddha
Wilson
EnglishApte
Englishजातक [jātaka], [जात-स्वार्थे क] Born, produced.
कः A new-born infant.
A mendicant.
कम् A ceremony performed after the birth of a child (जातकर्मन्)
जात- काद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम् * 1.8.12
जातकं कारयामास वर्तयित्वा च मङ्गलम् 1.12.13.
Astrological calculation of a nativity.
An aggregate of similar things. -चक्रम् A circle foreboding good or evil in a man's life. -ध्वनिः a leech.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishजातक, अस्, आ, अम्, born, produced
(अस्), m. a
new-born child
a mendicant
(अम्), n. = जात-
कर्मन्, a ceremony performed after the birth of a
child
nativity, astrological calculation of a nativity
(with Buddhists) a former birth of Śākya-muni and
its history
an aggregate or a collection of similar
things
[cf. चतुर्-जातक।]
—जातक-ध्वनि, इस्,
m. a leech.
—जातक-पद्धति, इस्, f., N. of a work
on nativities by Ananta
another work by Keśava.
—जातक-मुक्तावली, f. title of an astrological
work by Śiva-dāsa.
—जातकाम्भोनिधि (°क-अम्°),
इस्, m. title of an astrological work by Bhadra-bāhu.
Macdonell
EnglishBenfey
EnglishHindi
Hindiक्रिसमस का शाब्दिक अर्थ है, जो पैदा होता है
Apte Hindi
Hindiजातक
वि* - जात + कन्
"जन्मा हुआ, उत्पन्न"
जातकः
- -
नवजात शिशु
जातकः
- -
भिक्षु
जातकम्
- -
जातकर्मसंस्कार
जातकम्
- -
जन्म विषयक फलित ज्योतिष की गणना
जातकम्
- -
एक जैसी वस्तुओं का संग्रह
Shabdartha Kaustubha
Kannadaजातक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸದ್ಯಃ ಹುಟ್ಟಿದ ಶಿಶು
जातक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಭಿಕ್ಷು /ತಾಪಸ
जातक
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಜಾತಕ /ಜನ್ಮಪತ್ರಿಕೆ /ಜನ್ಮಕಾಲದ ತಿಥಿ ವಾರ ನಕ್ಷತ್ರ ಲಗ್ನ ಮೊದಲಾದ ವಿವರಗಳನ್ನು ತಿಳಿಸುವ ಪತ್ರಿಕೆ
जातक
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಶಿಶುವಿನ ಜನ್ಮಕಾಲದ ನಕ್ಷತ್ರ ಲಗ್ನ ಮೊದಲಾದುವುಗಳಿಂದ ಶುಭಾಶುಭ ಫಲಗಳನ್ನು ತಿಳಿಸುವ ಗ್ರಂಥ
निष्पत्तिः - > "अण्" (४-३-८७) । सञ्ज्ञायां "कन्"
व्युत्पत्तिः - > जातं जननम्, तदधिकृत्य कृतो ग्रन्थः
जातक
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಹುಟ್ಟಿದ /ಜನ್ಮವೆತ್ತಿದ
प्रयोगाः - > "उभौ तौ नार्हतो भागं जारजातककामजौ"
उल्लेखाः - > मनु० ९-१४३
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
EnglishEdgerton Buddhist Hybrid
Englishjātaka, nt., rarely m.,
(1) m. pl., experiences in past births, particularly of Bodhisattvas: Bbh 〔67.17〕 (sa tena pūrve-)nivāsānusmṛtijñānena jātakān pūrvāṃ bodhisattvacaryā-paramādbhutacaryāṃ sattvānāṃ buddhe … prasādajananārthaṃ … prakāśayati, by this knowledge consisting of remembrance of former births he reveals to creatures, in order to make them well-disposed to the Buddha, his experiences in past births etc.
〔397.13〕 (pūrvenivāsānusmṛtijñānabalena tathāgataḥ pūrvānte itivṛttakāṃś) ca jātakāṃś ca smṛtvā … vineyānāṃ deśayati
this [Page240-b] usage, which is prob. only a late and secondary extension of the next mg., seems not recorded in Pali
(2) nt., = Pali id., a story of a previous birth of the Buddha, common esp. in colophons to many such stories in Mv, e.g. 〔i.282.13〕
also as n. of a work or type of literature, sometimes, at least, referring to a specific collection of such stories like the Pali Jāt.: as one of the nine (Mvy twelve) pravacana, gospel texts (Mvy dharma-pra°), Dharmas 〔62〕
Mvy 〔1275〕
in a similar list, SP 〔45.7〕
Jātake Śyāmākajātakaprabhṛtiṣu Karmav 〔50.6〕, in the Jātaka (collection), in the Śyāmāka (individual) Jātaka and others like it, combining both these mgs. in one phrase
(3) in Mv 〔i.104.13〕
〔105.5, 7〕
〔192.19〕 taken by Senart in sense 2 above, but I think wrongly
I believe it means nativity in the sense of (astrologically determinable) personality and destiny, as in Skt.
or possibly future birth. This seems to me indicated by adjoining parallel terms, esp. paramata, q.v., which Senart misunderstands: (bodhisattvacaritaṃ …) jātakāparamateṣu kovidā (deśayanti … īśvarā) Mv 〔i.104.13〕 (vs
kā for -ka, m.c.), the Lords (Buddhas), being skilled in nativities (indicating personality and destiny
or, future births) and in the thoughts of others, proclaim the (future!) course of Bodhisattvas …
(yānīmāni) … jātakāni jinabhāṣitāni imāni kutaḥprabhṛtikāni vijñeyāni (? em.
mss. ciṃhneyāni) 〔105.5〕, answered by: yānīmāni … jātakāni jinabhāṣitāni imāṃ aṣṭamīṃ bhūmiṃ (so some mss.) prapadyanti (v.l. prayanti) 〔105.7〕
the mg., as Senart suggests, seems (from -prabhṛtikāni) to be that they begin with the 8th bhūmi
but as this passage occurs in a description of the 4th bhūmi, it is future births or destines that are meant. In 〔i.192.19〕 (vs), after saṃbuddhāḥ sarvaparamataṃ viduḥ 18, Buddhas know all the thoughts of others, we read: adhyāśayaṃ parīkṣanti jātakā sarvaprāṇināṃ, they perceive the disposition and the destinies (future births) of all living beings.
Indian Epigraphical Glossary
EnglishSanskrit Tibetan
Tibetanskyes pa'i rabs
जातक
skyes pa'i rabs kyi sde
जातक
skyes rabs
जातक
शब्दकल्पद्रुमः
Sanskritजातकं, (जातं जन्म तदधिकृत्य कृतो ग्रन्थःइत्यण् ततः स्वार्थे कन् । यद्वा, जातेन शिशो-र्जन्मना कायतीति । कै + कः ।) जातबालकस्य शुभाशुभनिर्णायकग्रन्थः । तस्य भेदाः ।जातकदीपिका १ जातकामृतम् २ जातक-तरङ्गिणो ३ जातककौमुदी ४ जातकरत्ना-करः ५ जातकसारः ६ जातकार्णवः ७ जातक-चन्द्रिका ८ लघुजातकम् ९ बृहज्जातकम् १०इत्यादि । इति ज्योतिषम् ॥
वाचस्पत्यम्
Sanskritजातक जात + स्वार्थे क । १ उत्पन्ने “उभौ तौ नार्हतोभागं जारजातककामजौ” मनुः । जातं जन्म तदधिकृत्यकृतो ग्रन्थः अण् संज्ञायां कन् । २ होरातन्त्रे । तच्चनानाज्योतिर्विद्भिर्नानाविधं रचितं तत्र वृहज्जातकस्येवअतिप्रामाणिकत्वात् तच्छास्त्रप्रतिपाद्यविषया ग्रन्यकृता२५ अ० वराहमिहिरेणोक्ताः प्रदर्श्यन्ते । “राशिप्रभेदोग्रहयोनिभेदो वियोनिजन्माथ निषेककालः । जन्माथसद्योमरणं तथायुर्दशाविपाकोऽष्टकवर्गसंज्ञः । कर्माजीवोराजयोगाः खयोगाश्चान्द्रा योगाद्विग्रहाद्याश्च योगाः ।प्रवृज्याथो राशिशीलानि दृष्टिर्भावस्तस्मादाश्रयोऽथप्रकीर्णः । नेष्टायोना जातकं कामिनीनां निर्याणां स्यान्न-ष्टजन्मद्रिकाणः । अत्राध्याया विंशतिः पञ्चयुक्ता जन्म-न्येतद्यात्रिकं चाभिधास्ये” ।“राशिप्रभदः प्रथमेऽध्याये । ग्रहयोनिभेदः द्वितीयेवियोनिजन्म तृतीये । निषेककालश्चतुर्थे । जन्मविधिःपञ्चमे । सद्योमरणं षष्ठे । आयुर्विभागः सप्तमे । दशा-विभागोऽष्टमे । अष्टकवर्गो नवमे । कर्माजीवो दशमे ।राजयोगा एकादशे । खयोगाः (नाभसयोगाः) द्वादशे ।चान्द्रयोगाः सुनफाद्याश्चन्द्रयोगास्त्रयोदशे द्विग्रहत्रिग्रह-योगाश्चतुर्द्दशे । प्रव्रज्यायोगा पञ्चदशे । राशिशीलम्षोडशे । दृष्टिफलं सप्तदशे । भावफलमष्टादशे । आश्रयएकोनविंशतितमे । प्रकीर्णफलम् विंशतितमे । अनिष्ट-योगा एकविंशे । कामिनीनां (स्त्रीणां) जातकं द्वाविंशे ।निर्याणं (मरणं) तन्निरूपणं त्रयोविंशे । नष्टजातकंचतुर्विंशे । द्रेष्काणस्वरूपादि पञ्चविंशे । एवं पञ्चयुक्ताध्या-यानांविंशतिर्जन्मनि जातके कथिता एतज्जातके उक्ताः ।जन्मफलं पञ्चमे उक्तं यथा“पितुर्जातः परोक्षस्य लग्नमिन्दावपश्यति । विदेशस्थस्यचरभे मध्याद्भ्रष्टे दिवाकरे । उदयस्थेऽपि वा मन्देकुजे बास्तं ७ समागते । स्थिते वान्तःक्षपानाथे शशाङ्क-सुतशुक्रयोः । शशाङ्के पापलग्ने वा वृश्चिकेऽंशत्रिभागगे ।शुभैः खायस्थितैर्जातः सर्पस्तद्वेष्टितोऽपि वा । चतुष्पद-गते भानौ शैषैर्वीर्यसमन्वितैः । द्वितनुस्थैश्च यमलौ भवतःकोशवेष्टितौ । छागसिंहवृषैर्लग्ने तत्स्थे सौरेऽथवाकुजे । राश्यंशसदृशं गात्रं जायते नालवेष्टितः ।न लग्नमिन्दुञ्च पुरुर्निरीक्षते न वा शशाङ्कं रविणासमागतम् । सपापकोऽर्केण युतोऽथवा शशी परेण जातंप्रवदन्ति निश्चयात् । क्रूरर्क्षगतावशोभनौ सूर्य्याद्द्यूननवात्मजस्थितौ । वद्धस्तु पिता विदेशगः स्वे वा राशिव-शादथो पथि । पूर्णे शशिनि स्वराशिगे सौम्ये लग्नगतेशुभे सुखे४ । लग्ने जलजेऽस्तगेऽपि वा चन्द्रे पोतगताप्रसूयते । आप्योदयमाप्यगः शशी संपूर्णः समवेक्षतेऽथवा । मेसूरणबन्धुलग्नगः स्यात् सूतिः सलिले न संशयः ।उदयोडुपयोर्व्ययस्थिते गुप्त्यां पापनिरीक्षते यमे । अलि-कर्कियुते विलग्नगे सारे शीतकरेक्षितेऽवटे । मन्दे-ऽब्जगते विलग्नगे बुधसूर्येन्दुनिरीक्षिते क्रमात् । क्रीडा-भवने सुरालये सोषरभूमिषु च प्रसूयते । नृलग्नगंप्रेक्ष्य कुजः श्मशाने रम्ये सितेन्दू गुरुरग्निहोत्रे ।रविर्नरेन्द्रामरगोकुलेषु शिल्पालये ज्ञः प्रसवं करोति ।राश्यंशसमानगोचरे मार्गे जन्मचरे स्थिरे गृहे । स्वर्क्षांशगते स्वमन्दिरे बलयोगात् फलमंशकर्क्षयोः । आरार्क-जयोस्त्रिकोणगे चन्द्रेऽस्ते च विसृज्यतेऽम्बया । दृष्टे-ऽमरराजमन्त्रिणा दीर्घायुः सुखभाक् च स स्मृतः । पापे-क्षिते तुहिनगावुदये कुजेऽस्ते त्यक्तो विनश्यति कुजार्कजयोस्तथाये सौम्येऽपि पश्यति तथाविधनस्तमेतिसौम्येतरेषु परहस्तगतोऽप्यनायुः । पितृमातृगृहेषुतद्बलात्तरुशालादिषु नीचगैः शुभैः । यदि नैकगतौ तुवीक्षितौ लग्नेन्दू विजने प्रसूयते । मन्दर्क्षांशे शशिनिहिबुके मन्ददृष्टेऽब्जगे वा तद्युक्ते वा तमसि शयनेनीचसंस्थैश्च भूमौ । यद्वद्राशिं व्रजति हरिजं गर्भमोक्षस्तुतद्वत्पापैश्चन्द्रात् स्मरसुखगतैः क्लेशमाहुर्जनन्याः ।स्नेहः शशाङ्कादुदयाच्च वर्तिर्दीपोऽर्कयुक्तर्क्षवशाच्चराद्यः ।द्वारं च तद्वास्तुनि केन्द्रसंस्थैर्ज्ञेयं ग्रहैर्वीर्यसमन्वितैर्वा ।जीर्णं संस्कृतमर्कजे क्षितिसुते दग्धं नवं शीतगौ काष्ठाद्यंन दृढं रवौ शशिसुते तन्नैकशिल्प्युद्भवम् । रम्यं चित्रयुतंनवं च भृगुजे जीवे दृढं मन्दिरं चक्रस्थैश्च यथोपदेश-रचनां सामन्तपूर्वां वदेत् । मेषकुलीरतुलालिघटैः प्रागु-त्तरतो गुरुसौम्यगृहेषु । पश्चिमतश्च वृषेण निबासो दक्षिण-भागकरौ मृगसिंहौ । प्राच्यादिगृहक्रियादयो द्वौ द्वौकोणगताद्विमूर्त्तयः । शय्यास्वपि वास्तुवद्वदेद् त्र्याद्यैः षट्त्रिनवान्त्यसंस्थितैः । चन्द्रलग्नान्तरगतैर्ग्रहैः स्युरुपं-सूतिकाः । बहिरन्तश्च चक्रार्द्धे दृश्यादृश्येऽन्यथा परे ।लग्ननवांशपतुल्यतनुः स्याद्वीर्ययुतग्रहतुल्यतनुर्वा । चन्द्र-समेतनवांशपवर्णः कादिविलग्नविभक्तभगात्रः । कदृक् श्रोत्रनसा कपोलहनवो वक्त्रञ्च होरादयस्ते कण्ठांसकबाहुपार्श्वहृदयं क्रोडानि नाभिस्ततः । वस्तिः शिश्न-गुदे ततश्च वृषणावूरू ततो जानुनी । जङ्घाङ्घ्रीह्युभयत्रवाममुदितैर्द्रेक्वाणभागैस्त्रिधा । तस्मिन् पापयुते व्रणंशुभयुते दृष्टे च लक्ष्मादिशेत् स्वर्क्षांशे स्थिरसंयुते च स-हजः स्यादन्यथाऽऽगन्तुकः । मन्देऽश्मानिलजोऽग्निशस्त्रविषजो भौमे वुधे भूभवः सूर्ये काष्ठचतुष्पदेषु द्विमगौशृङ्ग्यब्जजोन्यैः शुभम् । समनुपतिता यस्मिन् भागेबयः सबुधा ग्रहा भवति नियमात्तस्यावाप्तिः शुभेष्वशुभेषु वा । व्रणकृदशुभः षष्ठे देहे तनोर्भसमाश्रिते ति-लकमसकृद्दृष्टः सौम्यैर्युतश्च स लक्ष्मवान्” ९ अ० अष्ट-वर्गफलमुक्तं तच्चाष्टवर्गशब्दे ५२० पृ० दर्शितम् । नाभसा-दियोगास्तच्छब्दे वक्ष्यन्ते ।तत्रोनविंशोरिष्टाध्यायो यथा“लग्नात्पुत्रकलत्रभे शुभपतिप्राप्तेऽथ याऽऽलोकितेचन्द्राद्वा यदि सम्पदस्ति हितयोर्ज्ञेयोऽन्यथासम्भवः ।पाथेनोदयगे रवौ रविसुतो मीनस्थितोदारहापुत्रस्थानगतश्च पुत्रमरणं पुत्रोऽवनेर्यच्छति । उग्र-ग्रहैः सितचतुरस्रसंस्थितैर्मध्यस्थिते भृगुतनयेऽथवो-ग्रयोः । सौम्यग्रहैरसहितसंनिरीक्षिते जायाबधोदहन-निपातपाशजः । लग्नाद्व्ययारिगतयोः शशितिन्मरश्म्योःषत्न्या सहैकनयनस्य वदन्ति जन्म । द्यूनस्थयोर्नव-मपञ्चमसस्थयोर्वा शुक्रार्कयोर्विकलदारमुशन्ति जातम् ।कोणोदये भृगुतनयेऽस्तचक्रसन्धौ बन्ध्यापतिर्यदि न सुत-र्क्षमिष्टयुक्तम् । पापग्रहैर्व्ययमदलग्नराशिसंस्थैः क्षीणेशशिन्यसुतकलत्रजन्मधीस्थे । असितकुजयोर्वर्गेऽस्तस्थेसिते तदवेक्षिते परयुवतिगस्तौ चेत् सेन्दूस्त्रिया सहपुंश्चलः । भृगुजशशिनोरस्तेऽभार्य्यो नरोविसुतोऽपि वापरिणतुतनूनृस्त्र्योर्दृष्टौ शुभैः प्रमदापती । वंशच्छेत्ताखमदसुखगैश्चन्द्रदैत्येज्यपापैः शिल्पी त्र्यंशे शशिसुतयुतेकेन्द्रसंस्थार्किदृष्टे । दास्यां जातोदितिसुतगुरौ रिपफगेसौरभागे नीचेऽर्केन्द्वोर्मदनगतयोर्दृष्टयोः सूर्य्यजेन । पापा-ऽऽलोकितयोः सितावनिजयोरस्तस्थयोर्वाध्यरुक्वेन्दे कर्कटवृश्चिकांशकगते पापैर्युते गुह्यरुक् । श्वित्री रिप्फधनस्थयो-रशुभयोश्चन्द्रोदयेऽस्ते रवौ चन्द्रे खेऽवनिजेऽष्टगे च वि-कलो यद्यर्कजीवेशिगः । अन्तःशशिन्यशुभयोर्मृगगे पतङ्गेस्वासक्षयप्लिहकविद्रधिगुल्मभाजः । शोफीपरस्परगृहांश-गयोरवीन्द्वीः क्षेत्रेऽथवा युगपदेकगयोः कृशो वा । चन्द्रे-ऽश्विमध्यझषकर्किमृगाजभागे कुष्ठी समन्दरुधिरे तदवेक्षितेवा । यातैस्त्रिकोणमलिकर्किवृषैर्मृगे च कुष्टी च पापसहि-तैरवलोकितैर्वा । निधनारिधनव्ययस्थिता रविचन्द्रारयभायथा तथा । बलवद्ग्रहदोषकारणैर्मनुजाना जनयन्त्य-नेत्रत्पम् । नवमायतृतीयधीयुता न च सौम्यैरशुभानिरीक्षिताः । नियमाच्छ्रवणोपघातदा रदवैकृत्यकराश्चसप्तमे । उदयत्युडपे सरास्यगे सपिशाचोऽशुभयोस्त्रिको-णयोः । तमसोपप्लवमण्डले रवावुदयस्थे नयनोपवर्जितः ।संस्पृष्टः पवनेन मन्दगयुते द्यूने विलग्ने हरौ सोन्मादोऽवनिजे स्थितेऽस्तभवने जीवे विलग्नाश्रिते । तद्वत्सूर्य्य-सुतोदयेऽवनिसुते धर्मात्मजद्यूनगे जाते वा ससहस्ररश्मि-तनये क्षीणे व्यये शीतगौ । राश्यंशपोष्णकरशीतकराम-रेज्यैर्मीचाधिपांशकगतैरारभावगैर्वा । एभ्योऽल्पमध्य-बहुभिः क्रमशः प्रसूताज्ञेयाःस्युरभ्युपगमक्रयगर्भदासाः।विकृतदशनः पापैर्दृष्टे वृषाजहयोदये खलतिरशुभक्षेत्रेलग्नेहये वृषभेऽपि वा । नवमसुतगे पापैर्दृष्टे रवावदृढेक्षणो दिनकरसुतेऽनेकव्याधिः कुजे विकलः पुमान् ।व्ययसुतधनधर्मगैरमौम्यैर्भवनसमाननिबन्धनं विकल्प्यम् ।भुजगानगडपाशभृद्दृकाणैर्बलवदसौम्यनिरीक्षितैश्च तद्वत् ।परुषवचनोऽपस्मारार्त्तः क्षयी च निशापतौ सरवितनयेवक्रालोकं गते परिवेषगे । रवियमकुजैः सौम्यादृष्टैर्नभ-स्थलमाश्रितैर्भृतकमनुजः पूर्वोद्दिष्टैर्वराधममध्यमाः ।”चान्द्रयोगास्तु १३ अ० उक्ता यथा ।“अधमसमवरिष्ठान्यर्ककेन्द्रादिसंस्थे शशिनि विनय-वित्तज्ञानधीनैपुणानि । अहनि निशि च चन्द्रे स्वाधि-मित्रांशके वा सुरगुरुसितदृष्टे वित्तवान् स्यात् सुखी च ।सौम्यैः स्मरारिनिधनेष्वधियोग इन्दोस्तस्मिंश्चमूपसचिवक्षितिपालजन्मा सम्पन्नसौख्यविभवा हतशत्रवश्च दीर्घायुषोविगतरोगभयाश्च जाताः । हित्वार्कं सुनफाऽनफा दुरुधुरास्वान्त्योभयस्थैर्ग्रहः शीताशोः कायतोऽन्यथा तु बहुभिःकेमद्रुमोऽन्यैस्त्वसौ । केन्द्रं शीतकरेऽथवा ग्रहयुते केम-द्रुमो नेष्यते केचित् केन्द्रनवांशकेषु च वदन्त्युक्तिःप्रसिद्धा न तु । त्रिंशत्सरूपाः सुनफाऽनफाख्याः षाष्टत्र-यन्दौरुधुरे प्रभेदाः । इच्छाविकल्पैः क्रमशोऽभिनीय नीतेनिवृत्तिः पुनरन्यनीतिः । स्वयमधिगतवित्तः पार्थिव-स्तत्समो वा भवति हि सुनफायान्धीघनख्यातमांश्च ।प्रभुरगदशरीरः शीलवान् ख्यातकीर्तिर्विषयसुखसुवेषानिर्वृतश्चानफायाम् । उत्पन्नभोगसुखभुग्धनवाहनाढ्य-स्त्यागान्वितो दुरुधुराप्रभवः सुभृत्यः । केमद्रुमे मलिन-दुःखितनीचिनिःस्वाः प्रेष्याः खलाश्च नृपतेरपि वंश-जाताः । उत्साहशौर्य्यधनसाहसवान् महीजः सौम्यःपटुः सुवचनो निपुणः कलासु । जीवोऽथधर्मसुखभुग्नृपपूजितश्च कामी भृगुर्बहुधनो विषयोपभोक्ता । परवि-भवपरिच्छदोपभोक्ता रवितनयो बहुकार्य्यकृद्गणेशः । अशु-भकृदुडपोऽह्नि दृश्यमूर्तिगीलततनुश्च शुभोऽन्यथान्यदूह्यम् ।लग्नादतीव वसुमान् वसुमांच्छशाङ्कात्सौम्यग्रहैरुपचयोप-गतैः समस्तैः । द्वाभ्यां समोऽल्पवसुमांश्च तदूनतायामन्ये-ष्वसत्खपि फलेष्विदमुत्कटेन” ।द्विग्रहादियोगास्तु १३ अ० उक्ता यथा“तिम्पांशुर्जनयत्युषेशसहितो यन्त्राश्मकारं नरंभौमेनाघरतं बुधेन निपुणं धीकीर्त्तिसौख्यान्वितम् ।क्रूरं वाक्पतिनान्यकार्यनिरतं शुक्रेण रङ्गायुधैर्लब्धस्वम्रविजेन धातुकुशलं भाण्डप्रकारेषु वा । कूटस्त्र्यासवकुम्भपण्यमशिवं मातुः सवक्रः शशी संज्ञः प्रस्मृतवाक्य-मर्थनिपुणं सौभाग्यकीर्त्यान्धितम् । विक्रान्तं कुलमुख्य-मस्थिरमतिं वित्तेश्वरं साङ्गिरा वस्त्राणां ससितःक्रयादिकुशलं सार्किः पुनर्भूसुतम् । मूलादिस्नेहकूटै-र्व्यवहरति वणिग्बाहुयोद्धा ससौम्ये पुर्यध्यक्षः स-जीवे भवति नरपतिः प्राप्तवित्तो द्विजो वा । गोपोमल्लोऽथ दक्षः परयुवतिरतोद्यूतकृत् सासुरेज्ये दुःखार्त्तोऽसत्यसन्धः समवितृतनये भूमिजे निन्दितश्च । सौम्येरङ्गवरो वृहस्पतियुते गीतप्रियो नृत्यविद्वाग्मी भूगणपःसितेन मृदुना मायापदुर्लङ्घकः । सद्विद्यो धनदारवान्बहुगुणः शुक्रेण युक्ते गुरौ । ज्ञेयः श्मश्रुकरोऽसितेनघटकृज्जातोऽन्नकारोऽपि वा । असितसितसमागमेऽल्पचक्षुर्युवतिसमाश्रयसंप्रवृद्धवित्तः । भवति च लिपिपुस्त-चित्रवेत्ता कथितफलैः परतो विकल्पनीयाः” ।अथ नक्षत्रभेदे जन्मफलम् वृहज्जातके १६ अ० ।“प्रियभूषणः सुरूपः सुभगो दक्षीऽश्विनीषु मतिमांश्च ।कृतनिश्चयः सत्यवाग् दक्षः सुखितश्च भरणीषु । बहु-भुक्परदाररतस्तेजस्वी कृत्तिकासु विख्यातः । रोहिण्यांसत्यशुचिः प्रियंवदः स्थिरमतिः सुरूपश्च । चपलश्चतुरोभीरुः पटुरुत्साही धनी मृगे भोगी । शठगर्वितः कृत-घ्नो हिंस्रः पापश्च रौद्रर्क्षे ६ । दान्तः सुखी सुशीलो दु-र्मेधो रोगभाक् पिपासुश्च । अलपेन च सन्तुष्टः पुनर्वसौजायते मनुजः । शान्तात्मा सुभगः पण्डितो धनीधर्मसंसृतः पुष्ये । शठसर्वभक्षः पापः कृतघ्नधूर्त्तश्चभौजङ्गे ९ । बहुभृत्यधनोभोगी पितृसुभक्तो महोद्यमःपित्र्ये १० । प्रियवाग् दाता द्युतिमानटनो नृपसेवकोभाग्ये ११ । सुभगो विद्याप्तधनो भोगी सुखभाग् द्वितीय-फाल्गुन्याम् । उत्साही धृष्टः पानपोऽघृणी तस्करोहस्ते । चित्राम्बरमाल्यधरः सुलोचनाङ्गश्च भवतिचित्रायाम् । दान्ती बणिक् कृपालुः प्रियवाग् धर्माश्रितःस्वातौ । ईर्ष्युर्लुब्धो द्युतिमान् वचनपटुः कलहकृ-द्विशाखासु । आढ्यो विदेशवासी क्षुधालुरटनाऽनुरा-धासु । ज्येष्ठासु न बहुमित्रः सन्तुष्टो धर्मकृत् प्रचुर-कोपः । मूले मानी धनवान् सुखी नहिंस्रः स्थिरोभोगी । इष्टानन्दकलत्रो मानी दृढः सौहृदश्च जलदेवे २० ।वैश्वे २१ विनीतधार्मिकबहुमित्रः कृतज्ञसुभगश्च । श्रीमान्श्रवणे श्रुतवानुदारो धनान्वितः ख्यातः । दाताऽऽढ्यशूरः गीतप्रियो धनिष्ठासु धनलुब्धः । स्फुटवाग् व्यसमीरिपुहा साहसिकः शतभिषजि दुर्ग्राह्यः । भाद्रपदासू-द्विग्नः स्त्रीजितधनी पटुरदाता च । वक्ता सुखी प्रजा-वान् जितशत्रुर्धार्मिको द्वितीयासु । सम्पूर्णाङ्गः सुभगः शूरः शुचिरथर्वान् पौष्णे” २७ ।जन्मराशिफलम् तत्रैव १७ अ० ।“वृत्ताताम्रदृगुष्णशाकलघुभुक् क्षिप्रप्रसादोऽटनः कामीदुर्बलजानुरस्थिरवनः शूरोऽङ्गनावल्लभः । सेवाज्ञः कुनखीव्रणाङ्कितशिरोमानी सहोत्वाग्रजः शक्त्या पाणितले-ऽङ्कितोऽतिचपलस्तोये च भीरुः क्रिये १ । कान्तः खेल-गतिः पृथूरुवदनः पृष्ठास्यपार्श्वेऽङ्कितस्त्यागी क्लेशसहःप्रभुः ककुदवान् कन्याप्रजः श्लेष्मजः । पूर्वैर्बन्धुधनात्मजै-र्विरहितः सौभाग्ययुक्तः क्षमी दीप्ताग्निः प्रमदाप्रियःस्थिरसुहृन्मध्यान्त्यसौख्ये गवि २ । स्त्रीलोलः सुरतो-पचारकुशलस्ताम्रेक्षणः शास्त्रविद्दूतः कुञ्चितमूर्द्धजःपटुमतिर्हास्येङ्गितद्यूतवित् । चार्वङ्गः गियवाक् प्रभक्षण-रुचिर्गीतिप्रियो नृत्यवित् क्लीवैर्याति रतिं समुन्नतनस-श्चन्द्रे तृतीयर्क्षगे ३ । आवक्रद्रुतगः समुन्नतकटिः स्त्रीनि-र्जितः सत्सुहृद्दैवज्ञः प्रचुरालयः क्षयधनैः संयुज्यतेचन्द्रवत् । ह्रस्वः पीनगलः समेति च वशं साम्ना सुहृद्वत्सलस्तोयोद्यानरतः स्ववेश्म४ सहिते जातः शशाङ्के नरः ।तीक्ष्णः स्थूलहनिर्विशालवदनः पिङ्गेक्षणोऽल्पात्मजःस्त्रीद्वेषी प्रियमांसकानननगः कुप्यत्यकार्ये चिरम् ।क्षुत्तृष्णोदरदन्तमानसरुजासंपीडितस्त्यागवान् विक्रान्तस्थिरधीः सुगर्वितमना मातुर्विधेयोऽर्कभे ५ । व्रीडामन्थर-बारुवीक्षणगतिः स्रस्तांसबाहुः सुखी श्लक्ष्णः सत्यरतःकलासु निपुणः शास्त्रार्थविद्धार्मिकः । मेधावी सुरतप्रियःपरगृहैर्वित्तैश्च संयुज्यते कन्यायां ६ परदेशगः प्रियवचाःकन्याप्रजोऽल्पात्मजः । देवब्राह्मणसाधुपूजनरतः प्राज्ञःशुचिः स्त्रीजितः प्रांशुश्चोन्नतनासिकः कृशचलद्गात्रो-ऽटनोऽर्थान्धितः । हीनाङः क्रयविक्रयेषु कुशलो देबद्वि-नामा सरुग्बन्धूनामुपकारकृद्विरुषितस्त्यक्तस्तुतैः सप्तमे ७ ।पृथुननयनवक्षावृत्तजङ्घोरुजानुर्जनकगुरु वयुक्तः शैशवेव्याधितश्च । नरपतिकुलपूज्यः पिङ्गलः क्रूरचेष्टो झष-कुलिशखगाङ्कच्छन्नपापोऽलिजातः ८ । व्यादीर्घास्यशिरो-धरः पितृधनत्यागी कविर्वीयवान् वक्ता स्थूलरदश्रवोऽध-रनसः कर्मोद्यतः शिल्पवित् । कुब्जांसः कुनखी समांसलभुजः प्रागल्भ्यवान् धर्मविद्बन्ध्रुद्विट् न बलात् समेतिच वशं साम्नैकसाध्योऽऽश्वजः ९ । नित्यं लालयति स्वदा-रतनयान् धर्मध्वजोऽधःकृशः स्वक्षः क्षामकटिर्गृहीतवचनःसौभाग्ययुक्तोऽलसः । शीतालुर्मनुजीव्टनश्च मकरे १०सत्वाधिकः काव्यकृल्लुब्धा गम्यजराङ्गनासु निरतः संत्यक्तलज्जीऽघृणश्च । करभगलसिरालुः खरलोमशदीर्घतनुःपृथुचरणोरुपृष्ठजवनास्यकटीजठरः । परवनितार्थपापनि-रतः क्षयवृद्धि तः प्रियकुसुमानुलेपनसुहृत् घटजो ११ ऽध्वसहः । परजनधनभोक्ता दारवासोऽनुरक्तः समरुचिरशरीरस्तुङ्गनासो वृहत्कः । अभिभवति सपत्नान् स्त्रीजि-तश्चारुदृष्टिर्द्युतिनिधिधनभोगी पण्डितश्चान्त्यराशौ १२ ।बलवति राशौ तदधिपतौ च स्ववलयुतः स्वाद्यदि तुहिनांशुः । वथितफलानामविकलदाता शशिवदतोन्येत्वनुपरिचिन्त्याः” ।सूर्य्यादिप्रहस्थितराशिफनम् तत्रैव १८ अ० उक्तं यथा“प्रथितश्चतुरोऽटनोऽल्पवित्तः क्रियगे १ त्वायुधभृद्वितु-ङ्गभागे । गबि २ वस्त्रसुगन्धपण्यजीवी वनिताद्विट् कुश-लश्च गेयवाद्ये । विद्याज्योतिषवित्तवान् मिथुनगे३ भानौकुलीर ४ स्थिते तीक्ष्णोऽस्वः परकार्य्यकृच्छ्रमपरः क्लेशैश्चसंयुज्यते । सिंहस्थे ५ वनशैलगोकुलरतिर्वीर्य्यान्वितोऽज्ञःपुमान्, कन्थास्थे ६ लिनिलेख्यकाव्यगणितज्ञानान्वितः स्त्रीवपुः । जातस्तोलिनि ७ शौ ण्डकोऽध्वनिरतो हैरण्यकोनीचकृत् क्रूरः साहसिको विषार्जितधनः शस्त्रान्तगोऽ-लि८ स्थिते । सत्पूज्यो धनवान् धनुर्द्धरगते९ तीक्ष्णो भिष-क्लारुको नीचोऽज्ञः कुबणिग्गृगे १० ऽल्पधनवाल्लुँब्धोऽन्य-भाग्ये रतः । नीचो घटे११ तनयभाग्यपरिच्युतोऽस्वस्तो-योत्थपण्यविभवो वनितादृतोन्त्ये १२ । सू० । नक्षत्रमानवतनु-प्रतिमे विभागे लक्ष्मादिशेत्तुहिनरश्मिदिनेशयुक्ते । नरपतिसत्कृतोऽटनश्चमूपबणिक्सधनाः क्षततनुश्चोरभूरिविषयांश्चकुजः स्वगृहे १ । ८ । युवतिजितान् सुहृत्सु विषमान् पर-दारातान् कुहकसुबेषभीरुपरुषान् सितभे २ । ७ जनयेत् ।बौधे ३ । ६ ऽसहस्तनयवान् विसुहृत् कृतज्ञो गान्धर्वयुद्धकुशलःकृपणो--ऽभयोऽर्थी । चान्द्रे४ ऽथवान् साललयानसमर्जितःस्वः प्राज्ञश्च भूमितनये विकलः खलश्च । “नस्वःक्लेशसहोवनान्तरचरः सिंहे४ऽल्पदारात्मज जैवे ९ । १२ ऽनैक-रिपुर्नरेन्द्रसचिवः ख्यातोऽमयोलप त्मजः । दुःखार्तोविधनोऽटनोऽनृतरतस्तीक्ष्णश्च कुम्भ ११ स्थिते भौमेभूरिधनात्मजो मृग १० गते भूपोऽथवा तत्समः । म० ।द्यूतर्णपानरतनास्तिकचौरनिःखाः कुस्त्रीककूटकृद-सत्यरताः कुजर्क्षे १ । ८ । आचार्य्यभूरिसुतदारधनार्ज-नेष्टाः शौक्रे २ । ७ वदान्यगुरुभक्तिरताश्च सौम्ये । विक-त्थनः शास्त्रकलाविदग्धः प्रिधंवदः सौख्यरतस्तृतीये ३जलाजितखः स्वजनस्य शत्रुः शशाङ्कजे शीतकरर्क्ष ४ युक्ते ।स्त्रीद्वेष्यो विधनसुखात्मजोऽटनोऽज्ञः स्त्रीलोलः सुपरि-भवोऽर्क५ राशिगेज्ञे । त्यागी ज्ञः प्रचुरगुणः सुखी क्षमा-वान् युक्तिज्ञो विगतभयश्च षष्ठराशौ ६ । परकर्मकृदखःशिल्पबुद्धिरृणवान् विष्टिकरो बुधेऽर्कजर्क्षे १० । ११ । नृप-सत्कृतपण्डिताप्तवाक्यो नवमे ९ । १२ ऽन्त्ये जितसेवकोन्त्यशिल्पः” बु० । सेनानीर्बहुवित्तदारतनयो दातासुभृत्यः क्षमी तेजोदारगुणान्वितः सुरगुरौ ख्यातःपुमान् कौजभे १ । ८ । कल्याङ्गः समुखोऽर्थमित्रतनयस्त्याभीप्रियः शौक्रभे २ । ७ । बौधे ३ । ६ भूरिपरिच्छदात्मजसुहृत्-साचिव्ययुक्तः सुखी । चान्द्रे ४ रत्नसुतस्वदारविभवःप्रज्ञासुखैरन्वितः सिंहे स्याद् बलनायकः सुरगुरौ प्रोक्तञ्चयच्चन्द्रभे । स्वर्क्षे ९ । १२ । माण्डलिको नरेन्द्रसचिवःसेनापतिर्वा धनी कुम्भे ११ कर्कटवत् फलानि मकरे १०नीचोऽल्पवित्तोऽसुखी । वृ० । परयुवतिरतस्तदर्थवादैर्हृत-विभवः कुलपांसनः कुजर्क्षे १ । ८ । सबलमतिधनो नरेन्द्र-पूज्यः स्वजनविभुः प्रथितोऽभयः सिते स्वे २ । ७ । नृप-कृयकरोऽर्थवान् कलाविन्मिथुने ३ षष्ठगते ६ ऽतिनीच-कर्मा । रविजर्क्ष १० । ११ गतेऽमरारिपूज्ये सुभगःस्त्रीविजितो रतः कुनार्याम् । द्विभार्य्योऽर्थी भीरुःप्रबलमदशोकश्च शशिभे ४ हरौ योषाप्तार्थः प्रवरयुवति-र्मन्दतनयः । गुणैः पूज्यः सस्वस्तुरग९ सहितेदानवगुरौ झवे १२ विद्वानाढ्यो नृपजनितपूजोऽति-सुभगः । शु० । मूर्खोऽटनः कपटवान् विसुहृद्यमेऽजे१कीटे ८ तु बन्धबधभाक् चपलोऽघृणश्च । निर्ह्रीसुखार्थ-तनयः स्खलितश्चलेख्ये रक्षापमिर्भवति--मुख्यपतिश्च बौधे ३६ । वर्ज्यस्त्रीष्टोनबहुविभवो भूरिमार्य्यो वृषस्थे २ ख्यातःस्वोच्चे७ गणपुरवसग्रामपूज्योऽर्थवांश्च । ४ कर्किण्यस्त्रो-ऽविकलदशनी मातृहीनीऽसुतोऽज्ञः सिंहे५ ऽनार्य्यो विसु-खतमयो विष्टिकृत् सूर्य्यपुत्रे । स्वन्तःप्रत्ययितो नरेन्द्रभ-वने सत्पुत्रजायाधनो जीवक्षेत्र ९ १२ गतेऽर्कजे पुरबल-ग्रामाग्रनेताऽथ वा । अन्थस्त्रीधनसंवृतः पुरबलग्रामा-ग्रणीर्मन्ददृक्स्वक्षेत्रे १० ११ । मलिनस्थिराथविभवो भोक्ताच जातः पुमान् । श० । शिशिरकरसमानमीक्षणानांसदृशफलं प्रवदन्ति लग्नजातम् । फलमधिकमिदं यदत्रतत्तद्भवनभनाथगुणैर्विचिन्तनीयम्” ।लग्नतदंशयोर्ग्रहदृष्टिफलम् १९ अ० तत्रैवोक्तं यथा“चन्द्रे भूपबुधौ नृपोपमगुणी स्तेनोऽधनश्चा १ जगे निःखःस्तेन नृमान्यभूपधनिनः प्रेष्यः कुजाद्यैर्गवि २ । नृस्थे ३ऽयोव्यवहारिपार्थिवबुधाभीस्तन्तुवायो धनी स्वर्क्षे ४ योद्धृ-कविज्ञभूमिपतयोऽयोजीविर्हृद्रोगिणौ । ज्योतिर्ज्ञास्वनरे-न्द्रनापितनृपक्ष्मेशा बुधाद्यैर्हरौ ५ तद्वद्भूपचमूपनैपुणयुताःषष्ठे६ शुभैस्त्र्याश्रयः । जूके७ भूपसुवर्णकारबणिजः शेषे-क्षिते नैकृती, कीटे ८ युग्मपिता नतश्च रजकोऽव्यङ्गोऽधनोभूपतिः । ज्ञात्युर्वीशजनाश्रयश्च तुरगे ९ पापैः सदम्भःशठश्चाप्युर्वीशनरेन्द्रपण्डितधनी द्रव्योनभूपो मृगे १० ।भूपो भूपसमोऽन्यदारनिरतः शेषैश्च कुम्भस्थिते ११ हास्यज्ञोनृपतिर्बुधश्च ह्यषगे१२ पापश्च पापेक्षिते । होरेशर्क्षदलाश्रितैः शुभुकरोदृष्टः शशी तद्गतस्त्र्यंशे तत्पतिभिः सु-हृद्भवनगैर्वा वीक्षितः शस्यते । यत् प्रोक्तं प्रतिराशिवीक्षण-फलं तद्द्वादशांशे स्मृतं सूर्य्याद्यैरवलोकितेऽपि शशिनिज्ञेयं नवांशेष्वतः । आरक्षिको बधरुचिः कुशलो नि-शुद्धे भूपोऽर्थवान् कलहकृत् क्षितिजांशसंस्थे । मूर्खोऽ-न्यदारनिरतः सुकविः सितांशे सत्काव्यकृत् सुखपरोऽ-न्यकलत्रगश्च । बौधे हि रङ्गचरचौरकवीन्द्रमन्त्री गेयज्ञ-शिल्पनिपुणः शशिनि स्थितेऽंशे । स्वांशेऽलपगात्रधनलुब्ध-तपस्विमुख्यः स्त्रीपौष्टिकृत्यनिरतश्च निरीक्ष्यमाणे ।सक्रोधो नरपतिसंमतो निधीशः सिंहांशे प्रभुरसुतोऽतिहिंस्रकर्मा । जीवांशे प्रथितबलो रणोपदेष्टा हास्यज्ञसचिवविकामवृद्धशीलः । अल्पापत्यो दुःखितः सत्यपिःस्वे मानासक्तः कर्मणि खेऽनुरक्तः । दुष्टस्त्रीष्टः कार्पणश्चा-र्किभागे चन्द्रे मानौ तद्वदिन्द्वादिदृष्टे । वर्गोत्तमखपरगेषुशुभं यदुक्तं तत्पुष्टमध्यलघुताशुभमुत्क्रमेण । वीर्य्या-न्वितोऽंशकपतिर्निरुणद्धि पूर्वं राशीक्षणस्य फलमंश-फलं ददाति” ।जन्मादिद्वादशभावस्थसूर्य्यादिग्रहफलम् तत्रैव२० अ० उक्तं यथा“शूरस्तब्धो विकलनयनो निर्घृणोऽर्के तनुस्थे मेषेसस्वस्तिभिरनयनः हिंह ५ संस्थे निशान्धः । नीचे ७ ऽन्धो-ऽस्वः शशिगृह४ गते बुद्बुदाक्षः पतङ्गे भूरिद्रव्यो नृप-हृतधनोवक्त्ररोगी द्वितीवे २ । मतिविक्रमवान् तृतीय-३ गेऽर्के विसुखपीडितमांनसश्चतुर्थे४ । असुतो धनवर्जि-तस्त्रिकोणे५ बलवाञ्छत्रुजितश्च शत्रु६ याते । स्त्री-भिर्गतः परिभवं मदगे ७ पतङ्गे स्वल्पात्मजोनिधनगे ८विकलेक्षणश्च । धर्मे९ सुखार्थसुखभाक् सुतशौर्यभाक् स्वे १०लाभे ११ प्रभूतधनवान् पतितस्तु रिप्फे १२ । सू० । मूकोन्म-त्तजडान्धहीनबधिरप्रेष्याः शशाङ्कोदये १ स्वर्क्षाजोच्चगतेधनो बहुसुतः सखः कुटुम्बी धने २ । हिंस्रो भ्रातृ ३ गतेसुखे सतनये ५ तत्प्रोक्तभावान्वितो नैकारिर्मृदुकायवह्नि-मदनस्तीक्ष्णोऽलसश्चारिगे ६ । ईर्ष्युस्तीव्रमदी मदे ७ बहु-मतिर्व्याध्यर्दितश्चाष्टमे ८ सौभाग्यात्मजमित्रबन्ध्धनभाक्धर्म ९ स्थिते शीतगौ । निष्पत्तिं समुपैति धर्मधनधीशौर्य्यै-र्युतः कर्मगे १० ख्यातो भावगुणान्विते भव ११ गते क्षुद्रो-ऽङ्गहीनो व्यये १२ । च० । “लग्ने१ कुजे क्षततनुर्धनगे २कदन्नोधर्मे९ ऽर्थवान् खरकरप्रतिमोऽन्यसंस्थः । म० । विद्वान्धनी प्रखलपण्डितमन्त्रशत्रुर्धर्म्मज्ञविश्रुतगुणः परतो-ऽर्कवज्ज्ञे । बु० । विद्वान् सुवाक्यः कृपणः सुखी चधीमानशत्रुः पितृतोऽधिकश्च । नीचस्तपस्वी सधनःसलाभः खलश्च जीवे क्रमशो विलग्नात् । वृ० स्मरनिपुणःसुखितश्च विलग्ने प्रियकलहोऽस्त७ गते सुरतेप्सुः ।तनय५ गते सुखितो भृगुपुत्रे गुरुवदतोऽन्यगृहे द्रविणीस्यात् । शु० । अदृष्टार्थो रोगी मदनवशगोऽत्यन्तमलिनःशिशुत्वे पीडार्त्तः सवितृसुतलग्नेऽत्यलसवाक् । गुरु ९ । १२-स्व १० । ११ र्क्षोच्च७ स्थे नृपतिसदृशो ग्रामपुरपः सुविद्वांश्चा-र्वङ्गोदिनकरसमोऽन्यत्र कथितः । श० । सुहृदरिपरकीयस्व-र्क्षतुङ्गस्थितानां फलमनु परिचिन्त्यं लग्नदेहादिभावैः ।ससुपचयविपत्ती सौम्यपापेषु सत्यः कथयति विपरीतंरिप्फषष्ठाष्टमेषु । उच्चत्रिकोणस्वसुहृच्छत्रुनीचगृहा-र्कगैः शुभं संपूर्णपादोनदलपादाल्पनिःफलम्” ।आश्रयफलं तत्रैव २१ अ० उक्तं यथा ।“कुलसमकुलमुख्यबन्धुपूज्या धनिसुखिभोगिनृपाःस्वभैकवृद्ध्या । परविभवसुहृत्स्वबन्धुपोष्या गणपबलेशनृपाश्च मित्रभेषु । जनयति नृपमेकोऽप्युच्चगो मित्रदृष्टःप्रचुरधनसमेतं मित्रयोगाच्च सिद्धम् । विधनविसुखमूढ-व्याधितो बन्धतप्तो बधदुरितसमेतः शत्रुनीचर्क्षगेषु । नकुत्भलग्नं शुभमाह सत्यो न भागभेदाद् यवना वदन्ति ।कस्यांशभेदो न तथास्ति राशेरतिप्रसङ्गस्त्विति विष्णुगुप्तः ।यातेष्वसत्स्वसमभेषु दिनेशहोरां ख्यातो महोद्यम-वलार्थयुतोऽतितेजाः । चान्द्रीं शुभेषु युजि मार्दवक्रान्ति-सौख्यसौभाग्यधीमधुरवाक्ययुतः प्रजातः । तास्वेव हो-रास्वपरर्क्षगेषु ज्ञेया नराः पूर्वगुणेषु मध्याः । व्यत्यस्तहोराभवनस्थितेषु मर्त्या भवन्त्युक्तगुणैर्विहीनाः । कल्याण-रूपगुणमात्मसुहृद्दृकाणे चन्द्रोऽन्थगस्तदधिनाथगुणं क-रोति । व्यालोद्यतायुधचतुश्चरणाण्डजेषु तीक्ष्णोऽति-हिंस्नगुरुतल्परतीऽटनश्च । स्तेनो भोक्ता पण्डिताढ्योनरेन्द्रः क्लीवः शूरो विष्टिकृद्दासवृत्तिः । पापो हिंस्नोऽ-भीश्च वर्गोत्तमांशेष्वेषामीशाराशिवद्द्वादशांशैः । जायान्वितोबलविभूषणसत्वयुक्तस्तेजोऽतिसाहसयुतश्च कुजे स्वभागे ।रोगी मृतस्वयुवतिर्विषमोऽन्यदारो दुःखी परिच्छदयुतोमलिनोऽर्कपुत्रे । स्वांशे गुरौ धनयशःसुखबुद्धियुक्तास्तेजस्विपूज्यनिरुगुद्यमभोगवन्तः । मेधाकलाकपटकाव्यविवाद-शिल्पशास्त्रार्थसाहसयुताः शशिजेऽतिमान्याः । स्वे त्रिं-शांशे बहुसुतसुखारोग्यभाग्यार्थरूपः, शुक्रे तीक्ष्णः सुल-लितवपुः सुप्रकीर्णेन्द्रियश्च । शूरस्तब्धौ विषमबधकौ सद्गु-णाद्यौ सुखिज्ञौ चार्वङ्गेष्टौ रविशशियुतेष्वारपूर्वांशकेषु”प्रकीर्णकफलं तत्रैव २३ अ० उक्तं यथा“स्वर्क्षतुङ्गमूलत्रिकीणगाः कण्टकेषु यावन्त आ-श्रिताः । सर्व एव तेऽन्योन्यकारकाः कर्मगस्तु तेषां विशे-षतः । कर्कटोदयगते यथोडुपे स्वोच्चगाः कुजयमार्कसू-रयः । कारका निगदिताः परस्परं लग्नगस्य सकलोऽम्ब-राम्बुगः । स्वत्रिकोणोच्चगो हेतुरन्योन्यं यदि कर्मगः ।सुहृत्तद्गुणसम्पन्नः कारकश्चापि स स्मृतः । शुभं वर्गो-त्तमे जन्म वेशिस्थाने च सद्ग्रहे । अशून्येषु च केन्द्रेषुकारकाख्यग्रहेषु च । मध्ये वयसः सुखप्रदाः केन्द्रस्थागुरुजन्मलग्नपाः । पृष्ठोभयकोदयर्क्षगास्त्वन्तेऽन्तःप्रथमेषुपाकदाः । दिनकररुधिरौ प्रवेशकाले गुरुभृपुजौ भव-नस्य मध्ययातौ । रविसुतशशिनौ विनिर्गमस्थौ शशितनयःफलदस्तु सर्वकालम्” ।स्त्रीजन्मनि विशेषस्तत्रैवोक्तः २४ अ० यथा“यद्यत्फलं नरभवेऽक्षममङ्गनानान्तत्तद्वदेत् पतिषु वासकलं विधेयम् । तासां तु भर्तृमरणं निधने वपुस्तुलग्नेन्दुगे सुभगताऽस्तमये पतिश्च । युग्मेषु लग्नशशिनोःप्रकृतिस्थिता स्त्री सच्छीलभूषणयुता शुभदृष्टयोश्च । ओज-स्थयोश्च पुरुषाकृतशीलयुक्ता पापा च पापयुतवीक्षि-तयोर्गुणोना । कन्यैव दुष्टा व्रजतीह दास्यं साध्वी समाया कुचरित्रयुक्ता । भूम्यात्मज१ । ८ र्क्षे क्रमशोऽंशकेषुवक्रार्किजीवेन्दुजभार्गवाणाम् । दुष्टा पुनर्भूः सगुणाकलाज्ञा ख्याता गुणैश्चासुरपूजितर्क्षे । स्यात् कापटीक्लीवसमा सती च बौधे ३ । ६ गुणाद्या प्रविकीर्णकामा ।स्वच्छन्दा पतिघातिनी बहुगुणा शिल्पिन्यसाध्वीन्दुभे ४-ऽनाचारा कुलटार्कभे५ नृपबधूः पञ्चेष्टिताऽगम्यगा ।जैवे (९ । १२) नैकगुणाल्परत्यतिगुणा विज्ञानयुक्ता सती ।दासी नीचरतार्किभे (१० । ११) पतिरता दुष्टप्रजा स्वांशकैः ।शशिलग्नसमायुक्तैः फलं त्रिंशाशकैरिदम् । वलाबल-विकल्पेन तयोरुक्तं विचिन्तयेत् । दृक्संस्थाबसित-सितौ परस्परांशे शौक्रे वा यदि घटराशिसम्भवोऽंशः ।स्त्रीभिः स्त्री मदनविषानलं प्रदीप्तं संशान्तिं नयतिनराकृतिस्थिताभिः । शून्ये कापुरुषोऽबलेऽस्तभवनेसौम्यग्रहावीक्षिते क्लीवोऽस्ते बुधमन्दयोश्चरगृहे नित्यंप्रवासान्वितः । उत्सृष्टा रविणा कुजेन विधवा वाल्येऽ-स्तराशिस्थिते कन्यैवाशुभवीक्षितेऽर्कतनये द्यूने जरांगच्छति । आग्नेयैर्विधवाऽस्तराशिसहितैर्मिश्रैः पुनर्भू-र्भवेत् क्रूरे हीनबलेऽस्तगे स्वपतिना सौम्ये स्थितेप्रोज्झिता । अन्योन्यांशगयोः सितावनिजयोरन्यप्रसक्ता-ङ्गना द्यूने वा यदि शीतरश्मिसहितौ भर्त्तुस्तदानुज्ञया ।सौरारर्क्षे लग्नगे सेन्दुशुक्रे मात्रा सार्द्धं वन्धकी पाप-दृष्टे । र्कौजेऽस्तांशे सौरिणा व्याधियोनिश्चारुश्रोणीवल्लभा सद्ग्रहांशे । वृद्धो मूर्खः सूर्यजर्क्षेऽंशके वास्त्रीलोलः म्यात् क्रोधनश्चावनेये । शौक्रे कान्तोऽतीवसौभाग्ययुक्तो विद्वान् भर्त्ता नैपुणज्ञश्च बौधे । मदनवश-गतो मृदुश्च चान्द्रे त्रिदशगुरौ गुणवान् जितेन्द्रियश्च ।अतिमृदुरतिकर्मकृच्च सौर्ये भवति गृहेऽस्तमयस्थितेऽंशकेवा । ईर्व्यान्विता सुखपरा शशिशुक्रलग्ने ज्ञेन्द्वोः क-लासु निपुणा सुखिता गुणाढ्या । शुक्रज्ञयोस्तु रुचिरासुभगा कलाज्ञा त्रिष्वप्यनेकवसुसौख्यगुणा शुभेषु ।क्रूरेऽष्टमे विधवता निधनेश्वरेऽंशे यस्य स्थितो वयसितस्य समे प्रदिष्टा । सत्स्वर्थगेषु मरणं स्वयमेव तस्याःकन्यालिगोहरिषु चाल्पसुतत्वमिन्दौ । सौरे मध्यबलेबलेन रहितैः शीतांशुशुक्रेन्दुजैः शेषैर्वीर्यसमन्वितैःपुरुषिणी यद्योजराश्युद्गमः । जीवारास्फुजिदैन्दवेषुवलिषु प्राग्लग्नराशौ समे विख्याबा भुवि नैकशास्त्र-निपुणा स्त्री ब्रह्मवादित्यपि । पापेऽस्ते नवमगतग्रहस्यतुल्यां प्रव्रज्यां युवतिरुपैत्यसंशयेन । उद्बाहे वरणविधौप्रदानकाले चिन्तायामपि सकलं विधेयमेतत्” । जातक-पद्धत्यादौ विस्तरो दृश्यः । ५ सुन्दरे चतुर्जातकम् ।
Capeller
GermanNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
