| YouTube Channel

जाङ्गलः (jAGgalaH)

 
Apte Hindi
Hindi
जाङ्गलः
पुं*
- -
"चकोर, तीतर"
Wordnet
Sanskrit
Synonyms:
लाङ्गलः, जाङ्गलः
noun
जनसमूहविशेषः
"लाङ्गलस्य उल्लेखः विष्णुपुराणे वर्तते"
Synonyms:
जाङ्गलः
noun
एका जातिः
"जाङ्गलस्य उल्लेखः महाभारते वर्तते"
Synonyms:
जाङ्गलः
noun
एकः पुरुषः
"जाङ्गलस्य उल्लेखः शत्रुञ्जयमाहात्मे वर्तते"
वैजयन्तीकोषः
Sanskrit
Word: जाङ्गलः
Root: जाङ्गल
Gender: पुं
Number: all
अर्थः
Meaning(s):
Arid
Shloka(s):
3|1|45|2 अनूपः साम्बुरन्यस्तु जाङ्गलः शून्य उच्चटः॥ (भूमिकाण्डः/देशाध्यायः)
Synonym(s):
3|1|45|2 जाङ्गलः (जाङ्गल) (पुं) Arid
3|1|45|2 जाङ्गला (जाङ्गल) (स्त्री) Arid
3|1|45|2 जाङ्गलम् (जाङ्गल) (नपुं) Arid
Related word(s):
परा_अपरासंबन्धः भूमिः
शब्दकल्पद्रुमः
Sanskrit
जाङ्गलः,
पुं,
(जङ्गले भवः जङ्गल + अण् ।)कपिञ्जलपक्षी इति मेदिनी ले, ९५
निर्व्वारिदेशः इति शब्दरत्नावली
(अस्यलक्षणं यथा, --“स्वल्पोदकतृणो यस्तु प्रवातः प्रचुरातपः ।स ज्ञेयो जाङ्गलो देशः बहुधान्यादिसंयुतः
”)भावप्रकाशमतेऽस्य लक्षणं यथा, --“आकाशशुभ्र उच्चश्च स्वल्पपानीयपादपः ।शमीकरीरविल्वार्कपीलुकर्कन्धुसङ्कुलः
हरिणैणर्क्षपृषतगोकर्णखरसङ्कुलः ।सुस्वादुफलवान् देशो वातलो जाङ्गलः स्मृतः
”(“खरपरुषविशालाः पर्व्वताः कण्टकीर्णाःदिशि दिशि मृगतृष्णा भूरुहाः शीर्णपर्णाः ।अतिखररविरश्मिः पांशुभृत् शुष्कभूमिःसरसरसविहीनः कूपकाम्भःप्रकर्षः
तदनुविरसशस्याद्दारुणो गोमनुष्यःप्रभवति रसमांसं रूक्षभावञ्च सम्यक् ।पुनरपि हिमवाहं शालिशस्यं चेक्षु-र्भवति रुधिरपित्तं कोपमाशु ह्युपैति
”इति हारीते प्रथमस्थाने चतुर्थेऽध्याये
)तस्य गुणाः वातपित्तकारित्वम् उष्णत्वम् ।रूक्षत्वञ्च तद्देशीयजलगुणः अनूपदेशात्विपरीतत्वम् इति राजवल्लभः
रूक्षत्वम् ।लवणत्वम् लघुत्वम् तनुत्वम् पथ्यत्वम् ।वह्निकफबहुविकारकारित्वञ्च इति भाव-प्रकाशः
जङ्गलदेशोद्भवश्च
जाङ्गलः, त्रि, स्थलजपशुविशेषः यथा, --“हरिणैणकुरङ्गर्ष्यपृषतन्यङ्कुशम्बराः ।राजीवोऽपि मुण्डी चेत्याद्या जाङ्गलसंज्ञकाः
हरिणस्ताम्रवर्णः स्यादेणः कृष्णः प्रकीर्त्तितः ।कुरङ्ग ईषत्ताम्रः स्याद्धरिणाकृतिको महान्
ऋष्यो नीलाण्डको लोके रोरु इति कीर्त्तितः ।पृषतश्चन्द्रबिन्दुः स्याद्धरिणात् किञ्चिदल्पकः
न्यङ्कुर्बहुविषाणोऽथ शम्बरो गवयो महान् ।राजीवस्तु मृगो ज्ञेयो राजीभिः परितो वृतः
यो मृगः शृङ्गहीनः स्यात् मुण्डीति निगद्यते
”तस्य मांसस्य गुणाः मधुरत्वम् रूक्षत्वम् ।कषायत्वम् लघुत्वम् वल्यत्वम् बृंहणत्वम् ।वृष्यत्वम् दीपनत्वम् दोषहरत्वम् मूकत्व-प्तिन्मिनत्वगद्गदत्वार्द्दितवाधिर्य्यारुचिच्छर्द्दिप्रमेहसुखजरोगश्लीपदगलगण्डवायुनाशित्वञ्च इतिभावप्रकाशः
शीतत्वम् मनुष्यहितत्वम् इतिराजवल्लभः
*