| YouTube Channel

जहल्लक्षणा (jahallakSaNA)

 
Capeller Eng
English
जहल्लक्षणा
f.
a rhet. figure in which a word loses
its original meaning.
Monier Williams Cologne
English
जहल्-लक्षणा
f.
a partic. figure of speech (the word used losing its original meaning),
Pratāpar.
Vedāntas.
Macdonell
English
जहल्लक्षणा jahal-lakṣaṇā,
f.
mediate designation 🞄giving up the primary meaning (an 🞄example is: ‘on the Ganges, meaning ‘on 🞄the bank of the Ganges’).
Apte Hindi
Hindi
जहल्लक्षणा
स्त्री*
जहत्-लक्षणा -
लक्षणा का एक प्रकार
Shabdartha Kaustubha
Kannada
जहल्लक्षणा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಜಹತ್ಸ್ವಾರ್ಥಲಕ್ಷಣ /ಲಕ್ಷಣ ಲಕ್ಷಣ
L R Vaidya
English
jahat-lakzaRA {% f. %} another name of लक्षणलक्षणा which consists in using a word not in its primary sense but in one which has some connection with the primary sense, e.g. गंगायां घोषः (where गंगा loses its primary sense and means गंगातट). Cf. अजहत्स्वार्था.
वाचस्पत्यम्
Sanskrit
जहल्लक्षणा स्त्री जहत् स्वार्थोयाम् उत्तरपदलोपे कर्म्म० ।जहत्स्वार्थायां लक्षणायाम् यथा आयुर्घृतम् लक्ष-णाभेदोदाहरणादिकं वेदान्तपरिभाषायां दर्शितं यथा“प्रकारान्तरेण लक्षणा त्रिधा जहल्लक्षणा अजह-ल्लक्षणा जहदजहल्लजणा चेति तत्र शक्यार्थमनन्तर्भाव्ययत्रार्थान्तरस्य प्रतीतिस्तत्र जहल्लक्षणा यथा विषं भुंक्ष्वे-त्यत्र स्वार्थं विहाय शत्रुगृहे भोजननिवृत्तिर्लक्ष्यते ।यत्र शक्यार्थमन्तर्भाव्यैव अर्थान्तरप्रतीतिः तत्राजहल्लक्षणा यथा शुक्लः पट इति अत्र हि शुक्लशब्दः स्वार्थंशुक्लगुणमन्तर्भाव्यैव तद्वति द्रव्ये लक्षणया वर्त्तते ।यत्र हि विशिष्टवाचकः शब्दः एकदेशं विहाय एकदेशेवर्त्तते तत्र जहदजहल्लक्षणा यथा सोऽयं देवदत्त इतिअत्र हि पदद्वयवाच्ययोर्विशिष्टयोरैक्यानुपपत्त्या पद-द्वयस्य विशेष्यमात्रपरत्वं यथा वा तत्त्वमसीत्यादौ तत्-पदवाच्यसर्वज्ञत्वादिविशिष्टस्य त्वंपदवाच्येनान्तःकरण-विशिष्टेनैक्यायोगात् ऐक्यसिद्ध्यर्थं स्वरूपे लक्षणेतिसाम्प्रदायिकाः वयन्तु व्रूमः सोऽयं देवदत्तः तत्त्वमसी-त्यादौ विशिष्टवाचकानां पदानामेकदेशपरत्वेऽपि नलक्षणा शक्त्युपस्थितविशिष्टयोरभेदान्वयानुपपत्तावपिविशेष्ययोः शक्त्युपस्थितयोरेवान्वयबोधाविरोधात् यथाघटोऽनित्य इत्यत्र घटपदवाच्यैकदेशघटत्वस्यानित्यत्वायो-ग्यत्वेऽपि योग्यघटव्यक्त्या सहामित्यत्वान्वयः यत्र पदा-र्थैकदेशस्य विशेषणतयैवोपस्थितिस्तत्रैव स्वातन्त्र्येणोप-स्थितये लक्षणाभ्युपगमः यथा नित्यो घट इत्यत्र घट-पदाद्घटत्वस्य शक्त्या स्वातन्त्र्येणानुपस्थित्या तादृशोप-स्थित्यर्थं घटपंदस्य घटत्वे लक्षणा एवमेव बत्त्वमस्यादि-वाक्येऽपि लक्षणा शक्त्या स्वातन्त्र्येणोपस्थितयोस्तत्त्वं-पदार्थयोरभेदान्वये बाधकाभावात् अन्यथा गेहे घटःघटे रूपं घटमानय इत्यादी घटत्वगेहत्वादेरभिमता-न्वयबोधायोग्यतया तत्रापि घटादिपदानां विशेष्यमात्र-परत्वे लक्षणा स्यात् तस्मात्तत्त्वमस्यादिवाक्येषुआचार्य्याणां लक्षणोक्तिरभ्युपगमवादेन बोध्या जह-दजहल्लक्षणोदाहरणन्तु काकेभ्यो दधि रक्ष्यतामित्या-दिकमेव तत्र शक्यकाकत्वपरित्यागेनाशक्यदध्युपघात-कत्वपुरस्कारेण काके काकशब्दप्रवृत्तेः”
Capeller
German
जहल्लक्षणा
f.
mittelbare Bezeichnung (rh.).