| YouTube Channel

जसितव्यम् (jasitavyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“जसु हिंसायाम्”@} 2 उदित्करणाण्णिचो वैकल्पिकत्वम्।
‘मोक्षणे जस्यतीति स्यात् णावत्रार्थे तु जंसयेत्।।
हिंसाताडनयोर्धात्वोः उदितोर्जासयेदिति।’ 3 इति देवः।
आसकः-सिका, जिजासयिषकः-षिका, जासकः-सिका, जिजसिषकः-षिका, जाजसकः-सिका
आसयिता-त्री, जिजासयिषिता-त्री, जसिता-त्री, जिजसिषिता-त्री, जाजसिता-त्री
जासयन्-न्ती, जिजासयिषन्-न्ती, जसन्-न्ती, जिजसिषन्-न्ती
-- 4 जासयिष्यन्-न्ती-ती, जिजासयिषिष्यन्-न्ती-ती जसिष्यन्-न्ती-ती, जिज-सिषिष्यन्-न्ती-ती
-- जासयमानः, जिजासयिषमाणः
-- जाजस्यमानः
जासयिष्यमाणः, जिजासयिषिष्यमाणः, -- जाजसिष्यमाणः
5 उज्जाः-उज्जासौ-उज्जासः
-- -- जासितः, जिजासयिषितः, 6 जस्तं-तः, जिजसिषितः, जाजसितः-तवान्
जासः 7 असुरजासी, जिजासयिषुः, जसः, जिजसिषुः, जाजसः
जासयितव्यम्, जिजासयिषितव्यम्, जसितव्यम्, जिजसिषितव्यम्, जाजसितव्यम्
जासनीयम्, जिजासयिषणीयम्, जसनीयम्, जिजसिषणीयम्, जाजसनीयम्
जास्यम्, जिजासयिष्यम्, जास्यम्, जिजसिष्यम्, जाजस्यम्
ईषज्जासः-दुर्जासः-सुजासः
-- -- जास्यमानः, जिजासयिष्यमाणः, जस्यमानः, जिजसिष्यमाणः जाजस्यमानः
जासः, जिजासयिषः, जासः, जिजसिषः, जाजसः
जासयितुम्, जिजासयिषितुम्, जसितुम्, जिजसिषितुम्, जाजसितुम्
जासना, जिजासयिषा, जस्तिः, जिजसिषा, जाजसा
जासनम्, 8 चौरस्य] उज्जासनम्, जिजासयिषणम्, जसनम्, जिजसिषणम्, जाजसनम्
जासयित्वा, जिजासयिषित्वा, 9 जसित्वा-जस्त्वा, जिजसिषित्वा, जाजसित्वा
प्रजास्य, प्रजिजासयिष्य, प्रजस्य, प्रजिजसिष्य, प्रजाजस्य
10 जासम् २, जासयित्वा २, जिजासयिषम् २, जिजासयिषित्वा २, जासम् २, जासित्वा २, जिजसिषम् २, कोजसिषित्वा २, जाजसम्
जाजसित्वा।
प्रासङ्गिक्यः
01
=>
(५९६)
02
=>
(१०-चुरादिः-१६६९। सक। सेट्। उभ।)
03
=>
(श्लो। १८८-९)
04
=>
[पृष्ठम्०५६३+ २४]
05
=>
[[१। णिजन्तात् क्विपि उपधावृद्धौ क्विब्लोपे णेर्लोपे ‘ससजुषो रुः’ (८-२-६६) इति रुत्वे विसर्गे रूपम्।]]
06
=>
[[२। उदित्त्वेन क्त्वायामिड्विकल्पनात्, निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः।]]
07
=>
[[आ। ‘इत्थं वदत्यसुरजासिनि पिण्डितायस्स्थेमाऽथ रोषितमतिः प्रतिमल्लडेपी।’ धा। का। ३। ३२।]]
08
=>
[[[३। कर्मणः शेषत्वविवक्षायाम् ‘जासिनिप्रहण--’ (२-३-५६) इति षष्ठी भवति। तस्य ‘प्रतिपदविधाना षष्ठी समस्यते’ इति वचनात् समासाभावः फलम्।]]
09
=>
[[४। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। तेन रूपद्वयम्।]]
10
=>
[पृष्ठम्०५६४+ २५]