| YouTube Channel

जल्पयित्वा (jalpayitvA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“जल्प व्यक्तायां वाचि”@} 2 जल्पकः-ल्पिका, जल्पकः-ल्पिका, जिजल्पिषकः-षिका, जाजल्पकः-ल्पिका
जल्पिता-त्री, जल्पयिता-त्री, जिजल्पिषिता-त्री, जाजल्पिता-त्री
जल्पन्- 3 व्यतिजल्पन्-न्ती, जल्पयन्-न्ती, जिजल्पिषन्-न्ती
-- जल्पिष्यन्-व्यतिजल्पिष्यन्-न्ती-ती, जल्पयिष्यन्-न्ती-ती, जिजल्पिषिष्यन्-न्ती-ती
-- 4 -- जल्पयमानः, जल्पयिष्यमाणः, -- जाजल्प्यमानः, जाजल्पिष्यमाणः
5 प्रजल्-प्रजल्पौ-प्रजल्पः
-- -- -- जल्पितम्-तः, जल्पितः, जिजल्पिषितः जाजल्पितः-तवान्
जल्पः, 6 जल्पाकः- 7 जल्पाकी, जल्पः, जिजल्पिषुः, जाजल्पः
जल्पितव्यम्, जल्पयितव्यम्, जिजल्पिषितव्यम्, जाजल्पितव्यम्
जल्पनीयम्, जल्पनीयम्, जिजल्पिषणीयम्, जाजल्पनीयम्
जल्प्यम्, जल्प्यम्, जिजल्पिष्यम्, जाजल्प्यम्
ईषज्जल्पः-दुर्जल्पः-सुजल्पः
-- -- जल्प्यमानः, जल्प्यमानः, जिजल्पिष्यमाणः, जाजल्प्यमानः
8 जल्पः, जल्पः, जिजल्पिषः, जाजल्पः
जल्पितुम्, जल्पयितुम्, जिजल्पिषितुम्, जाजल्पितुम्
9 जल्पा, जल्पना, जिजल्पिषा, जाजल्पा
जल्पनम्, जल्पनम्, जिजल्प्रिषणम्, जाजल्पनम्
जल्पित्वा, जल्पयित्वा, जिजल्पिषित्वा, जाजल्पित्वा
प्रजल्प्य, प्रजल्प्य, प्रजिजल्पिष्य, प्रजाजल्प्य
जल्पम् २, जलिपत्वा २, जल्पम् २, जल्पयित्वा २, जिजल्पिषम् २, जिजल्पिषित्वा २, जाजल्पम्
जाजल्पित्वा २।
प्रासङ्गिक्यः
01
=>
(५९२)
02
=>
(१-भ्वादिः-३९८। सक। सेट्। पर।)
03
=>
[[१। ‘प्रतिषेधे हसादीनामुपसंख्यानम्’ (वा। १-३-१५) इति कर्मव्यतीहारेऽपि आत्मनेपदं न। तेन शतैव।]]
04
=>
[पृष्ठम्०५६१+ २६]
05
=>
[[१। ‘संयोगान्तस्य--’ (८-२-२३) इति पकारस्य लोपः।]]
06
=>
[[२। ‘जल्पभिक्षकुट्टलुण्ठवृङः षाकन्’ (३-२-१५५) इति तच्छीलादिषु कर्तषु षाकन् प्रत्ययः। षाकनः षित्त्वात् स्त्रियां ‘षिद्गौरादिभ्यश्च’ (४-१-४१) इति ङीष्।]]
07
=>
[[आ। ‘प्रचलदखिलक्ष्माभृन्मूलोपलव्यतिघट्टनो- ल्वणमणिशिखाजल्पाकीभिः फणाभिरहीश्वरः।।’ अनर्धराधवे ६। ८१।]]
08
=>
[[B। ‘गोपायतां धर्ममधूपितात्मनां जल्पान् विमुच्याभवदुद्यमो जये।।’ धा। का। १। ५१।]]
09
=>
[[३। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियां भावादावङ्।]]