| YouTube Channel

जलौकाः (jalaukAH)

 
शब्दकल्पद्रुमः
Sanskrit
जलौकाः, [स्]
स्त्री,
(जलमेव ओको वसतिस्थानंयस्याः ।) जलौका इति भरतः
(यदुक्तम् ।“गृह्णाति साधुरपरस्य गुणं दोषंदोषान्वितो गुणिगुणं परिहाय दोषम् ।बालस्तनात् पिबति दुग्धमसृग्विहायत्यक्त्रा पयो रुधिरमेव किं जलौकाः
”जलवासिनि, त्रि यथा, महाभारते १३ ।५० १० ।“जलोकसां सत्त्वानां बभूव प्रियदर्शनः
”विवरणमस्या यथा, --“नृपाढ्य-बाल-स्थविर-भीरु-दुर्ब्बल-नारीसुकु-माराणामनुग्रहार्थं परमसुकुमारोऽयं शोणि-तावसेचनोपायोऽभिहितो जलाकसः तत्रवातपित्तकफ-दुष्ट-शोणितं यथासङ्ख्यं शृङ्ग-जलौकालावुभिरवसेचयेत् स्निग्धशीतरूक्षत्वात्सर्व्वाणि सर्व्वर्व्वा
”“उष्णं समधुरं स्निग्धं गवा शृङ्गं प्रकीर्त्तितम् ।तस्माद्वातोपसृष्टे तु हितं तदवसेचने
शीताधिवासा मधुरा जलौका वारिसम्भवा ।तस्मात् पित्तोपसृष्टे तु हिता सा त्ववसेचने
अलावुकटुकं रूक्षं तीक्ष्णञ्च परिकीर्त्तितम् ।तस्मात् श्लेष्मोपसृष्टे तु हितं तदवसेचने
”“अथ जलायुका वक्ष्यन्ते जलमासामायुरितिजलायुका जलमासामोक इति जलौकसः ।ता द्वादश, तासां सविषाः षट् तावत्य एवनिर्व्विषाः तत्र सविषाः कृष्णा कर्व्वुरा अल-गर्द्दा इन्द्रायुधा सामुद्रिका गोचन्दना चेति ।तास्वञ्जनचूर्णवर्णा पृथुशिराः कृष्णा वर्म्मि-मत्स्यवदायता छिन्नोन्नतकुक्षिः कुर्व्वुरा ।रोमशा महापार्श्वा कृष्णमुख्यलगर्द्दा इन्द्रा-युधवदूर्द्ध्वराजिभिश्चित्रा इन्द्रायुधा ईषदसित-पीतिका विचित्रपुष्पाकृतिचित्रा सामुद्रिका ।गोवृषणवदधोभागे द्बिधाभूताकृतिरणुमुखीगोचन्दनेति ताभिर्द्दष्टे पुरुषे दंशे श्वयथु-रतिमात्रं कण्डूर्मूर्च्छा ज्वरोदाहश्छर्द्दिर्म्मदःसदनमिति लिङ्गानि भवन्ति तत्र महागदःपानालेपननस्यकर्म्मादिषूपयोज्यः इन्द्रायुधा-दष्टमसाध्यमित्येताः सविषाः सचिकित्सिताव्याख्याताः ।अथ निर्व्विषाः कपिला पिङ्गला शङ्कुमुखीमूषिका पुण्डरीकमुखी सावरिका चेति ।तत्र मनःशिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृष्ठेस्निग्धमुद्गवर्णा कपिला किञ्चिद्रक्ता वृत्तकायापिङ्गाशुगा पिङ्गला यकृद्बर्णा शीघ्रपायिनीदीर्घतीक्ष्णमुखी शङ्कुमुखी मूषिकाकृतिवर्णा-ऽनिष्टगन्धा मूषिका मुद्गवर्णा पुण्डरीक-तुल्यवक्त्रा पुण्डरीकमुखी स्निग्धा पद्मपत्रवर्णा-ष्टादशाङ्गुलप्रमाणा सावरिका सा पश्वर्थे ।इत्येता अविषा व्याख्याताः तासां यवन-पाण्ड्यसह्यपौतनादीनि क्षेत्राणि तेषु महा-शरीरा बलवत्यः शीघ्रपायिन्यो महाशनानिर्व्विषाश्च विशेषेण भवन्ति तत्र सविषमत्स्य-कीटदर्दुरमूत्रपुरीषकोषजाताः कलुषेष्वम्भःसुच सविषाः पद्मोत्पलनलिनकुमुदसौगन्धिक-कुवलयपुण्डरीकशैवालकोथजाता विमलेषुअम्भःसु निर्व्विषाः
”“क्षेत्रेषु विचरन्त्येताः सलिलेषु सुगन्धिषु ।न सङ्कीर्णचारिण्यो पङ्केशयाः सुखाः
”“अथैनां नवे महति घटे सरस्तडागोदकपङ्क-मावाप्य निदध्यात् भक्षार्थे चासामुपहरे-च्छैबलं वल्लूरमौदकांश्च कन्दांश्चूर्णीकृत्य शय्यार्थंतृणमौदकानि पत्राणि द्ब्यहात्त्र्यहा-च्चान्यज्जलं भक्ष्यं दद्यात् सप्तरात्रात् सप्त-रात्राच्च घटमन्यं संक्रामयेत्
”“स्थूलमध्याः परिक्लिष्टाः पृथ्य्वो मन्दविचेष्टिताः ।अग्राहिण्योऽल्पपायिन्यः सविषाश्च पूजिताः
अथ जलौकोऽवसेकसाध्यव्याधितमुपवेश्य संवेश्यवा विरुक्ष्य चास्य तमवकाशं मृद्गोमयचूर्णैर्यद्य-रुजः स्यात् गृहीताश्च ताः सर्षपरजनी-कल्कोदकप्रदिग्धगात्रीः सलिलसरकमध्ये मुहूर्त्त-स्थिता विगतक्लमा ज्ञात्वा ताभी रोगं ग्राह-येत् सूक्ष्मशुक्लार्द्रपिचुप्लोतावच्छन्नां कृत्वामुखमपावृणुयादगृह्णन्त्यै क्षीरबिन्दुं शोणित-बिन्दुं वा दद्याच्छस्त्रपदानि वा कुर्व्वीत यद्येव-मपि गृह्णीयात्तदन्यां ग्राहयेत् यदा चनिविशतेऽश्वखुरवदाननं कृत्वोन्नम्य स्कन्धंतदा जानीयाद् गृह्णातीति गृह्णन्तीञ्चार्द्रवस्त्रा-वच्छन्नां धारयेत् सेचयेच्च दंशे तोदकण्डू-प्रादुर्भावैर्ज्जानीयाच्छुद्धमियमादत्त इति शुद्ध-माददानामपनयेत् अथ शोणितगन्धन नमुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत् अथपतितां तण्डुलकण्डनप्रदिग्धगात्रीं तैल-लवणा-भ्यक्तमुखीं वामहस्ताङ्गुष्ठाङ्गुलीभ्यां गृहीत-पुच्छां दक्षिणहस्ताङ्गुष्ठाङ्गुलीभ्यां शनैः शनै-रनुलोमानुमार्ज्जयेदामुखाद्वामयेत्तावद् यावत्सम्यग्वान्तलिङ्गानीति सम्यग्वान्ता सलिल-सरकन्यस्ता भोक्तुकामा सती चरेत् यासीदति चेष्टते सा दुर्व्वान्ता तां पुनः सम्यग्-वामयेत् दुर्व्वान्ताया व्याधिरसाध्य इन्द्रमदोनाम भवति अथ सुवान्तां पूर्व्ववत् सन्नि-दध्यात् शोणितस्य योगायोगानवेक्ष्य जलौकोव्रणान्मधुनावघट्टयेच्छीताभिरद्भिश्च परिषेच-येद्बध्नीत वा व्रणं कषायमधुर-सिग्धशीतैश्चप्रदेहैः प्रदिह्यादिति ।”“क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम् ।जलौकसाञ्च योवेत्ति तत् साध्यान् जयेद्गदान्
”इति सूत्रस्थाने त्रयोदशाध्याये सुश्रुतेनोक्तम्
)