जलोदरं (jalodaraM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritजलोदरं, (जलप्रधानं उदरं यस्मात् ।)जठरामयः । तस्य निदानादि यथा, --“यः स्नेहपीतोऽप्यनुवासितो वावान्तो विरिक्तोऽप्यथवा निरूढः ।पिबेज्जलं शीतलमाशु तस्यस्रोतांसि दुष्यन्ति हि तद्बहानि ॥
स्नेहोपलिप्तेष्वथवापि तेषुदकोदरं पूर्व्ववदभ्युपैति ।स्निग्धं महत्तत् परिवृत्तनाभि-समाततं पूर्णमिवाम्बुना च ॥
यथा दृतिः क्षुभ्यति कम्पते चशब्दायते चापि दकोदरन्तत् ॥
जन्मनैवोदरं सर्व्वं प्रायः कृच्छ्रतमं मतम् ।बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् ॥
”इति माधवकरः ॥
(अस्य सकारणलक्षणचिकित्सितं यथा, हारीते चिकित्सितस्थाने २७ अध्याये ।आत्रेय उवाच ।“विषमाशनोपवेशात् पीततोयादथापि वा ।श्रमाध्वश्वासनिष्क्रान्तादतिव्यायामतोऽपि वा ॥
पीतन्तूदरमेवञ्च तस्माज्जातं जलोदरम् ।उदरं सजलं यस्य सघोषमतिवर्द्धितम् ॥
श्वयथुः पादयोः शोथो जलोदरस्य लक्षणम् ।विरेकं वमनं कुर्य्यात् पाचनानि च कारयेत् ॥
क्षारयोगश्च वटकस्तेन तदुपशाम्यति ।तस्मान्नाभेर्वलीभागे वज्जयित्वाङ्गुलद्बयम् ॥
जलनाडीञ्चानुमन्य कुशपत्रेण वेष्टयेत् ।एरण्डजलनालञ्च तत्र सञ्चारयेद्बुधः ॥
अन्तर्गतं जलं स्राव्यं ततः सन्धारयेद्द्रुतम् ।यदा न धरते तच्च तदा दाहः प्रशस्यते ॥
कणा कल्कं परिस्राव्य घृतं देयं चतुर्गुणम् ।शुण्ठी विषा समं पाच्यं पानमालेपनं हितम् ॥
शस्त्रकर्म्म भिषक् श्रेष्ठो विज्ञातेनैव कारयेत् ।दुष्करं शस्त्रकर्म्मैव न कुर्य्यत् यत्र तत्र तु ॥
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ।तस्मादवश्यकर्त्तव्यमीश्वरं साक्षिकारिणा ॥
” * ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
