| YouTube Channel

जलेचरः (jalecaraH)

 
शब्दकल्पद्रुमः
Sanskrit
जलेचरः,
पुं,
(जले चरतीति चर + “चरेष्टः ।”३ १६ इति टः “तत्पुरुषे कृति बहु-लम् ।” १४ इत्यलुक् ।) जलचर-पक्षी तु हंसमद्गुवकादिः तस्य मांस-गुणाः गुरुत्वम् उष्णत्वम् स्निग्धत्वम् मधु-रत्वम् वायुनाशित्वम् शुक्रकारित्वञ्च इतिराजवल्लभः
(जलचारिणि, त्रि यथा, महा-भारते २१७ ११ ।“स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् ।उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः
”)