| YouTube Channel

जलाधारः (jalAdhAraH)

 
Wordnet
Sanskrit
Synonyms:
ह्रदः, सरस्, जलाशयः, जलाधारः, सरोवरः, सरोवरम्, सरसी, तडागः, कासारः, खातम्, अखातम्
noun
जलस्य आशयः विशिष्य प्राकृतिकः।
"सः ह्रदे स्नानं करोति।"
Synonyms:
कूपः, कूपकः, प्रहिः, अन्धुः, जलकुपी, कूपी, निपानम्, उदपानम्, उदकाधारः, जलाधारः, आपीनः, चूडकः, कोट्टरः
noun
भूमौ खातः अल्पविस्तारो गम्भीरो मण्डलाकृतिः भागः यस्मात् जलं तैलं प्राप्स्यते।
"अस्य कूपस्य जलं शीतलम्।"
Synonyms:
तडागः, सरोवरः, जलाशयः, जलाधारः, सरस्, ह्रदः, खातम्
noun
जलस्य आधारः।
"तडागे नैकानि चित्राणि कमलानि सन्ति।"
Synonyms:
ह्रदः, जलाशयः, जलाधारः, जलाकरः
noun
तत् स्थानं यत्र जलं सम्भृतं वर्तते।
"ह्रदे कमलानि विलसन्ति।"
Synonyms:
जलाधारः
noun
एकः पर्वतः
"जलाधारस्य वर्णनं विष्णुपुराणे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
जलाधारः,
पुं,
(जलस्य आधारः ।) जलाशयः ।इत्यमरः १० २५
(यथा, याज्ञ-वल्क्ये १४४ ।“आकाशमेकं हि यथा घटादिषु पृथग् भवेत् ।तथात्मैकोऽप्यनेकस्तु जलाधारेष्विवांशुमान्
”)