| YouTube Channel

जलवैकृत (jalavaikRta)

 
वाचस्पत्यम्
Sanskrit
जलवैकृत
न०
विकृतस्य भावः अण् त० दूर्निमित्तसूचकेनद्यादीनां जलविकारभेदे तत्फलादिकमुक्तं वृ० स०४६ अ० यथा ।“अपसर्पणं नदीनां नगरादचिरेण शून्यतां कुरुते ।शोषश्चाशोष्याणामन्येषां वा ह्रदादीनाम् स्नेहासृङ्-मांसवहाः सङ्कुलकलुषाः प्रतीपगाश्चापि परचक्र-स्यागमनं सद्यः कथयन्ति षण्मासात् ज्वालाधूम-क्काथा रुदितोत्क्रुष्टानि चैव कूपानाम् गीतप्रजल्पि-तानि जनमरकाय प्रदिष्टानि तोयोत्पत्तिरखातेगन्धरसविपर्य्यये तोयानाम् सलिलाशयविकृतौवा महद्भयं तत्र शान्तिरियम् सलिलविकारे कुर्य्यात्पूजां वरुणस्य वारुणैर्मन्त्रैः तैरेव जपहोमं शम-मेवं पापमुपयाति”