| YouTube Channel

जलमुक् (jalamuk)

 
Apte Hindi
Hindi
जलमुक्
पुं*
जल-मुच् -
बादल
जलमुक्
पुं*
जल-मुच् -
एक प्रकार का कपूर
Wordnet
Sanskrit
Synonyms:
मेघः, अभ्रमम्, वारिवाहः, स्तनयित्नुः, बलाबकः, धाराधरः, जलधरः, तडित्वान्, वारिदः, अम्बुभृत्, घनः, जीमूतः, मुदिरः, जलमुक्, धूमयोनिः, अभ्रम्, पयोधरः, अम्भोधरः, व्योमधूमः, घनाघनः, वायुदारुः, नभश्चरः, कन्धरः, कन्धः, नीरदः, गगनध्वजः, वारिसुक्, वार्मुक्, वनसुक्, अब्दः, पर्जन्यः, नभोगजः, मदयित्नुः, कदः, कन्दः, गवेडुः, गदामरः, खतमालः, वातरथः, श्नेतनीलः, नागः, जलकरङ्कः, पेचकः, भेकः, दर्दुरः, अम्बुदः, तोयदः, अम्बुवाबः, पाथोदः, गदाम्बरः, गाडवः, वारिमसिः, अद्रिः, ग्रावा, गोत्रः, बलः, अश्नः, पुरुभोजाः, वलिशानः, अश्मा, पर्वतः, गिरिः, व्रजः, चरुः, वराहः, शम्बरः, रौहिणः, रैवतः, फलिगः, उपरः, उपलः, चमसः, अर्हिः, दृतिः, ओदनः, वृषन्धिः, वृत्रः, असुरः, कोशः
noun
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
"कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता"
शब्दकल्पद्रुमः
Sanskrit
जलमुक्, [च्]
पुं,
(जलं मुञ्चतीति मुच् +क्विप् ।) मेघः इत्यमरः
(यथा, मेघदूते ७१ ।“शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यत्र जालै-र्धूमोद्गारानुकृतिनिपुणा जर्ज्जरा निष्पतन्ति
”जलमोचके, त्रि यथा, बृहत्संहितायाम् ।१९ ।“तीक्ष्णं तपत्यदितिजः शिशिरेऽपि कालेनात्यम्बुदा जलमुचोऽचलसन्निकाशाः
”)