| YouTube Channel

जलमधुकः (jalamadhukaH)

 
शब्दकल्पद्रुमः
Sanskrit
जलमधुकः,
पुं,
(जलजातो मधुकः ।) मधुक-वृक्षप्रभेदः जलमहुया इति भाषा तत्-पर्य्यायः मङ्गल्यः दीर्घपत्रकः मधुपुष्पः ४क्षौद्रप्रियः पतङ्गः कीरेष्टः गैरिकाख्यः८ अस्य गुणाः मधुरत्वम् व्रणवान्तिनाशि-त्वम् शुक्रबलकारित्वम् शीतत्वम् रसा-यनत्वञ्च इति राजनिर्घण्टः
तत्पर्य्याय-गुणाः अथ महुया वनमहुया ।“मधुको गुडपुष्पः स्यात् मधुवृक्षो मधुस्रवः ।वानप्रस्थो मधुष्ठीलो जलजोऽत्र मधूलकः
मधूकपुष्पं मधुरं शीतलं गुरु बृंहणम् ।बलशुक्रकरं प्रोक्तं वातपित्तविनाशनम्
*
फलं शीतं गुरु स्वादु शुक्रलं वातपित्तनुत् ।अहृद्यं हन्ति तृष्णास्रदाहश्वासक्षतक्षयान्
”इति भावप्रकाशः