| YouTube Channel

जलपतिः (jalapatiH)

 
Apte Hindi
Hindi
जलपतिः
पुं*
जल-पतिः -
समुद्र
जलपतिः
पुं*
जल-पतिः -
वरुण का विशेषण
शब्दकल्पद्रुमः
Sanskrit
जलपतिः,
पुं,
(जलस्य पतिः ।) वरुणः इतिहेमचन्द्रः १०२
(अस्य जलपतित्वकथायथा, काशीखण्डे १२ ८९ -- ९५ ।“ततस्तं तनयः पृष्ट्वा पितरं प्रणिपत्य ।जगाम तूर्णं तपसे श्रीमद्वाराणसीं पुरीम्
तत्र तप्त्वा तपो घोरं लिङ्गं संस्थाप्य शाम्भवम् ।पञ्चवर्षसहस्राणि स्थितः पाषाणनिश्चलः
आविरासीन्महादेवस्तुष्टस्तत्तंपसा ततः ।उवाच कार्द्दमे ! ब्रूहि कं ददामि वरोत्तमम्
कार्द्दमिरुवाच ।यदि नाथ ! प्रसन्नोऽसि भक्तानामनुकम्पक ! ।सर्व्वासामाधिपत्यं मे देह्यपां यादसामपि
इति श्रुत्वा महेशानः सर्व्वचिन्तितदः प्रभुः ।अभ्यषिञ्चत तं तत्र वारुणे परमे पदे
रत्नानामब्धिजातानामब्धीनां सरितामपि ।सरसां पल्वलानाञ्च वाप्यम्बुस्रोतसां पुनः
जलाशयानां सर्व्वेषां प्रतीच्याश्चापि वै दिशः ।अधीश्वरः पाशपाणिर्भव सर्व्वामरप्रियः
”)समुद्रः अप्पतिरित्यमरदर्शनात्