जलधेनुः (jaladhenuH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritजलधेनुः, (जलकल्पिता धेनुः ।) दानार्थ-कृत्रिमधेनुः । यथा, --होतोवाच ।“जलधेनुं प्रवक्ष्यामि पुण्येऽह्नि विधिपूर्व्वकम् ।गोचर्म्ममात्रं भूभागं गोमयेनोपलेपयेत् ॥
तत्र मध्ये च राजेन्द्र ! पूर्णकुम्भन्तु विन्यसेत् ।जलपूर्णसुगन्धाढ्यं कर्पूरागुरुचन्दनैः ॥
वासितां गन्धतोयेन तां धेनुं परिकल्पयेत् ।षत्सं तथापरं कल्प्यं घृतेन परिपूरितम् ॥
वर्द्धनीकं महाराज ! पत्रपुष्पैः समन्वितम् ।दूर्व्वाङ्कुरैरुपस्तीर्य्य स्रग्दामैश्च विभूषितम् ॥
पञ्चरत्नानि निःक्षिप्य तस्मिन् कुम्भे नराधिप ! ।मांसीमुशीरं कुष्ठञ्च तथा शैलेयबालुकम् ॥
आमलासर्षपाश्चैताः सर्व्वधान्यानि पार्थिव ! ।चतुर्दिक्ष्वपि पत्राणि चत्वार्य्येव प्रकल्पयेत् ॥
एवं घृतमयं पात्रं द्बितीयं दधिपूरितम् ।तृतीयं मधुनश्चैव चतुर्थं शर्क्करावृतम् ॥
सुवर्णं मुखचक्षूंषि शृङ्गं कृष्णागुरूणि च ।प्रशस्तपत्रश्रवणां मुक्ताफलमयेक्षणाम् ॥
ताम्रपृष्ठां कांस्यदोहां दर्भरोमसमन्विताम् ।पुच्छं सूत्रमयं कृत्वा कृष्णाभरणघण्टिकाम् ॥
कम्बले पुष्यमालाञ्च गुडास्यां शुक्तिदन्तिकाम् ।जिह्वां शर्करया कृत्वा नवनीतेन च स्तनम् ॥
इक्षुपादान्तु राजेन्द्र ! गन्धपुष्पोपशोभिताम् ।कृष्णाजिनोपरि स्थाप्य वस्त्रैराच्छादितान्तु ताम् ॥
गन्धपुष्पैः समभ्यर्च्च्य विप्राय विनिवेदयेत् ।एवं घेनुं तदा दत्त्वा ब्राह्मणे वेदपारगे ॥
साधुविप्राय राजेन्द्र ! श्रोत्रियायाहिताग्नये ।तपोवृद्धे वयोवृद्धे दातव्या च कुटुम्बिने ॥
यो ददाति नरो राजन् ! यः पश्यति शृणोति च ।प्रतिगृह्णाति यो विप्रः सर्व्वे मुच्यन्ति पातकात् ॥
ब्रह्महा पितृहा गोघ्नः सुरापो गुरुतल्पगः ।विमुक्तः सर्व्वपापैस्तु विष्णुलोकं स गच्छति ॥
योऽश्वमेधेन यजते समाप्तवरदक्षिणः ।जलधेनुञ्च यो दद्यात् सममेतन्नराधिपः ॥
जलाहारस्त्वेकदिनं तिष्ठेच्च जलधेनुदः ।अथवा हविस्त्वेकदिने यः पयोव्रतमास्थितः ॥
ग्राहकोऽपि त्रिरात्रं वै तिष्ठेदेवं न संशयः ।यत्र क्षीरवहा नद्यो मधुपायसकर्द्दमाः ॥
यत्र चाप्सरसां गीतं तत्र यान्ति जलप्रदाः ।दाता च दापकश्चैव प्रतिग्राही च यो द्विजः ॥
ते सर्व्वे पापनिर्म्मुक्ता विष्णुलोकञ्च प्राप्नुयुः ॥
”इति वाराहे जलधेनुमाहात्म्यनामाध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
