जलं (jalaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiपानी (Nr.non. Acc.S)
शब्दकल्पद्रुमः
Sanskritजलं, गोकलनम् । ह्रीवेरम् । इति मेदिनी ।ले, १८ ॥
(यथा, भावप्रकाशे अरोचकाधि-कारे ।“जलं सकृष्णागुरुभृङ्गकेसरम् ।” इति ॥
* ॥
जलति जीवयति लोकात् जलति आच्छादयतिभूम्यादीनिति वा । जल + पचाद्यच् ।) पानी-यम् । पञ्चभूतान्तर्गतभूतविशेषः । अस्य धर्म्माः ।रूपं द्रवत्वं प्रत्यक्षयोगित्वञ्च । इदं गुरुरस-विशिष्टञ्च । अस्य गुणाश्चतुर्द्दश । यथा, --स्पर्शः १ संख्या २ परिमितिः ३ पृथक्त्वम् ४संयोगः ५ विभागः ६ परत्वम् ७ अपरत्वम् ८वेगः ९ द्रवत्वम् १० गुरुत्वम् ११ रूपम् १२रसः १३ स्नेहः १४ । अस्य वर्णः शुक्लः रसोमधुरः स्पर्शः शीतलः । स्नेहः द्रवत्वं स्वाभा-विकगुणः । परमाणुजलं नित्यम् । सावयव-जलं अनित्यम् । अनित्यजलं त्रिविधं यथा ।देहं अयोनिजम् १ इन्द्रियं रसनम् २ विषयःसिन्धुहिमादिः ३ । इति भाषापरिच्छेदः ॥
* ॥
तस्यात्पत्तिर्यथा --“रूपमात्राद्विकुर्व्वाणात्तेजसो दैवचोदितात् ।रसमात्रमभूत्तस्मादम्भो जिह्वारसग्रहः ॥
” * ॥
तस्य लक्षणं यथा, --“क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनादनम् ।तापापनोदो भूयस्त्वभम्भसो वृत्तयस्त्विमाः ॥
”इति श्रीभागवतम् ॥
* ॥
“अपां शैत्यं तथा क्लेदो द्रवत्वं स्नेहसौम्यता ।जिह्वाविस्यन्दनञ्चापि भौमानां श्रपणं तथा ॥
चतुर्थमापो विज्ञेयं जिह्वाध्यात्मं प्रचक्ष्यते ।अधिभूतं रसस्तत्र सोमस्तत्राधिदैवतम् ॥
”इत्याश्वमेधिकपर्व्व ॥
* ॥
तत्पर्य्यायः । आपः २ स्त्रीलिङ्गवहुवचनान्तो-ऽयम् । वाः ३ वारि ४ सलिलम् ५ कमलम् ६पयः ७ कीलालम् ८ अमृतम् ९ जीवनम् १०भुवनम् ११ वनम् १२ कवन्धम् १३ उदकम् १४पाथः १५ पुष्करम् १६ सर्व्वतोमुखम् १७ अम्भः१८ अर्णः १९ तोयम् २० पानीयम् २१ नीरम् २२क्षीरम् २३ अम्बु २४ सम्बरम् २५ मेघपुध्पम् २६घनरसः २७ । इत्यमरः । १ । १० । ३ ॥
आपः २८सान्तक्लीवोऽयम् । सरिलम् २९ सलम् ३० जडम्३१ कम् ३२ अन्धम् ३३ कपन्धम् ३४ उदम् ३५दकम् ३६ नारम् ३७ शम्बरम् ३८ अब्भ्रपुष्पम्३९ धनरसम् ४० घृतम् ३१ । इति भरतः ॥
पीप्पलम् ४२ कुशम् ४३ विषम् ४४ काण्डम् ४५सवरम् ४६ सरम् ४७ कृपीटम् ४८ चन्द्रोरसम् ४९सदनम् ५० कर्व्वुरम् ५१ व्योम ५२ सम्बः ५३सरः ५४ इरा ५५ वाजम् ५६ तामरम् ५७ ।इति जटाधरः ॥
कम्बलम् ५८ स्यन्दनम् ५९ सम्ब-लम् ६० जलपीथम् ६१ क्षरम् ६२ ऋतम् ६३ऊर्ज्जम् ६४ कोमलम् ६५ सोमम् ६६ । इतिशब्दरत्नावली ॥
* ॥
तस्य गुणाः । ईषत् कषाय-त्वम् । मधुरत्वम् । क्लेदित्वम् । शीतलत्वम् ।तृष्णानाशित्वम् । अव्यक्तरसत्वम् । शरीरेन्द्रिय-तर्पणत्वञ्च ॥
* ॥
सुगन्धस्य तस्य गुणाः । अस्पष्ट-रसत्वम् । सुशीतत्वम् । तर्षनाशित्वञ्च ॥
* ॥
स्वच्छस्य तस्य गुणाः । लघुत्वम् । हृद्यत्वम् ।गुणवत्त्वञ्च ॥
* ॥
पर्णशैवालकर्दमयुक्तजल-गुणाः । पिच्छिलत्वम् । कृमिलत्वम् । क्लिन्न-त्वम् । विवर्णत्वम् । विरसत्वम् । सान्द्रत्वम् ।दुर्गन्धित्वम् । अहितकारित्वञ्च ॥
* ॥
दिवासूर्य्यकिरणरात्रिचन्द्ररश्मिजुष्टजलगुणाः । अरू-क्षत्वम् । अनभिष्यन्दित्वम । गगनाम्बुतुल्य-त्वञ्च ॥
* ॥
साधारणजलगुणाः । वृष्यत्वम् ।दीपनत्वम् । मधुरत्वम् । लघुत्वञ्च ॥
* ॥
वर्षा-कालीनजलगुणाः । गुरुत्वम् । अभिष्यन्दित्वम् ।मधुरत्वम् । सारकत्वञ्च ॥
* ॥
शरत्कालीन-जलगुणाः । अनभिष्यन्दित्वम् । लघुत्वञ्च ॥
* ॥
हैमन्तिकजलगुणाः । स्निग्धत्वम् । वल्यत्वम् ।वृष्यत्वम् । हितकारित्वभ् । गुरुत्वञ्च ॥
* ॥
शैशिरजलगुणः । कफवातनाशित्वम् । हैम-न्तिकात् किञ्चिल्लघुत्वञ्च ॥
* ॥
वासन्तिक-जलगुणाः । कषायत्वत् । मधुरत्यम् । वल्य-त्वम् । रूक्षत्वञ्च ॥
* ॥
ग्रैष्मिकजलगुणः ।अनभिष्यन्दित्वम् ॥
* ॥
शीतलजलगुणाः ।मदमूर्च्छाच्छर्द्दिपित्तज्वरश्रमक्लमतृषादाहमदा-त्ययविषनाशित्वम् ॥
* ॥
पवनाहतधारापात-जलगुणाः । विष्टम्भित्वम् । दुर्जरत्वञ्च ॥
* ॥
यत् अन्तर्वाष्पशीतलं तत् शृतशीतं तस्य गुणः ।त्रिदोषनाशित्वम् ॥
* ॥
जलस्य सिद्धकरण-प्रकारः । हेमन्ते शिशिरे पादहीनं वसन्तपादस्थितं ग्रीष्मशरत्कालयोरर्द्धावशेषितं वर्षा-स्वष्टावशेषितम् । दिवासिद्धं जलं रात्रौ गुरुरात्रिसिद्धं दिवागुरु ॥
* ॥
पुष्पसुवासितशुक्ल-वस्त्रपूतनूतनमृत्पात्रस्थजलगुणः । मङ्गलरुचि-कारित्वम् ॥
* ॥
अजीर्णे जलमौषधं जीर्णेवलप्रदं आहारकाले आयुर्जनकं भुक्तान्नोपरिरात्रौ न षेयम् ॥
* ॥
रात्रिशेषे जलपानगुणाः ।कासश्वासातीसारज्वरवमथुकटीकोठकुष्ठमूत्रा-घात-उदरार्शःश्वयथुगलशिरःकर्णनासाचक्षु-रोगवातपित्तकफक्षयजरोगनाशित्वम् ॥
* ॥
मेघशून्यरात्रिशेषे नाशिकारन्ध्रेण जलपान-गुणाः । बुद्धिकारित्वम् । चक्षुर्हितत्वम् । वली-पलितसर्व्वरोगनाशित्वञ्च ॥
* ॥
“जलञ्चतुर्व्विधं प्राहुरन्तरीक्षोद्भवं बुधाः ।धारञ्च कारकचैव तौषारं हैममित्यपि ॥
”इति राजनिर्घण्टः ॥
* ॥
तृषिताय रोगिणेऽपि जलं देयं यथा, --“पानीयं प्राणिनां प्राणास्तदायत्तं हि जीवनम् ।तस्मात् सर्व्वास्ववस्थासु न क्वचिद्बारि वार्य्यते ॥
अन्नेनापि विना जन्तुः प्राणान् धारयते चिरम् ।तोयाभावे पिपासार्त्तः क्षणात् प्राणैर्विमुच्यते ॥
तृषितो मोहमायाति मोहात् प्राणान् विमुञ्चति ।तस्माज्जलमवश्यं हि दातव्यं भेषजैः ममम् ॥
”इति राजवल्लभः ॥
* ॥
“पादेन घटमुत्थाप्य भाजने पूरयेज्जलम् ।तज्जलं मदिरातुल्यं भाण्डस्थं सुरया समम् ॥
”इति कर्म्मलोचनम् ॥
* ॥
तस्य दानमाहात्म्यं यथा, --“अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत ।प्राणदानाद्धि परमं न दानमिह विद्यते ॥
अन्नं नापि प्रभवति पानीयात् कुरुसत्तम ! ।नीरजातेन हि विना न किञ्चित् संप्रवर्त्तते ॥
अन्नौषध्यो महाराज ! वीरुधश्च जलोद्भवाः ।यतः प्राणभृतां प्राणाः सम्भवन्ति विशाम्पते ! ॥
तस्मात् पानीयदानाद्वै न परं विद्यते क्वचित् ।तच्च दद्यान्नरो नित्यं यदीच्छेद्भूतिमात्मनः ॥
धन्यं यशस्यमायुष्यं जलदानमिहोच्यते ।शर्त्रूश्चाप्यधि कौन्तेय ! सदा तिष्ठति तोयदः ॥
सर्व्वकामानवाप्नोति कीर्त्तिञ्चैवेह शाश्वतीम् ।प्रेत्य चानन्त्यमश्नाति पापेभ्यश्च प्रमुच्यते ॥
तोयदो मनुजव्याघ्र ! स्वर्गं गत्वा महाद्युते ! ।अक्षयान् समवाप्नोति लोकानित्यब्रवीन्मनुः ॥
”इति महाभारते दानधर्म्मः ॥
* ॥
“एकहस्ते धृतं तोयमभक्ष्यं सर्व्वसम्मतम् ॥
”इति ब्रह्मवैवर्त्ते जन्मखण्डम् ॥
* ॥
“उद्धृतं वामहस्तेन यत्तोयं पिबति द्बिजः ।सुरापानेन तुल्यं स्यान्मनुराह प्रजापतिः ॥
”इति मनुः ॥
तस्य वेदोक्तपर्य्यायाः । अर्णः १ क्षोदः २ क्षद्मः ३नभः ४ अम्भः ५ कवन्धम् ६ सलिलम् ७ वाः ८वनम् ९ घृतम् १० मधु ११ पुरीषम् १२ पिप्पलम्१३ क्षीरम् १४ विषम् १५ रेतः १६ कशः १७जन्म १८ वृवूकम् १९ वूसम् २० तुग्र्या २१ वर्व्वुरम्२२ सुक्षेम २३ धरुणम् २४ सुरा २५ अर-विन्दानि २६ ध्वस्मन्वतु २७ जामि २८ आयु-धानि २९ क्षपः ३० अहिः ३१ अक्षरम् ३२मोतः ३३ तृप्तिः ३४ रहसः ३५ उदकम् ३६पयः ३७ रसः ३८ भेषजम् ३९ सहः ४० शवः४१ यहः ४२ ओजः ४३ सुखम् ४४ क्षत्त्रम् ४५आवयाः ४६ शुभम् ४७ यादुः ४८ भूतम् ४९भुवनम् ५० भविष्यत् ५१ आपः ५२ महत् ५३व्योमः ५४ यशः ५५ महः ५६ सर्णीकम् ५७स्वतीकम् ५८ सतीनम् ५९ गहनम् ६० गभी-रम् ६१ गम्भनम् ६२ ईम् ६३ अन्नम् ६४ हविः६५ सद्म ६६ सदनम् ६७ ऋतम् ६८ योनिः ६९ऋतस्ययोनिः ७० सत्यम् ७१ नीरम् ७२ रयिः७३ सत् ७४ पूर्णम् ७५ सर्व्वम् ७६ अक्षितम्७७ वर्हिः ७८ नाम ७९ सर्पिः ८० अपः ८१पवित्रम् ८२ अमृतम् ८३ इन्दुः ८४ हेम ८५स्वः ८६ स्वर्गाः ८७ शम्बरम् ८८ अम्बम् ८९वपुः ९० अम्बु ९१ तोयम् ९२ तूयम् ९३ कृपीटम्९४ शुक्रम् ९५ तेजः ९६ स्वधा ९७ वारि ९८जलम् ९९ जलाषम् १०० । इदमित्येकशत-मुदकनामानि । इति वेदनिर्घण्टौ १ अध्यायः ॥
* ॥
अस्य गुणाः ।पानीयं भ्रमनाशनं क्लमहरं मूर्च्छापिपासापहंतन्द्राच्छर्द्दिविनाशनं बलकरं निद्राहरं तर्पणम् ।हृद्यं गुप्तरसं ह्यजीर्णशमकं नित्यं हितं शीतलंलघ्वच्छं रसकारणं निगदितं पीयूषवज्जीवनम् ॥
”अथ तस्य भेदाः ।“पानीयं मुनिभिः प्रोक्तं दिव्यं भौममिति द्बिधा ।दिव्यं चतुर्व्विधं प्रोक्तं धाराजं करकाभवम् ॥
तौषारञ्च तथा हैमं तेषु धारं गुणाधिकम् ॥
”तत्र धारस्य लक्षणं गुणाश्च ।“धाराभिः पतितं तोयं गृहीतं स्फीतवाससा ।शिलायां वा सुधायां वा धौतायां पतितञ्च यत् ॥
सौवर्णे राजते ताम्रे स्फाटिके काचनिर्म्मिते ।भाजने मृण्मये चापि स्थापितं धारमुच्यते ॥
धारनीरं त्रिदोषघ्नमनिर्द्देश्यरसं लधु ।सौम्यं रसायनं वल्यं तर्पणं ह्लादिजीवनम् ॥
पाचनं मतिकृन्मूर्च्छातन्द्रादाहश्रमक्लमान् ।तृष्णां हरति तत्पथ्यं विशेषात् प्रावृषि स्मृतम् ॥
”अथ धाराजलस्य भेदौ ।“धाराजलञ्च द्बिविधं गाङ्गसामुद्रभेदतः ॥
”तत्रगाङ्गसामुद्रयोर्लक्षणं गणाश्च ।“आकाशगङ्गासम्बन्धि जलमादाय दिग्गजाः ।मेघैरन्तरिता वृष्टीः कुर्व्वन्तीति वचः सताम् ॥
गाङ्गमाश्वयुजे मासि प्रायो वर्षति वारिदः ।सर्व्वथा तज्जलं देवं तथैव चरके वचः ।स्थापितं हैमजे पात्रे राजते मृण्मयेऽपि वा ।शाल्यन्नं येन संसिक्तं भवेदक्लेदिवर्णवत् ॥
तद्गाङ्गं सर्व्वदोषघ्नं ज्ञेयं सामुद्रमन्यथा ।तत्तु सक्षारलवणं शुक्रदृष्टिबलापहम् ।विम्नञ्च दोषलं तीक्ष्णं सव्वकर्म्मसु गर्हितम् ।सामुद्रं त्वाश्विने मासि गुणैर्गाङ्गवदादिशेत् ॥
यतोऽगस्त्यस्य दिव्यर्षेरुदयात् सकलं जलम् ।निर्म्मलं निव्विषं स्वादु शुक्रलं स्याददोषलम् ॥
”अतएवाह ।“फुत्कारविषवातेन नागानां व्योमचारिणाम् ।वर्षासु सविषं तोयं दिव्यमप्याश्विनं विना ॥
”अथानार्त्तवजलगुणाः ।“अनार्त्तवं प्रमुञ्चन्ति वारि वारिधरास्तु यत् ।तत्त्रिदोषाय सर्व्वेषां देहिनां परिकीर्त्तितम् ॥
”अनार्त्तवं पौषादिमासचतुष्टयविषयम् ॥
अथ करकजलस्य लक्षणं गुणाश्च ।“दिव्यवाय्वग्निसंयोगात् संहताः खात् पतन्ति याः ।पाषाणखण्डवच्चापस्ताः कारक्योऽमृतोपमाः ॥
करकाजं जलं रूक्षं विशदं गुरु च स्थिरम् ।दारुणं शीतलं सान्द्रं पित्तहृत्कफवातकृत् ॥
”अथ तौषारजललक्षणं गुणाश्च ।“अपि नद्याः समुद्रान्ते वह्निरापश्च तद्भवाः ।धूमावयवनिर्म्मुक्तास्तुषाराख्यास्तु ताः स्मृताः ॥
”अपि नद्याः समुद्रान्ते वह्निः । नदीमारभ्यसमुद्रपर्य्यन्तं वह्निरास्ते । तद्भवाः वह्निभवाः ।धूमावयवनिर्म्मुक्ताः धूमांशरहिताः आपस्तुषा-राख्याः । तुष इति लोके तुस इति च ।“अपथ्याः प्राणिनां प्रायो भूरुहाणान्तु ता हिताः ।तुषाराम्बु हिमं रूक्षं स्याद्वातलमपित्तलम् ॥
कफोरुस्तम्भकण्ठाग्निमेदोगण्डादिरोगनुत् ॥
”अथ हैमजलस्य लक्षणं गुणाश्च ।“हिमवच्छिखरादिभ्यो द्रवीभूयाभिवर्षति ।यत्तदेव हिमं हैमं जलमाहुर्म्मनीषिणः ॥
हिमाम्बु शीतं पित्तघ्नं गुरु वातविवर्द्धनम् ॥
”हैमं जलं कुहंसजलम् । अन्ये तु ।“और्व्वानलधूमेरित-मम्बु समुद्रस्य यद्घनीमूतम् ।पवनानीतमुदीच्यांतद्धिममिंति कथ्यते मुनिभिः ॥
हिमं कुहंस इति लोके ।हिमन्तु शीतलं रूक्षं दारुण सूक्ष्ममित्यपि ।न तद्दूषयते वातं नच पित्तं न वा कफम् ॥
” * ॥
अथ भौमं जलं तद्भेदाश्च ।“भौममम्भो निगदितं प्रथमं त्रिविधं बुधैः ।जाङ्गलं परमानूपं ततः साधारणं क्रमात् ॥
”तेषां लक्षणानि गुणाश्च ।“अल्पोदकोऽल्पवृक्षश्च पित्तरक्तामयान्वितः ।ज्ञातव्यो जाङ्गलो देशस्तत्रत्यं जाङ्गलं जलम् ॥
बहुवार्ब्बहुवृक्षश्च वातश्लेष्मामयान्वितः ।देशोऽनूप इति ख्यात आनूपं तद्भवं जलम् ॥
मिश्रचिह्नस्तु यो देशः स हि साधारणः स्मृतः ।तस्मिन् देशे यदुदकं तत्तु साधारणं स्मृतम् ॥
जाङ्गलं भलिलं रूक्षं लवणं लघु तत्तनु ।वह्निकृत् कफकृत् पथ्यं विकारान् कुरुते बहून् ॥
आनूपं वार्य्यभिष्यन्दि स्वादु स्निग्धं घनं गुरु ।साधारणन्तु मधुरं दीपनं शीतलं लघु ॥
तर्पणं रोचनं तृष्णादाहदोषत्रयप्रणुत् ॥
”अथ भौगानामेव नादेयादीनां लक्षणानिगुणाश्च । तत्र नादेयस्य लक्षणं गुणाश्च ।“नद्या नदस्य वा नीरं नादेयमिति कीर्त्तितम् ।नादयमुदकं रूक्षं वातलं लघु दीपनम् ॥
अनभिष्यन्दि विशदं कटुकं कफपित्तनुत् ।नद्यः शीघ्रवहा लघ्य्वः सर्व्वा याश्चामलोदका ॥
गुर्व्व्यः शैवालसंछन्ना मन्दगाः कलुषाश्च याः ।नदीसरस्तडागस्थे कूपप्रस्रवणादिजे ॥
उदके देशभेदेन गुणान् दोषांश्च लक्षयेत् ॥
”अथौद्भिदस्य लक्षणं गुणाश्च ।“विदार्य्य भूमिं निम्नां यन्महत्या धारया स्रवेत् ।तत्तोयमौद्भिदं नाम वदन्तीति महर्षयः ॥
औद्भिदं वारे पित्तघ्नमविदाह्यतिशीतलम्प्रीणनं मधुरं बल्यमीषद्बातकरं लघु ॥
”अथ नैर्झरस्य लक्षणं गुणाश्च ।“शैलसानुस्रवद्बारिप्रवाहो निर्झरो झरः ।स तु प्रस्रवणश्चापि तत्रत्यं नैर्झरं जलम् ॥
नैर्झरं रुचिकृन्नीरं कफघ्नं दीपनं लघु ।मधुरं कटुकं पाके वातलं स्यादपित्तलम् ॥
”अथ सारसस्य लक्षणं गुणाश्च ।“नद्याः शैलादिरुद्धाया यत्र संस्रुत्य तिष्ठति ।तत् सरो जलजच्छन्नं तदम्भः सारसं स्मृतम् ॥
सारसं सलिलं बल्यं तृष्णाघ्नं मधुरं लघु ।रोचनं तुवरं रूक्षं बद्धमूत्रमलं सितम् ॥
”अथ तडागस्य लक्षणं गुणाश्च ।“प्रशस्तभूमिभागस्थो बहुसंवत्सरोषितः ।जलाशयस्तडागः स्यात्ताडायं तज्जलं स्मृतम् ॥
ताडागमुदकं स्वादु कषायं कटुपाकि च ।वातलं बद्धविण्मूत्रमसृक्पित्तकफापहम् ॥
”अथ वाप्यस्य लक्षणं गुणाश्च ।“पाषाणैरिष्टकाभिर्व्वा बद्धकूपा बृहत्तरा ।ससोपाना भवेद्वापी तज्जलं वाप्यमुच्यते ॥
वाप्यं वारि यदि क्षारं पित्तकृत् कफवातहृत् ।तदेव मिष्टं कफकृत् वातपित्तहरं भवेत् ॥
”अथ कौपस्य लक्षणं गुणाश्च ।“भूमौ खातोऽल्पविस्तारो गम्भीरो मण्डलाकृतिः ।बद्धोऽबद्धः स कूपः स्यात्तदम्भः कौप्यमुच्यते ॥
कौपं पयो यदि स्वादु त्रिदोषघ्नं हिमं लघु ।तत् क्षारं कफवातघ्नं दीपनं कफकृत् परम् ॥
”अथ चौड्यस्य लक्षणं गुणाश्च ।“शिलाकीर्णं स्वयं श्वभ्रं नीलाञ्जनसमोदकम् ।लतावितानसंछन्नं चौड्यमित्यभिधीयते ॥
अश्मादिभिरबद्धं यत्तत् चौड्यमिति चापरे ।तत्रत्यमुदकं चौड्यं मुनिभिः समुदाहृतम् ॥
चौड्यं वह्निकरं नीरं रूक्षं कफहरं लघु ।मधुरं पित्तनुद्रुच्यं पाचनं विशदं स्मृतम् ॥
”अथ पाल्वलस्य लक्षणं गुणाश्च ।“अल्पं सरः पल्वलं स्यात् यत्र चन्द्रर्क्षगे रवौ ।न तिष्ठति जलं किञ्चित् तत्रत्यं वारि पाल्वलम् ॥
पाल्वलं वार्य्यभिष्यन्दि गुरु स्वादु त्रिदोषकृत् ॥
”अथ विकिरस्य जलस्य लक्षणं गुणाश्च ।“नद्यादिनिकटे भूमिर्य्या भवेद्बालुकामयी ।उद्भाव्यते ततो यत्तु तज्जलं विकिरं विदुः ॥
विकिरं शीतलं स्वच्छं निर्द्दोषं लघु तत् स्मृतम् ।तुवरं स्वादु पित्तघ्नं क्षारं तत् पित्तलं मनाक् ॥
”अथ कैदारस्य लक्षणं गुणाश्च ।“केदारं क्षेत्रमुद्धिष्टं कैदारं तज्जलं स्मृतम् ।कैदारं वार्य्यभिष्यन्दि मधुरं गुरु दोषकृत् ॥
”अथ वृष्टिजलस्य लक्षणं गुणाश्च ।“वार्षिकं तदहर्वृष्टं भूमिष्ठमहितं जलम् ।त्रिरात्रमुषितं तत्तु प्रसन्नममृतोपमम् ॥
”अथ हेमन्तादिकालविशेषे विहितो जल-विशेषः ।“हेमन्ते सारसं तोयं ताडागं वा हितं स्मृतम् ।हेमन्ते विहितं तोयं शिशिरेऽपि प्रशस्यत ॥
वसन्तग्रीष्मयोः कौपं वाप्यं वा नैर्झरं जलम् ।न देयं वारि नादेयं वसन्तग्रीष्मयोर्बुधैः ॥
विषवद्बनवृक्षाणां पत्राद्यैर्दूषितं यतः ।औद्भिदं वान्तरीक्षं वा कौपं वा प्रावृषि स्मृतम् ॥
शस्तं शरदि नादेयं नीरमंशूदकं परम् ।दिवा रविकरैर्ज्जुष्टं निशि शीतकरांशुभिः ॥
ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम् ।अनभिष्यन्दि निर्द्दोषमान्तरीक्षजलोपमम् ॥
बल्यं रसायनं मेध्यं शीतं लघु सुधासमम् ॥
”रविकरैर्ज्जुष्टमित्युक्ते दिवापदं समस्तदिवस-प्राप्त्यर्थं शीतकरांशुभिर्जुष्टमित्युक्ते निशीतिपदंसमस्तरात्रिप्राप्त्यर्थम् । अन्यच्च ।“शरदि स्वच्छमुदयादगस्त्यस्याखिलं हितम् ॥
”वृद्धसुश्रुतस्तु ।“पौषे वारि सरोजातं माघे तत्तु तडागजम् ।फाल्गुने कूपसम्भूतं चैत्रे चौड्यं हितं मतम् ॥
वैशाखे नैर्झरं नीरं ज्यैष्ठे शस्तं तथौद्भिदम् ।आषाढे शस्यते कौपं श्रावणे दिव्यमेव च ॥
भाद्रे कौपं पयः शस्तमाश्विने चौड्यमेव च ।कार्त्तिके मार्गशीर्षे च जलमात्रं प्रशस्यते ॥
”अथ जलस्य ग्रहणकालः ।“भौमानामम्भसां प्रायो ग्रहणं प्रातरिष्यते ।शीतत्वं निर्म्मलत्वञ्च यतस्तेषां महान् गुणः ॥
”अथ जलस्य पाने विधिः ।“अत्यम्बुपानान्न विपच्यतेऽन्न-मनम्बुपानाच्च स एव दोषः ।तस्मान्नरो वह्निविवर्द्धनायमुहुर्म्मुहुर्व्वारि पिबेदभूरि ॥
”अथ शीतलजलपानस्य बिषयाः ।“मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदात्यये ।भ्रमे श्रमे विदग्धेऽन्ने तमके वमथौ तथा ।ऊर्द्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते ॥
”अथ तन्निषेधः ।“पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे ।आध्माने स्तिमिते कोष्ठे सद्यः शुद्धौ नवज्वरे ॥
अरुचिग्रहणीगुल्मश्वासकासेषु विद्रधौ ।हिक्कायां स्नेहपाने च शीताम्बु परिवर्ज्जयेत् ॥
”अथाल्पजलपानस्य विषयाः ।“अरोचके प्रतिश्याये मन्देऽग्नौ श्वयथौ क्षये ।मुखप्रसेके जठरे कुष्ठे नेत्रामये ज्वरे ।व्रणे च मधुमेहे च पिबेत् पानीयमल्पकम् ॥
”अथ जलपानस्यावश्यकता ।“जीवानां जीवनं जीवो जगत् सर्व्वन्तु तन्मयम् ।अतोऽत्यन्ततया सुज्ञो न क्वचित् वारि वार्य्यते ॥
”हारीतश्च ।“तृष्णा गरीयसी घोरा सद्यःप्राणविनाशिनी ।तस्माद्देयं तृषार्त्ताय पानीयं प्राणधारणम् ॥
तृषितो मोहमायाति मोहात् प्राणान् विमु-ञ्चति ।अतः सर्व्वास्ववस्थासु न क्वचित् वारि वारयेत् ॥
”अथ प्रशस्तं जलम् ।“अगन्धमव्यक्तरसं सुशीतं तर्षनाशनम् ।अच्छं लघु च हृद्यञ्च तोयं गुणवदुच्यते ॥
”अथ निन्दितं जलम् ।“पिच्छिलं कृमिलं क्लिन्नं पर्णशैवालकर्द्दमैः ।विवर्णं विरसं सान्द्रं दुर्गन्धं न हितं जलम् ॥
कलुषं छन्नमम्भोजपर्णनीलीतृणादिभिः ।दुर्द्देशजमसंस्पृष्टं सौरचान्द्रमसांशुभिः ॥
अनार्त्तवं वार्षिकमपि प्रथमं तच्च भूमिगम् ।व्यापन्नं परिहर्त्तव्यं सर्व्वदोषप्रकोपणम् ॥
तत् कुर्य्यात् स्नानपानाभ्यां तृष्णाध्मानोदर-ज्वरान् ।कासाग्निमान्द्याभिष्यन्दिकण्डूगण्डादिकांस्तथा ॥
”अथ दुष्टजलस्य निर्द्दोषीकरणोपायः ।“निन्दितं चापि पानीयं क्वथितं सूर्य्यतापितम् ।सुवर्णं रजतं लोहं पाषाणं सिकतां मृदम् ॥
भृशं संताप्य निर्व्वाप्य सप्तधा साधितं तथा ।कर्पूरजातिपुन्नागपाटलादिसुवासितम् ॥
शुचिसान्द्रपटस्रावैः क्षुद्रजन्तुविवर्ज्जितम् ।स्वच्छं कनकमुक्ताद्यैः शुद्धं स्याद्दोषवर्ज्जितम् ॥
पर्णमूलविसग्रन्थिमुक्ताकनकशैबलैः ।गोमेदेन च वस्त्रेण कुर्य्यादम्बुप्रसादनम् ॥
”अथ पीतस्य जलस्य पाकावधिः ।“आमं जलं जीर्य्यति याममात्रंतदर्द्धमात्रं शृतशीतलञ्च ।तदर्द्धमात्रं तु शृतं कदुष्णंपयःप्रपाकेऽवधिरेष उक्तः ॥
”इति भावप्रकाशे वारिवर्गः ॥
अथ जले भगवत्पूजाविधिः ।“उत्तापेऽर्कांशुतो जाते शीतलेन सुगन्धिना ।जलेन पूरिते पात्रे श्रीकृष्णमुपवेशयेत् ॥
नित्यार्च्चाविधिनाभ्यर्च्च्य सायं सन्ध्यामुपास्य च ।देवं सिंहासने नीत्वा गन्धादिभिरथार्च्चयेत् ॥
नीराज्य देवं सर्व्वेभ्यो दत्त्वा तीर्थं भजेत् स्वयम् ।द्वादश्यान्तु विशेषेण रात्रौ तोयस्थमर्च्चयेत् ॥
”तन्माहात्म्यं यथा, गारुडे ।“स्वर्णपात्रेऽथवा रौप्ये ताम्रेवा मृण्मयेऽपि वा ।तोयस्थं योऽर्च्चयेद्भक्त्या शालग्रामसमुद्भवम् ॥
चक्राङ्कितं वा भूपाल ! निवृत्ते मधुमाधवे ।प्रतिमां स महाभागस्तस्य पुण्यमनन्तकम् ॥
यावद्धराधरो लोके यावच्चन्द्रदिवाकरौ ।तावत्तस्य कुले कश्चिन्न भवेद्भूप ! नारकी ॥
तस्माज्ज्यैष्ठे सदा भूप ! तोयस्थं पूजयेद्धरिम् ।वीततापो नरस्तिष्ठेद्यावदाहूतसंप्लवम् ॥
कृतैः सुशीतलैस्तोयैस्तुलसीदलवासितैः ।शुचिशुक्रगते काले येऽर्च्चयिष्यन्ति केशवम् ॥
जलस्थं विविधैः पुष्पैर्म्मुच्यते यमयातनात् ॥
जलस्रष्टा यतो विष्णुर्ज्जलशायी जलप्रियः ।तस्माद्ग्रीष्मे विशेषेण जलस्थं पूजयेद्धरिम् ॥
नीरमध्यस्थितं कृत्वा शालग्रामसमुद्भवम् ।योऽभ्यर्च्चयेन्महाभक्त्या स भवेत् कुलपावनः ॥
कर्किराशिगते सूर्य्ये मिथुनस्थे विशेषतः ।येनार्च्चितो हरिर्भक्त्या जलमध्ये महीपते ! ॥
द्वादश्यान्तु विशेषेण जलस्थं जलशायिनम् ।योऽभ्यर्च्चयेत् कृत तेन यज्ञकोटिशतं भुवि ॥
पात्रे गन्धादिकं कृत्वा यः क्षिपेद्गरुडध्वजम् ।द्बादश्यां पूजयेद्रात्रौ मुक्तिभागी भवेन्नरः ॥
”किञ्च ।“घनागमे प्रकुर्व्वन्ति जलस्थं वै जनार्द्दनम् ।ये नरा नृपतिश्रेष्ठ ! तेषां वै नरकं ध्रुवम् ॥
”“तथैवात्युष्णसमये कालिन्द्यादौ विशेषतः ।सम्पादयेद्भगवतो जलक्रीडामहोत्सवम् ॥
”इति श्रीहरिभक्तिविलासे १५ विलासः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
