| YouTube Channel

जरासन्धः (jarAsandhaH)

 
Apte Hindi
Hindi
जरासन्धः
पुं*
जरा-सन्धः -
"एक प्रसिद्ध राजा और योद्धा, बृहद्रथ का पुत्र "
Wordnet
Sanskrit
Synonyms:
जरासन्धः, बार्हद्रथिः
noun
मगधस्य राजा कंसश्वशुरः यं भीमः हतवान्।
"कृष्णस्य सङ्केतेन भीमः जरासन्धं हतवान्।"
शब्दकल्पद्रुमः
Sanskrit
जरासन्धः,
पुं,
(जरया तदाख्यया प्रसिद्धयाराक्षस्या कृता सन्धा देहसंयोजनमस्य ।)चन्द्रवंशीयराजविशेषः तु बृहद्रथराज-पुत्त्रः कंसश्वशुरः द्बन्द्बयुद्धे भीमस्तं हतवान् ।अस्य नामकरणं यथा, --“अन्यस्यामपि भार्य्यायां शकले द्वे बृहद्रथात् ।ते मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते
जीव जीवेति क्रीडन्त्या जरासन्धोऽभवत् सुतः
”इति श्रीभागवतम्
तत्पर्य्यायः बार्हद्रथिः इति त्रिकाण्डशेषः
(अस्य जन्मविवरणं महाभारते सभापर्व्वणि १७अध्याये तथा मृत्युविवरणं तत्रैव २४ अध्यायेद्रष्टव्यम्
अयं हि विप्रचित्तिनामकस्यासुर-स्यावतारः यथा, महाभारते ६७ ।“विप्रचित्तिरिति ख्यातो आसीद्दानवर्षभः ।जरासन्ध इति ख्यातः आसीत् मनुजर्षभः
”धृतराष्ट्रपुत्त्राणामन्यतमः यथा, महाभारते ।१ ११७ ।“दृढसन्धो जरासन्धः सत्यसन्धः सदःसुवाक्
”)