| YouTube Channel

जरायुजः (jarAyujaH)

 
शब्दकल्पद्रुमः
Sanskrit
जरायुजः, त्रि, (जरायौ जायते इति जन +डः ।) गर्भाशयजातः तु नृगवादिः ।इत्यमरः ५०
“या तु चर्म्माकृतिः सूक्ष्मा जरायुः सा निगद्यते ।श्रुक्रशोणितयोर्योगस्तस्मिन् संजायते यतः ।तत्र गर्भो भवेद्यस्मात्तेन प्रोक्तो जरायुजः
”इति महाभागवते भगवतीगीता