| YouTube Channel

जरायुः (jarAyuH)

 
Wordnet
Sanskrit
Synonyms:
जरायुः, उल्वम्, उल्बम्
noun
सः मांसखण्डः यः जरायुजानां सद्योजातानां बालकानाम् अमरस्य अपरस्मिन् दिशि संयुक्तः वर्तते।
"बालकः मातुः उदरे अमरेण पोषकतत्वानि प्राप्यते।"
Synonyms:
योनिः, गर्भकोशः, गर्भाशयः, गर्भस्थानम्, योनी, धरा, जरायुः, गर्भः, कोषः, मातृकुक्षिः, उल्वम्, कललः, कललम्, चत्वालः
noun
मनुष्यादीनां जरायुजाणां प्राणिनाम् उत्पत्तिस्थानम्। तच्च स्त्रीणाम् उदरस्थं शङ्खनाभ्याकारं त्र्यावर्तं स्थानम्। यस्य तृतीये आवर्ते गर्भशय्या प्रतिष्ठते।
"जरायुजाः यां यां योनिम् आपद्यन्ते तस्यां तस्यां योनौ तथा तथा रूपाणि भवन्ति।"
शब्दकल्पद्रुमः
Sanskrit
जरायुः,
पुं,
(जरामेतीति जरा + इण् + “किंञ्ज-रयोः श्रिणः ।” उणां इति ञुण् ।)येन वेष्टितो गर्भः कुक्षौ तिष्ठति सः गर्भ-वेष्टनचर्म्म आँओल इति भाषा तत्पर्य्यायः ।गर्भाशयः उल्वम् कललः इत्यमरः ।२ ३७
“या तु चर्म्माकृतिः सूक्ष्मा जरायुः सा निगद्यते
”इति महाभागवते भगवतीगीता
अग्निजारवृक्षः इति राजनिर्घण्टः