| YouTube Channel

जरन् (jaran)

 
Kridanta Forms
Sanskrit
जॄ (जॄ꣡ वयोहानौ - चुरादिः - सेट्)
ल्युट् = जारणम् / जरणम्
अनीयर् = जारणीयः / जरणीयः - जारणीया / जरणीया
ण्वुल् = जारकः - जारिका
तुमुँन् = जारयितुम् / जरितुम् / जरीतुम्
तव्य = जारयितव्यः / जरितव्यः / जरीतव्यः - जारयितव्या / जरितव्या / जरीतव्या
तृच् = जारयिता / जरिता / जरीता - जारयित्री / जरित्री / जरीत्री
क्त्वा = जारयित्वा / जरित्वा / जरीत्वा
ल्यप् = प्रजार्य / प्रजीर्य
क्तवतुँ = जारितवान् / जीर्णवान् - जारितवती / जीर्णवती
क्त = जारितः / जीर्णः - जारिता / जीर्णा
शतृँ = जारयन् / जरन् - जारयन्ती / जरन्ती
शानच् = जारयमाणः / जरमाणः - जारयमाणा / जरमाणा
Wordnet
Sanskrit
Synonyms:
वृद्धः, जीर्णः, स्थविरः, वयोवृद्धः, गतायूः, गतवयस्कः, वयोगतः, जरी, जरणः, जरातुरः, जरण्डः, जरन्, जीर्णवान्, वयस्कः, प्रवयाः, वयोधिकः, अतीतवयाः, उत्तरवयाः, उत्तरवयस्कः, अतिवयस्कः
noun
गतयौवनः।
"अस्मान् वृद्धां सेवितुम् अत्र कोपि नास्ति। "/ वृद्धास्ते विचारणीयचरिताः"
अभिधानचिन्तामणिः
Sanskrit
--source--
तारुण्यं यौवनं वृद्धः प्रवयाः स्थविरो जरन् ३३९
जरी जीर्णो यातयामो जीनोऽथ विस्रसा जरा
-wordlist-
तारुण्य (क्ली), यौवन (क्ली), वृद्ध (पुं), प्रवयस् (पुं), स्थविर (पुं), जरन् (पुं), जरिन् (पुं), जीर्ण (पुं), यातयाम (पुं), जीन (पुं), विस्रसा (स्त्री), जरा (स्त्री)
शब्दकल्पद्रुमः
Sanskrit
जरन्,
पुं,
(जरतीति जॄ + शतृ ।) वृद्धः ।इति राजनिर्घण्टः
(“वान्तमात्रे जरत् पित्तं शूलमाशु व्यपोहति
”इति माधवकृतरुखिनिश्चये शूलाधिकारे
)
कृदन्तरूपमाला
Sanskrit
1 {@“जॄष् वयोहानौ”@} 2 ‘जृणाति, जीर्यति, जरत्येकार्थे जारयत्यपि।’ 3 इति देवः।
धातोरस्य सन्नन्तात्, यङन्ताच्च सर्वाणि रूपाणि जृणातिवत् 4 बोध्यानि।
शुद्धधातौ जायमानानां कार्याणां प्रमाणमपि तत्रैव प्रतिपादितमिति तत एव ज्ञेयम्।
जारकः-रिका, 5 जरकः-रिका
जरीता-जरिता-त्री जरयिता-त्री
6 जीर्यन्-न्ती, जरयन्-न्ती
जरीष्यन्-जरिष्यन्-न्ती-ती, जरयिष्यन्-न्ती-ती
7 -- जरयमाणः, जरीष्यमाणः
जीः-जिरौ-जिरः
-- 8 अनुजीर्णः, जीर्णः-जीर्णम् 9 -जीर्णवान्, जरितः-तवान्
जरः, 10 जरन् 11, जरः
जरीतव्यम्-जरितव्यम्, जरयितव्यम्
जरणीयम्, जरणियम्
12 अजर्यम् 13 14 जार्यम्, जर्यम्
ईषज्जरः-दुर्जरः-सुजरः
-- जीर्यमाणः, जर्यमाणः
जारः, 15 जारः
जरीतुम्-जरितुम्, जरयितुम्
16 जरा, 17 जरणा
जरणम्, जरणम्
जरीत्वा-जरित्वा, जरयित्वा
प्रजीर्य, 18 प्रजरय्य
जारम् जरीत्वा -जरित्वा 19 जरम् -जारम्
जरयित्वा २। 20
प्रासङ्गिक्यः
01
=>
(६२०)
02
=>
(४-दिवादिः-११३०। अक। सेट्। पर।)
03
=>
(श्लो। ३९)
04
=>
(६१८)
05
=>
[[१। ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’ (ग। सू। भ्वादौ) इति मित्त्वम्। तेन, ‘मितां ह्रस्वः’ (६-४-९२) इत्युपधाया ह्रस्वो भवति। एवं सर्वत्र ण्यन्ते बोध्यम्।]]
06
=>
[[२। ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन् विकरणप्रत्ययः। इत्वे रपरत्वे च, ‘हलि च’ (८-२-७७) इति दीर्घः। स्त्रियां ‘शपूश्यनोर्नित्यम्’ (७-१-८१) इति नित्यं नुमागमः।]]
07
=>
[पृष्ठम्०५८६+ २५]
08
=>
[[१। ‘गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च’ (३-४-७२) इत्यनेन ‘अनुजीर्णो वृषलीं देवदत्तः’ इत्यत्र कर्तरि क्तप्रत्ययो भवति।]]
09
=>
[[आ। ‘देहि प्रभोः प्रेष्य सुसोहनाय मे जीर्णांशुकायः त्वमझीर्णमंशुकम्।।’ धा। का। २। ५७।]]
10
=>
[[२। ‘जीर्यतेरतृन्’ (३-२-१०४) इति ताच्छीलिक अतृन् प्रत्ययः।]]
11
=>
[[B। ‘यज्वभिः सुत्वभिः पूर्वैर्जरद्भिश्च कपीश्वर।।’ भ। का। ६। १३४।]]
12
=>
[[३। ‘अजर्यं सङ्गतम्’ (३-१-१०५) इति सूत्रेण नञुपसृष्टादस्माद्धातोः सङ्गतं चोद्विशेष्यं, कर्तरि यत् प्रत्ययो निपात्यते। अन्यत्र ‘ऋहलोः--’ (३-१-१२४) इति ण्यति जार्यम् इत्यपि भवति।]]
13
=>
[[C। ‘तेन सङ्गतमार्येण रामाजर्यं कुरुद्रुतम्।’ भ। का। ६। ५४।]]
14
=>
(सङ्गतम्)
15
=>
[[४। ‘दारजारौ कर्तरि, णिलुक् च, (वा। ३-३-२०) इति ण्यन्तात् कर्तरि घञि णिलुकि, घञ्निमित्तिकोपधावृद्धिः। ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वस्तु नात्र प्रवर्तते
\n\n णेर्लुका लुप्तत्वेन स्थानिवत्त्वाभावात्। ‘जरयति = सुरतैः ग्लपयति इति जारः = उपपतिः।’ इति प्रक्रियासर्वस्वे।]]
16
=>
[[५। षित्त्वेन, ‘षिद्भिदादिभ्योऽङ्’ (३-३-१०४) इत्याङि, ‘ऋदृशोऽङि गुणः’ (७-४-१६) इति गुणः।]]
17
=>
[[ड्। ‘तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना।।’ रघुबंशे--१। २३।]]
18
=>
[[६। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
19
=>
[[७। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ उपधायाः दीर्घविकल्पः।]]
20
=>
[पृष्ठम्०५८७+ २५]