जरत्कारुः (jaratkAruH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiजरत्कारुः
जरत्-कारुः -
"एक ऋषि जिसने वासुकि सर्प की बहन से विवाह किया था [एक दिन वह अपना सिर अपनी पत्नी की गोद में रक्खे सो रहे थे, सूर्य डूबने को था पत्नी ने यह देख कर कि संध्याकालीन प्रार्थना का समय बीता जा रहा है, आहिस्ता से जगा दिया परन्तु नींद में बाधा पहुँचने के कारण जरत्कारु को क्रोध आ गया और वह अपनी पत्नी को छोड़ कर सदा के लिए वहाँ से चल दिया जाते समय वह अपनी पत्नी को बता गया कि तुम गर्भवती हो और तुम्हारा पुत्र ही तुम्हें सम्भालने वाला होगा- साथ ही साथ वह सर्प वंश के क्षय को बचावेगा यह पुत्र ही ‘आस्तीक' था ] "
Wordnet
Sanskrit जरत्कारुः
मुनिविशेषः।
"जरत्कारोः विवाहः वासुकेः भगिन्या सह जातः।"
जरत्कारुः
वासुकेः भगिनी।
"जरत्कारोः विवाहः येन मुनिना सह जातः तस्य नाम अपि जरत्कारुः एव आसीत्।"
जरत्कारुः
वासुकेः भगिनी।
"आस्तीकः जरत्कार्वा सम्बद्धः आसीत्।"
शब्दकल्पद्रुमः
Sanskritजरत्कारुः, मुनिविशेषः । तत्पर्य्यायः । याया-वरः २ । इति त्रिकाण्डशेषः ॥
(एतान्नरुक्ति-र्यथा, महाभारते । १ । ४० । ३ -- ४ ।“जरेति क्षयमाहुर्व्वै दारुणं कारुसंज्ञितम् ।शरीरं कारु तस्यासीत्तत् स धीमाञ्छनैः शनैः ॥
क्षपयामास तीव्रेण तपसेत्यत उच्यते ।जरत्कारुरिति ब्रह्मन् ! वासुकेर्भगिनी तथा ॥
”एतद्बिवरणं यथा, देवी भागवते । २ । १२ । ७-९ ।“जरत्कारुर्मुनिः शान्तो न चकार गृहाश्रमम् ।तेन दृष्ट्वा वने गर्त्ते लम्बमानाः स्वपूर्व्वजाः ॥
ततस्तमाहः कुरु पुत्त्रदारान्यथा च नः स्यात् परमा हि तृप्तिः ।स्वर्गे व्रजामः खलु दुःखमुक्तावयं सदाचारयुते सुते वै ॥
स तानुवापाथ लभे सनामा-मयाचितां चातिवशानुगाञ्च ।यदा गृहारम्भमहं करोमिव्रवीमि तथ्यं मम पूर्व्वजा वै ॥
इत्युक्त्वा तान् जरत्कारुर्गतस्तीर्थान् प्रति द्बिजः ॥
”अथ मात्राभिशप्तो वासुकिः ब्रह्मोपदेशात्स्वभगिनीं जरत्कारुमेनमर्पयामास । तद्यथा, तत्रैव । २ । १२ । ३५ -- ४५ ।“वासुकिस्तु तदाकर्ण्य वचनं ब्रह्मणः शिवम् ।वनं गत्वा सुतां तस्मै ददौ विनयपूर्व्वकम् ॥
सनामां तां मुनिर्ज्ञात्वा जरत्कारुरुवाच तम् ।अप्रियं मे यदा कुर्य्यातदा तां सन्त्यजाम्यहम् ॥
वाग्बन्धं तादृशं कृत्वा मुनिर्जग्राह तां स्वयम् ।दत्त्वा च वासुकिः कामं भवनं स्वं जगाम ह ॥
कृत्वा पर्णकुटीं शुभ्रां जरत्कारुर्महावने ।तया सह सुखं प्राप रममाणः परन्तप ! ॥
एकदा भोजनं कृत्वा सुप्तोऽसौ मुनिसत्तमः ।भगिनी वासुकेस्वत्र संस्थिता वरवर्णिनी ॥
न सम्बोधयितव्योऽहं त्वया कान्ते ! कथञ्चन ।इत्युक्त्वा तु गतो निद्रां मुनिस्तां सुदतीं तदा ॥
रविरस्तगिरिं प्राप्तः सन्ध्याकाल उपस्थिते ।किं करोमि न मे शान्तिस्त्यजेन्मां बोधितः पुनः ॥
धर्म्मलोपभयाद्भीता जरत्कारुरचिन्तयत् ।नोचेत् प्रबोधयाम्येनं सन्ध्याकालो वृथा व्रजेत् ॥
धर्म्मनाशाद्वरं त्यागस्तथापि मरणं ध्रुवम् ।धर्म्महानिर्नराणां हि नरकाय भवेत् पुनः ॥
इति सञ्चिन्त्य सा बाला तं मुनिं प्रत्यबोधयत् ।सन्ध्याकालोऽपि सञ्जात उत्तिष्ठोत्तिष्ठ सुव्रत ! ॥
उत्थितोऽसौ मुनिः कोपात्तामुवाच व्रजाम्यहम् ।त्वन्तु भ्रातृगृहं याहि निद्राविच्छेदकारिणी ॥
वेपमानाब्रवीद्बाक्यमित्युक्त्वा मुनिना तदा ।भ्रात्रा दत्त्वा यदर्थं तत् कथं स्यादमितप्रभ ! ॥
मुनिः प्राह जरत्कारुं तदस्तीति निराकुलः ॥
”अस्य पुत्त्रः आस्तीकनामा मुनिप्रवरः । योऽसौजनमेजयं गत्वा सर्पसत्रात् निवारयामास ।जरत्कारुमुनेर्विशेषविवरणन्तु महाभारतेआदिपर्व्वणि ४४ -- ४८ अध्यायेषु द्रष्टव्यम् ॥
)
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
