| YouTube Channel

जय्यः (jayyaH)

 
शब्दकल्पद्रुमः
Sanskrit
जय्यः, त्रि, जेतुं शक्यः (“शकि लिङ् ।”३ १७२ इति शक्तौ यत् गुणः ।“क्षय्यजय्यौ शक्यार्थे ।” ८१ इति ।यान्तादेशः ।) जयकरणयोग्यः इत्यमरः ।२ ७४
(यथा, शतपथब्राह्मणे १४ ।४ २४ ।“सोऽयं मनुष्यलोकः पुत्त्रेणैव जय्यो नान्येनकर्म्मणा
”)