| YouTube Channel

जयमङ्गलरस (jayamaGgalarasa)

 
Shabdartha Kaustubha
Kannada
जयमङ्गलरस
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸಕಲ ವಿಧ ಜ್ವರಗಳನ್ನು ವಾಸಿಮಾಡುವ ಆಯುರ್ವೇದೋಕ್ತವಾದ ಒಂದು ಔಷಧ
व्युत्पत्तिः - > जयेन रोगजयेन मङ्गलं यस्मात् तादृशो रसः
वाचस्पत्यम्
Sanskrit
जयमङ्गलरस
पु०
जयेन रोगजयेन मङ्गलं यस्मात् तादृशोरसः वैद्यकोक्ते सर्वज्वरनाशके औषधभेदे “हिङ्गूल-सम्भवं सूतं गन्धकं टङ्कणं तथा ताम्रं वङ्गं माक्षिकञ्चसैन्धवं मरिचं तथा समं सर्वं समाहृत्य द्विगुणं स्वर्ण-भस्मकम् तदर्द्धं कान्तलौहञ्च रूप्यभस्मापि तत्समम् ।एतत् सर्वं विचूर्ण्याथ भावयेत् कनकद्रवैः शेफाली-दलजैश्चापि दशमूलरसेन किराततिक्तकक्वाथैस्त्रिवारंभावयेत् सुधीः भावयित्वा तु तत्कार्य्या गुञ्जाद्वयमितावटी अनुपानं प्रयोक्तव्यं जीरकं मधुसंयुतम् जीर्णज्वरं महाघोरं चिरकालसमुद्भवम् ज्वरमष्टविधं हन्तिसाध्यासाध्यमथापि वा पृथगदोषांश्च विविधान् समस्तान्विषमज्वरान् मेदोगतं मांसगतमस्थि मज्जा गतंतथा अन्तगतं महाघोरं वह्निस्थञ्च विशेषतः ।७नानादोषोद्भवञ्चैव ज्वरं शुक्रगतं तथा निखिलंज्वरनामानं हन्ति श्रीशिवशासनात् जयमङ्गलनामायंरसः श्रीशिवनिर्म्मितः बलपुष्टिकरश्चैव सर्वरोगनिव-र्हणः” भैषज्यरत्नाबली अत्र द्विगुणं स्वर्णभस्मकमित्यत्रसर्वेषां समस्तानां यन्मानं ततो द्विगुणं स्वर्णमिति मुख्यःकल्पः प्रत्येकापेक्षया द्विगुणमिति कनिष्ठः कल्पः