| YouTube Channel

जयपत्रं (jayapatraM)

 
शब्दकल्पद्रुमः
Sanskrit
जयपत्रं,
क्ली,
(जयसूचकं पत्रम् ।) अश्वमेधीय-यज्ञधोटककपाले बद्धा लिपिः तद्यथा, --“त्रैलोक्यविजयी रामो रावणान्तकरः प्रभुः ।स दीक्षितो वाजिमेधे तस्यायं प्रोक्षितः पशुः
पालितो लक्ष्मणेनैव सुलक्षणविलक्षितः ।संपूज्य पारेत्याज्यः सर्व्वैरिति संस्कृताम्
”इति वाशिष्ठरामायणम्
*
विवादविषयकजयबोधकलिपिः डिक्रि इतिइङ्गराजी भाषा यथा, व्यवहारतत्त्वे ।“यद्वृत्तं व्यवहारात्तु पूर्व्वपक्षोत्तरादिकम् ।क्रियावधारणोपेतं जयपत्रेऽखिलं लिखेत्
पूर्व्वोत्तरक्रियायुक्तं निर्णयान्तं यदा नृपः ।प्रदद्याच्चयिने लेख्यं नयपत्रं तदुच्यते