जयपत्र (jayapatra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishYates
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiजयपत्रम्
जयः-पत्रम् -
विजय का अभिलेख
Shabdartha Kaustubha
Kannadaजयपत्र
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಜಯವನ್ನು ತಿಳಿಸುವ ಪತ್ರ /ಜಯದ ದಾಖಲೆ ಪತ್ರ /ತೀರ್ಪುಗಾರರು ಜಯದ ತೀರ್ಪನ್ನು ಬರೆದುಕೊಟ್ಟ ಕಾಗದ
व्युत्पत्तिः - > जयसूचकं पत्रम्
जयपत्र
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಅಶ್ವಮೇಧಯಾಗದ ಕುದುರೆಯ ಹಣೆಯ ಮೇಲೆ ಬರೆದು ಕಟ್ಟಿರುವ ಚೀಟಿ
Indian Epigraphical Glossary
Englishशब्दकल्पद्रुमः
Sanskritजयपत्रं, (जयसूचकं पत्रम् ।) अश्वमेधीय-यज्ञधोटककपाले बद्धा लिपिः । तद्यथा, --“त्रैलोक्यविजयी रामो रावणान्तकरः प्रभुः ।स दीक्षितो वाजिमेधे तस्यायं प्रोक्षितः पशुः ॥
पालितो लक्ष्मणेनैव सुलक्षणविलक्षितः ।संपूज्य च पारेत्याज्यः सर्व्वैरिति च संस्कृताम् ॥
”इति वाशिष्ठरामायणम् ॥
* ॥
विवादविषयकजयबोधकलिपिः । डिक्रि इतिइङ्गराजी भाषा । यथा, व्यवहारतत्त्वे ।“यद्वृत्तं व्यवहारात्तु पूर्व्वपक्षोत्तरादिकम् ।क्रियावधारणोपेतं जयपत्रेऽखिलं लिखेत् ॥
पूर्व्वोत्तरक्रियायुक्तं निर्णयान्तं यदा नृपः ।प्रदद्याच्चयिने लेख्यं नयपत्रं तदुच्यते ॥
”
वाचस्पत्यम्
Sanskritजयपत्र जयसूचकं पत्रम् । राज्ञा दत्ते जयसूचकेपत्ररूपे राजकीयलेख्यभेदे । राजलेख्य पत्रं च चतुर्विधंयथाह वशिष्ठः “राज्ञः स्वहस्तसंयुक्तं समुद्राचिह्नितंतथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ।शासनं प्रथमं ज्ञेयं जयपत्रं तथाऽपरम् । आज्ञाप्रख्या-पनापत्रं राजकीयं चतुर्विधम्” । जयपत्रलक्षणभेदादिकंवीरमि० दर्शितं तत्राह व्यासः“व्यवहारान् स्वयं दृष्ट्वा श्रुत्वा वा प्राड्विवाकतः ।जयपत्रन्ततो दद्यात् परिज्ञानाय पार्थिवः । जङ्गमंस्थावरं येन प्रमाणेनात्मसात्कृतम् । भागाभिशाप-सन्दिग्धे यः सम्यग्विजयी भवेत् । तस्मै राज्ञा प्रदा-तव्यं जयपत्रं सुनिश्चितम् । पूर्व्वोत्तरक्रियापादं तत्-प्रमाणपरीक्षणम् । निगदस्मृतिवाक्यञ्च यथासभ्यं वि-निश्चितम् । एतत्सर्वं समासेन जयपत्रेऽभिलेखयेदिति” ।प्रमाणस्य पृथग्ग्रहणात् क्रियापादेन प्रत्याकलितमत्रगृह्यते । परिज्ञानाय प्राङ्ग्यायस्य बोधनाय । भागेऽ-भिशापे वा सन्दिग्धे । विवादपदमत्रोपलक्षणम् ।तेन विवादविषयो यो यत्र विवादे स तत्र लेखनीयः ।जयपत्रं राजमुद्राङ्कितं कार्य्यमित्याह वृद्धवशिष्ठः“यथोपन्यस्तसाध्यार्थं संयुक्तं सोत्तरक्रियम् । सावधा-रणकञ्चैव जयपत्रकमुच्यते । प्राड्विवाकादिहस्ताङ्कंमुद्रितं राजमुद्रया” । अत्र च राज्ञः सभ्यानाञ्च स्वह-स्तोऽप्यपेक्षितः इत्याह कात्यायनः “सिद्धेनार्थेनसंयोज्यो वादी सत्कारपूर्वकम् । लेख्यं स्वहस्तसंयुक्तंतस्मै दद्यात्तु पार्थिवः । सभासदश्च ये तत्र स्मृतिशास्त्र-विदः स्थिताः । यथा लेख्यविधौ तत्र स्वहस्तन्दद्युरेवते” । क्वचित्पश्चात्काराख्योऽपि जयपत्रभेद उक्तस्तेनैव“अनेन विधिना लेख्यं पश्चात्कारं विदुर्बुधाः । निरस्तातु क्रिया यत्र प्रमाणेनैव वादिना । पश्चात्कारो भवेत्तत्रन सर्वासु विधीयते । अन्यवाद्यादिहीनेभ्य इतरेषांप्रदीयते । वृत्तानुवादसंसिद्धन्तच्च स्याज्जयपत्रकमिति ।”
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
