| YouTube Channel

जम्बूः (jambUH)

 
शब्दकल्पद्रुमः
Sanskrit
जम्बूः,
स्त्री,
(जम्यते भक्ष्यते इति जमु अदने+ “अन्दूदृन्फूजम्ब्विति ।” उणां ९५ ।इति कूः ।) नागदमनी इति राजनिर्घण्टः
वृक्षविशेषः जाम इति भाषा तत्पर्य्यायः ।सुरभिपत्रा नीलफला श्यामला महा-स्कन्धा राजार्हा राजफला शुकप्रिया ८मोदमोदिनी तत्फलगुणाः कपायत्वम् ।मधुरत्वम् श्रमपित्तदाहकण्ठार्त्तिशोषकृमि-दोषश्वासातिसारकफकासविनाशित्वम् विष्ट-म्भित्वम् रोचनत्वम् पाचनत्वञ्च इतिराजनिर्घण्टः
गुरुत्वम् स्वादुत्वम् शीत-लत्वम् अग्निसंदूषणत्वम् रूक्षत्वम् वात-कारित्रम् इति राजवल्लभं
सा बृहत्-क्षुद्रमेदेन द्विविधा तत्र बृहत्याः पर्य्यायः ।महाजम्बूः महापत्रा राजजम्बूः बृहत्-फला इति रत्नमाला
फलेन्द्रः नन्दः ६महाफला सुरभिपत्रा एतत्फलगुणाः ।विष्टम्भित्वम् गुरुत्वम् रोचनत्वम् इतिभावप्रकाशः
क्षुद्रायाः पर्य्यायः सूक्ष्म-कृष्णफला दीर्घपत्रा मध्यमा वन-जम्बूपर्य्यायः भूमिजम्बूः काकजम्बूः २नादेयी शीतपल्लवा इति रत्नमाला
सूक्ष्मपत्रा जलजम्बुका तत्फलगुणाः ।ग्राहित्वम् रूक्षत्वम् कफपित्तास्रदाह-नाशित्वञ्च इति भावप्रकाशः
तत्फलस्यपर्य्यायः जम्बु जाम्बवम् इत्यमरः ।। १९
(स्वनामख्याता नदी यथा, मात्स्ये १२० ६७ ।“मेरोः पार्श्वात् प्रभवति ह्रदश्चन्द्रप्रभो महान् ।जम्बूश्चैव नदी पुण्या यस्यां जाम्बूनदं स्मृतम्
”)