| YouTube Channel

जम्बुद्वीपः (jambudvIpaH)

 
शब्दकल्पद्रुमः
Sanskrit
जम्बुद्वीपः,
पुं,
(जम्बुवृक्षयुक्तो द्वीपः ।) पृथिव्याःसप्तद्बीपान्तर्गतद्बीपविशेषः अयं द्बीपः पद्म-कोषमध्यवर्त्तिकोष इव लक्षयोजनविस्तीर्णःपद्मपत्र इव समवर्तुलः लक्षयोजनविस्ततलवण-ससुद्रेण वेष्टितः यस्मिन् प्रत्येकनवसहस्र-योजनायामानि नव वर्षाणि तेषां वर्षाणामष्टौसीमपर्व्वताः सन्ति * एषां वर्षाणां मध्यइलावृतवर्षं मध्यवर्त्ति यस्य मध्यदेशे सुमेरु-पर्व्वतः लक्षयोजनोत्सेधः इलावृतवर्षस्यो-त्तरे नीलपर्व्वतः द्विसहस्रयोजनविस्तीर्णः अयुत-योजनोत्सेधः पूर्व्वपश्चिभयोः क्षारसमुद्रावधिदीर्घः * तदुत्तरे रम्यकवर्षं तदुत्तरे श्वेत-पव्वतः द्बिसहस्रयोजनविस्तीर्णः अयुतयोज-नोत्सेधः पूर्व्वपश्चिमयोः क्षारसमुद्रावधि दीर्घःदैर्घ्ये नीलपर्व्वतात् किञ्चिदधिकदशांशेन न्यूनः * ।तदुत्तरे हिरण्मयवर्षं तदुत्तरे शृङ्गवान् पर्व्वततस्य विस्तारादयः श्वेतपर्व्वतवत् दैर्घ्ये श्वेत-पर्व्वतात् किञ्चिदधिकदशांशेन न्यूनः * ।तदुत्तरे कुरुवर्षं तदुत्तरे लवणसमुद्रः इला-वृतवर्षस्य दक्षिणे निषधपर्व्वतः द्बिसहस्रयोजन-विस्तीर्णः अयुतयोजनोत्सेधः पूर्व्वपश्चिमयोःक्षारससुद्रावधि दीर्घः * तद्दक्षिणे हरिवर्षंतद्दक्षिणे हेमकूटपर्व्वतः अस्य विस्तारादयोनिषधवत् दैर्घ्ये निषधात् किञ्चिदधिकदशांशेनन्यूनः तद्दक्षिणे हिमालयपर्व्वतः अस्य विस्ता-रादयः पूर्व्ववत् दैर्घ्ये हेमकूटपर्व्वतात् किञ्चि-दधिकदशांशेन न्यूनः * तद्दक्षिणे भारत-वर्षं तद्दक्षिणे क्षारसमुद्रः इलावृतस्य पश्चिमेमाल्यवान् पर्व्वतः द्विसहस्रयोजनविस्तीर्णः अयुत-योजनोत्सेधः उत्तरदक्षिणयोर्नीलनिषधपर्व्वता-वधि दीघः * तत्पश्चिमे केतुमालवर्षं तत्-पश्चिमे लवणसमुद्रः इलावृतस्य पूर्व्वे गन्ध-मादनपर्व्वतः अस्य विस्तारादयो माल्यवद्बत् ।तत्पूर्व्वे भद्राश्ववर्षं तत्पूर्व्वे लवणसमुद्रः * ।मेरोः पूर्व्वादिचतुर्द्दिक्षु मन्दरमेरुमन्दरसुपार्श्व-कुमुदनामानः पर्व्वतास्तिष्ठन्ति तेषु चूतजम्बू-कदम्बन्यग्रोधाश्चत्वारो वृक्षाः सन्ति ते सर्व्वेदैर्घ्ये एकादशशतयोजनपरिमिताः विस्तारेशतयोजनपरिमिताः तेषां शाखाविस्तारःएकादशशतयोजनपर्य्यन्तम् तेषु पर्व्वतेषु ह्नदा-श्चत्वारः पयोमध्विक्षुरसमृष्टजलाः एवं नन्दन-चैत्ररथवैभ्राजकसर्व्वतोभद्रसंज्ञकावि चत्वारिदेवोद्यानानि सन्ति * मन्दरोपरिस्थितै-कादशशतयोजनोच्चचूतमस्तकात् पर्व्वतशृङ्गवत्स्थूलानि फलान्यनृतकल्पानि पतन्ति तेषांविशीर्य्यमाणानामतिमधुरसुगन्धिबहुलारुण-रसोदेनारुणोदा नाम नदी मन्दरगिरिशिखरा-न्निपतन्ती पूर्व्वेणेलावृतमुपप्लावथति * एवंजम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रा-याणामिभकायनिभानां रसेन जम्बूर्नाम नदीमेरुमन्दरशिखरादवनितले निपतन्ती दक्षिणे-नेलावृतं वहति तस्या उभयोस्तीरयोर्मृत्तिकाजम्बूरसेनानुविध्यमाना वाय्वर्कसंयोगविपाकेनसदामरलोकाभरणं जाम्बूनदं नाम स्वर्णंभवति * सुपार्श्वपर्व्वतस्थो यो कदम्बवृक्षस्तस्यपञ्चकोटरेभ्यो विनिःसृताः पञ्चव्यामस्थूलाःपञ्च मधुधाराः सुपार्श्वशिखरात् पतन्त्यः पश्चि-मेनेलावृतमनुमोदयन्ति * कुमुदपर्व्वतोपरि-स्थितो यो वटवृक्षस्तस्य स्कन्धेभ्यो निर्गताःपयोदधिधृतमधुगुडान्नाद्यम्बरशय्यासनाभरणा-दियुक्ताः कामदुघा नदाः कुमुदाग्रात् प्रप-तन्त उत्तरेणेलावृतमुपभोजयन्ति * तान्नदान् सेवमानानां प्रजानां वलीपलितक्लमस्वेद-दौर्गन्ध्यजरामयमृत्युशीतोष्णवैवर्ण्योपसर्गादय-स्तापविशेषा कदाचित् भवन्ति यावज्जीवंनिरतिशयसुखमेव कुरङ्गकुररकुसुम्भवैकङ्क-त्रिकूटशिखरशिशिरपतङ्गरुचकनिषेधशिति-वासकपिलशङ्खवैदूर्य्यजारुधिहंसऋषभनागकाल-ञ्जरनीरदादयः पर्व्वता मेरोर्मूलदेशे परित उप-कऌप्ताः मेरोः पूर्व्वदिशि उत्तरस्यामष्टादश-योजनदीर्घौ जठरदेवकूटपर्व्वतौ तिष्ठतः तौद्विसहस्रयोजनविस्तारौ एवं द्बिसहस्रयोज-नोच्चौ मेरोः पश्चिमायान्दिशि पवनपारि-पात्रौ पर्व्वतौ उत्तरस्यां अष्टादशयोजनदीर्घौद्बिसहस्रयोजनविस्तारौ द्बिसहस्रयोजनोच्चौ ।एवं दक्षिणस्यान्दिणि कैलासकरवीरपर्व्वतौपूर्व्वस्यामष्टादशयोजनदीर्घौ द्विसहस्रयोजन-विस्तारौ द्विसहस्रयोजनोच्चौ एवमुत्तरस्यांत्रिशृङ्गमकरपर्व्वतौ पूर्व्वस्यामष्टादशयोजनदीर्घौद्बिसहस्रयाजनविस्तारौ द्विसहस्रयोजनोच्चौ ।एवं वर्षे वर्षे नदाः नद्यश्च बहवः सन्ति
*
तत्रापि भारतमेव वर्षं कर्म्मक्षेत्रं अन्यान्यष्टानिवर्षाणि सर्गिणां पुण्यशेषोपभोगस्थानानि भूस्वर्ग-नामाख्यातानि एषु वर्षेषु पुरुषाणां आयु-रयुतवर्षाणि ते देवकल्पा अयुतहस्तिबल-विशिष्टाः वज्रवद्दृढशरीराः सर्व्वदा मोदयुक्ताःसन्ति येषु देवपतयः सगणाः सस्त्रीकाः नाना-स्थानेषु स्वैरं विहरन्ति नवसु वर्षेषु भगवा-न्नारायणस्तत्तत्पुरुषाणामनुग्रहाय स्वमूर्त्ति-भेदेनाद्यापि सन्निहितो भवति
*
इला-वृते तु वर्षे भगवान् शिव एक एव पुरुषः भवानीप्रधानार्ब्बुदसहस्रैः स्त्रीगणैः परिवृतः नारा-यणस्य सङ्कर्षणसंज्ञां मूर्त्तिं ध्यानेन सन्निधाप्यस्तुवन्नास्ते
*
भद्राश्वे वर्षे तद्बर्षपतिर्भद्र-श्रवा नाम धर्म्मसुतः तत्कुलपतयः पुरुषा भग-वतो हयशीर्षाभिधानां मूर्त्तिं परमसमाधिनासन्निधाप्य स्तुवन्ति
*
हरिवर्षे भगवान्नर-हरिरूपेणास्ते तत्र प्रह्रादो दैत्यदानवकुलतीर्थ-स्वरूपः तद्वर्षपुरुषैः सहानन्यभक्तियोगेनो-पास्ते
*
केतुमाले भगवान् कामदेवस्वरू-पेण लक्ष्म्याः प्रियचिकीर्षया आस्ते तद्भगवतोमायामयं रूपं परमसमाधियोगेन रमा देवीसंवत्सरस्य रात्रिषु प्रजापतेर्दु हितृभिरुपेताअहःसु तद्भर्त्तृभिरुपेता उपास्ते
*
हिर-ण्मये वर्षे भगवान् कूर्म्मतनुं बिभ्राणो निवसतितद्भगवन्मूर्त्तिं पितृगणाधिपतिरर्यमा तद्बर्षपुरुषैःसह उपास्ते
*
उत्तरकुरुवर्षे भगवान्वराहरूपी आस्ते तं भूमिस्तद्वर्षपुरुषैः सहा-स्खलितभक्तियोगेनोपास्ते
*
किम्पुरुषे वर्षेभगवान् दाशरथी रामरूपेणास्ते तं तच्चरण-सन्निकर्षाभिरतः परमभागवतो हनुमान् अवि-रतभक्तिस्तद्वर्षपुरुषैरुपास्ते
*
भारते वर्षेभगवान्नरनारायणाख्य आत्मज्ञानिनामनुग्रहा-यानुकम्पया अव्यक्तगतिस्तपश्चरति तन्मूर्त्तिंनारदः वर्णाश्रमयुक्ताभिर्भारतवर्षीयप्रजाभिःसह भगवदनुभावोपवर्णनं पञ्चरात्रं सावर्णै-रुपदेक्ष्यमाणः परमभक्तिभावेन सेवते * ।भारतेऽप्यस्मिन् वषे सरिच्छैला बहवः सन्ति ।यथा, मलयः भङ्गलप्रस्थः मैनाकः त्रिकूटःऋषभः कूटकः कोल्लः सह्यः देवगिरिः ऋष्य-मूकः श्रीशैलः महेन्द्रः वारिधारः विन्ध्यः शुक्ति-मान् ऋक्षगिरिः पारिपात्रः द्रोणः चित्रकूटःगोवर्द्धनः रैवतकः ककुभः नीलः कोकः गोमुखःइन्द्रकीलः कामगिरिरिति चान्ये शतसह-स्रशः शैलाः * तेषां नितम्बप्रभवा नद्योह्यसंख्याताः यथा, चन्द्रवंशा ताम्रपर्णी अव-टोदा कृतमाला वैहायसी कावेरी वेण्वा पय-स्वती शर्करावर्त्ता तुङ्गभद्रा कृष्णवेण्वा भीमरथीगोदावरी निर्व्विन्ध्या पयोष्णी तापी रेषा सुरसानर्म्मदा चर्म्मण्वती महानदी वेदस्मृतिः ऋषि-कुल्या त्रिसामा गण्डकी वाग्मती कौशिकीमन्दाकिनी यमुना सरस्वती दृशद्बती गोमतीसरयूः ओधवता सुषोमा शतद्रुः चन्द्रभागामरुद्वृधा वितस्ता असिक्नी विश्वा इति महा-नद्यः अन्धः शोणश्च नदौ * अस्मिन्वर्षे लब्धजन्मभिः पुरुषैः शुक्ललाहितकृष्णवर्णेनस्वारन्धेन कर्म्मणा दिव्यमानुषनारकगतयोभवन्ति
*
जम्बुद्बीपस्य अष्टौ उपद्वीपाःसन्ति सगरात्मजैरश्वान्नेषणे इमां महीं परितोनिखनद्भिरुपकल्पिताः तद्यथा, स्वर्णप्रस्थःचन्द्रशक्तः आवर्त्तनः रमणकः मन्दहरिणःपाञ्चजन्यः सिंहलः लङ्का इति इति श्रीभाग-वते १६ अध्याये तथा मार्कण्डेये ५४अध्याये मात्स्ये ११२ अध्याये द्रष्टव्यम्
*
ल्योतिःशास्त्रमते लवणसमुद्रस्योत्तरे जम्बुद्वीपः ।स तु भूम्यर्द्धभागः तस्य दक्षिणे द्बितीयार्द्ध-भागे द्वीपषट्कस्य सप्तसमुद्रस्य निवेशः ।इति सिद्धान्तशिरोमणिः