जम्बुद्वीप (jambudvIpa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishCapeller Eng
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English जम्बुद्वीप jambudvIpa central one of the 7 continents surrounding the mountain meru
जम्बुद्वीप jambudvIpa Classical India
Wilson
EnglishMonier Williams Cologne
EnglishMacdonell
EnglishShabdartha Kaustubha
Kannadaजम्बु(म्बू)द्वीप
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಜಂಬೂವೃಕ್ಷಗಳಿಂದ ಕೂಡುದ ಒಂದು ದ್ವೀಪ /ಭೂಮಿಯಲ್ಲಿರುವ ಸಪ್ತ ದ್ವೀಪಗಳಲ್ಲೊಂದು
व्युत्पत्तिः - > जम्बुवृक्षयुक्तो द्वीपः
L R Vaidya
EnglishBopp
Latinजम्बुद्वीप m. (e जम्बु et द्वीप m. insula, paeninsula) In-
dia (*) N. 26. 37.
(*) Wils.: Jambu Dwîpa, said to be so named from
the preceding plant abounding in it, and implying accor-
ding to the Purana's, the central division of the world
or the known world: according to the Bauddha's it is
confined to India.
Indian Epigraphical Glossary
EnglishSanskrit Tibetan
Tibetandzam bu'i gling
जम्बुद्वीप
शब्दकल्पद्रुमः
Sanskritजम्बुद्वीपः, (जम्बुवृक्षयुक्तो द्वीपः ।) पृथिव्याःसप्तद्बीपान्तर्गतद्बीपविशेषः । अयं द्बीपः पद्म-कोषमध्यवर्त्तिकोष इव लक्षयोजनविस्तीर्णःपद्मपत्र इव समवर्तुलः लक्षयोजनविस्ततलवण-ससुद्रेण वेष्टितः । यस्मिन् प्रत्येकनवसहस्र-योजनायामानि नव वर्षाणि तेषां वर्षाणामष्टौसीमपर्व्वताः सन्ति । * । एषां वर्षाणां मध्यइलावृतवर्षं मध्यवर्त्ति यस्य मध्यदेशे सुमेरु-पर्व्वतः लक्षयोजनोत्सेधः । इलावृतवर्षस्यो-त्तरे नीलपर्व्वतः द्विसहस्रयोजनविस्तीर्णः अयुत-योजनोत्सेधः पूर्व्वपश्चिभयोः क्षारसमुद्रावधिदीर्घः । * । तदुत्तरे रम्यकवर्षं तदुत्तरे श्वेत-पव्वतः द्बिसहस्रयोजनविस्तीर्णः अयुतयोज-नोत्सेधः पूर्व्वपश्चिमयोः क्षारसमुद्रावधि दीर्घःदैर्घ्ये नीलपर्व्वतात् किञ्चिदधिकदशांशेन न्यूनः । * ।तदुत्तरे हिरण्मयवर्षं तदुत्तरे शृङ्गवान् पर्व्वततस्य विस्तारादयः श्वेतपर्व्वतवत् दैर्घ्ये श्वेत-पर्व्वतात् किञ्चिदधिकदशांशेन न्यूनः । * ।तदुत्तरे कुरुवर्षं तदुत्तरे लवणसमुद्रः । इला-वृतवर्षस्य दक्षिणे निषधपर्व्वतः द्बिसहस्रयोजन-विस्तीर्णः अयुतयोजनोत्सेधः पूर्व्वपश्चिमयोःक्षारससुद्रावधि दीर्घः । * । तद्दक्षिणे हरिवर्षंतद्दक्षिणे हेमकूटपर्व्वतः अस्य विस्तारादयोनिषधवत् दैर्घ्ये निषधात् किञ्चिदधिकदशांशेनन्यूनः । तद्दक्षिणे हिमालयपर्व्वतः अस्य विस्ता-रादयः पूर्व्ववत् दैर्घ्ये हेमकूटपर्व्वतात् किञ्चि-दधिकदशांशेन न्यूनः । * । तद्दक्षिणे भारत-वर्षं तद्दक्षिणे क्षारसमुद्रः । इलावृतस्य पश्चिमेमाल्यवान् पर्व्वतः द्विसहस्रयोजनविस्तीर्णः अयुत-योजनोत्सेधः उत्तरदक्षिणयोर्नीलनिषधपर्व्वता-वधि दीघः । * । तत्पश्चिमे केतुमालवर्षं तत्-पश्चिमे लवणसमुद्रः । इलावृतस्य पूर्व्वे गन्ध-मादनपर्व्वतः अस्य विस्तारादयो माल्यवद्बत् ।तत्पूर्व्वे भद्राश्ववर्षं तत्पूर्व्वे लवणसमुद्रः । * ।मेरोः पूर्व्वादिचतुर्द्दिक्षु मन्दरमेरुमन्दरसुपार्श्व-कुमुदनामानः पर्व्वतास्तिष्ठन्ति । तेषु चूतजम्बू-कदम्बन्यग्रोधाश्चत्वारो वृक्षाः सन्ति । ते सर्व्वेदैर्घ्ये एकादशशतयोजनपरिमिताः विस्तारेशतयोजनपरिमिताः । तेषां शाखाविस्तारःएकादशशतयोजनपर्य्यन्तम् । तेषु पर्व्वतेषु ह्नदा-श्चत्वारः पयोमध्विक्षुरसमृष्टजलाः । एवं नन्दन-चैत्ररथवैभ्राजकसर्व्वतोभद्रसंज्ञकावि चत्वारिदेवोद्यानानि च सन्ति । * । मन्दरोपरिस्थितै-कादशशतयोजनोच्चचूतमस्तकात् पर्व्वतशृङ्गवत्स्थूलानि फलान्यनृतकल्पानि पतन्ति । तेषांविशीर्य्यमाणानामतिमधुरसुगन्धिबहुलारुण-रसोदेनारुणोदा नाम नदी मन्दरगिरिशिखरा-न्निपतन्ती पूर्व्वेणेलावृतमुपप्लावथति । * । एवंजम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रा-याणामिभकायनिभानां रसेन जम्बूर्नाम नदीमेरुमन्दरशिखरादवनितले निपतन्ती दक्षिणे-नेलावृतं वहति । तस्या उभयोस्तीरयोर्मृत्तिकाजम्बूरसेनानुविध्यमाना वाय्वर्कसंयोगविपाकेनसदामरलोकाभरणं जाम्बूनदं नाम स्वर्णंभवति । * । सुपार्श्वपर्व्वतस्थो यो कदम्बवृक्षस्तस्यपञ्चकोटरेभ्यो विनिःसृताः पञ्चव्यामस्थूलाःपञ्च मधुधाराः सुपार्श्वशिखरात् पतन्त्यः पश्चि-मेनेलावृतमनुमोदयन्ति । * । कुमुदपर्व्वतोपरि-स्थितो यो वटवृक्षस्तस्य स्कन्धेभ्यो निर्गताःपयोदधिधृतमधुगुडान्नाद्यम्बरशय्यासनाभरणा-दियुक्ताः कामदुघा नदाः कुमुदाग्रात् प्रप-तन्त उत्तरेणेलावृतमुपभोजयन्ति । * । तान्नदान् सेवमानानां प्रजानां वलीपलितक्लमस्वेद-दौर्गन्ध्यजरामयमृत्युशीतोष्णवैवर्ण्योपसर्गादय-स्तापविशेषा न कदाचित् भवन्ति यावज्जीवंनिरतिशयसुखमेव । कुरङ्गकुररकुसुम्भवैकङ्क-त्रिकूटशिखरशिशिरपतङ्गरुचकनिषेधशिति-वासकपिलशङ्खवैदूर्य्यजारुधिहंसऋषभनागकाल-ञ्जरनीरदादयः पर्व्वता मेरोर्मूलदेशे परित उप-कऌप्ताः । मेरोः पूर्व्वदिशि उत्तरस्यामष्टादश-योजनदीर्घौ जठरदेवकूटपर्व्वतौ तिष्ठतः । तौद्विसहस्रयोजनविस्तारौ एवं द्बिसहस्रयोज-नोच्चौ । मेरोः पश्चिमायान्दिशि पवनपारि-पात्रौ पर्व्वतौ उत्तरस्यां अष्टादशयोजनदीर्घौद्बिसहस्रयोजनविस्तारौ द्बिसहस्रयोजनोच्चौ ।एवं दक्षिणस्यान्दिणि कैलासकरवीरपर्व्वतौपूर्व्वस्यामष्टादशयोजनदीर्घौ द्विसहस्रयोजन-विस्तारौ द्विसहस्रयोजनोच्चौ । एवमुत्तरस्यांत्रिशृङ्गमकरपर्व्वतौ पूर्व्वस्यामष्टादशयोजनदीर्घौद्बिसहस्रयाजनविस्तारौ द्विसहस्रयोजनोच्चौ ।एवं वर्षे वर्षे नदाः नद्यश्च बहवः सन्ति ॥
* ॥
तत्रापि भारतमेव वर्षं कर्म्मक्षेत्रं अन्यान्यष्टानिवर्षाणि सर्गिणां पुण्यशेषोपभोगस्थानानि भूस्वर्ग-नामाख्यातानि । एषु वर्षेषु पुरुषाणां आयु-रयुतवर्षाणि ते देवकल्पा अयुतहस्तिबल-विशिष्टाः वज्रवद्दृढशरीराः सर्व्वदा मोदयुक्ताःसन्ति । येषु देवपतयः सगणाः सस्त्रीकाः नाना-स्थानेषु स्वैरं विहरन्ति । नवसु वर्षेषु भगवा-न्नारायणस्तत्तत्पुरुषाणामनुग्रहाय स्वमूर्त्ति-भेदेनाद्यापि सन्निहितो भवति ॥
* ॥
इला-वृते तु वर्षे भगवान् शिव एक एव पुरुषः भवानीप्रधानार्ब्बुदसहस्रैः स्त्रीगणैः परिवृतः नारा-यणस्य सङ्कर्षणसंज्ञां मूर्त्तिं ध्यानेन सन्निधाप्यस्तुवन्नास्ते ॥
* ॥
भद्राश्वे वर्षे तद्बर्षपतिर्भद्र-श्रवा नाम धर्म्मसुतः तत्कुलपतयः पुरुषा भग-वतो हयशीर्षाभिधानां मूर्त्तिं परमसमाधिनासन्निधाप्य स्तुवन्ति ॥
* ॥
हरिवर्षे भगवान्नर-हरिरूपेणास्ते तत्र प्रह्रादो दैत्यदानवकुलतीर्थ-स्वरूपः तद्वर्षपुरुषैः सहानन्यभक्तियोगेनो-पास्ते ॥
* ॥
केतुमाले भगवान् कामदेवस्वरू-पेण लक्ष्म्याः प्रियचिकीर्षया आस्ते तद्भगवतोमायामयं रूपं परमसमाधियोगेन रमा देवीसंवत्सरस्य रात्रिषु प्रजापतेर्दु हितृभिरुपेताअहःसु तद्भर्त्तृभिरुपेता उपास्ते ॥
* ॥
हिर-ण्मये वर्षे भगवान् कूर्म्मतनुं बिभ्राणो निवसतितद्भगवन्मूर्त्तिं पितृगणाधिपतिरर्यमा तद्बर्षपुरुषैःसह उपास्ते ॥
* ॥
उत्तरकुरुवर्षे भगवान्वराहरूपी आस्ते तं भूमिस्तद्वर्षपुरुषैः सहा-स्खलितभक्तियोगेनोपास्ते ॥
* ॥
किम्पुरुषे वर्षेभगवान् दाशरथी रामरूपेणास्ते तं तच्चरण-सन्निकर्षाभिरतः परमभागवतो हनुमान् अवि-रतभक्तिस्तद्वर्षपुरुषैरुपास्ते ॥
* ॥
भारते वर्षेभगवान्नरनारायणाख्य आत्मज्ञानिनामनुग्रहा-यानुकम्पया अव्यक्तगतिस्तपश्चरति । तन्मूर्त्तिंनारदः वर्णाश्रमयुक्ताभिर्भारतवर्षीयप्रजाभिःसह भगवदनुभावोपवर्णनं पञ्चरात्रं सावर्णै-रुपदेक्ष्यमाणः परमभक्तिभावेन सेवते । * ।भारतेऽप्यस्मिन् वषे सरिच्छैला बहवः सन्ति ।यथा, मलयः भङ्गलप्रस्थः मैनाकः त्रिकूटःऋषभः कूटकः कोल्लः सह्यः देवगिरिः ऋष्य-मूकः श्रीशैलः महेन्द्रः वारिधारः विन्ध्यः शुक्ति-मान् ऋक्षगिरिः पारिपात्रः द्रोणः चित्रकूटःगोवर्द्धनः रैवतकः ककुभः नीलः कोकः गोमुखःइन्द्रकीलः कामगिरिरिति चान्ये च शतसह-स्रशः शैलाः । * । तेषां नितम्बप्रभवा नद्योह्यसंख्याताः । यथा, चन्द्रवंशा ताम्रपर्णी अव-टोदा कृतमाला वैहायसी कावेरी वेण्वा पय-स्वती शर्करावर्त्ता तुङ्गभद्रा कृष्णवेण्वा भीमरथीगोदावरी निर्व्विन्ध्या पयोष्णी तापी रेषा सुरसानर्म्मदा चर्म्मण्वती महानदी वेदस्मृतिः ऋषि-कुल्या त्रिसामा गण्डकी वाग्मती कौशिकीमन्दाकिनी यमुना सरस्वती दृशद्बती गोमतीसरयूः ओधवता सुषोमा शतद्रुः चन्द्रभागामरुद्वृधा वितस्ता असिक्नी विश्वा इति महा-नद्यः । अन्धः शोणश्च नदौ । * । अस्मिन्वर्षे लब्धजन्मभिः पुरुषैः शुक्ललाहितकृष्णवर्णेनस्वारन्धेन कर्म्मणा दिव्यमानुषनारकगतयोभवन्ति ॥
* ॥
जम्बुद्बीपस्य अष्टौ उपद्वीपाःसन्ति सगरात्मजैरश्वान्नेषणे इमां महीं परितोनिखनद्भिरुपकल्पिताः । तद्यथा, स्वर्णप्रस्थःचन्द्रशक्तः आवर्त्तनः रमणकः मन्दहरिणःपाञ्चजन्यः सिंहलः लङ्का इति । इति श्रीभाग-वते । ५ । १६ अध्याये । तथा च मार्कण्डेये ५४अध्याये मात्स्ये ११२ अध्याये च द्रष्टव्यम् ॥
* ॥
ल्योतिःशास्त्रमते लवणसमुद्रस्योत्तरे जम्बुद्वीपः ।स तु भूम्यर्द्धभागः । तस्य दक्षिणे द्बितीयार्द्ध-भागे द्वीपषट्कस्य सप्तसमुद्रस्य च निवेशः ।इति सिद्धान्तशिरोमणिः ॥
वाचस्पत्यम्
Sanskritजम्बु(म्बू)द्वीप पुंन० जम्बु(म्बू)वृक्षयुक्तो द्वीपः भूमेःसप्तद्वीपान्तर्गते द्वीपभेदे । तत्सीमाविभागादि विष्णु उक्तं यथा ।“जम्बुप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो द्विज! । कुशःक्रौञ्चस्तथाशाकः पुष्करश्चैव सप्तमः । एते द्वीपाः समु-द्रैस्तु सप्त सप्तभिरावृताः । लवणेक्षुसुरासर्पिर्दधि-दुग्धजलैः समम् । जम्बूद्वीपः समस्तानामेतेषां मध्यसं-स्थितः । तस्यापि मेरुर्मैत्रेय! मध्ये कनकपर्वतः । चतुर-शीतिमाहस्रो योजनैरस्य चोच्छ्रयः । प्रविष्टः षोडशाध-स्ताद्द्वात्रिंशन्मूर्ध्नि विस्तृतः । मूले षोडशसाहस्रोविस्तारस्तस्य भूभृतः । भूपद्मस्यास्य शैलोऽसौ कर्णिका-संस्थितिः स्थितः । हिमवान् हेमकूटश्च निषधस्तस्यदक्षिणे । नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ।लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथा परे । सहस्र-द्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते! नाभिश्च प्रथमं वर्षंततः किंपुरुषं स्मृतम् । हरिवर्षं तथैवान्यत् मेरोर्दक्षि-णतो द्विज! । रमणञ्चोत्तरं वर्षं तथैबानु हिरण्यम् ।उत्तरा कुरवश्चैव यथा वै भारतं तथा । नवसाहस्रमेकै-कमेतेषां द्विजसत्तम! । इलावृतञ्च तन्मध्ये सौवर्णोमेरुरुच्छ्रितः । मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तरः ।इलावृतं महाभाग! चत्वार उपपर्वताः विष्कम्मा र-चिता मेरोर्योजनायुतमुच्छ्रिताः । पूर्वेण मन्दरोनाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे भागे सुपार्श्व-श्चोत्तरे स्मृतः । कदम्बस्तेषु जम्बूश्च पिप्पलो वट एवच । एकादशशतायामाः पादपा गिरिकेतवः । जम्बुद्वीपस्य सा जम्बूर्नामहेतुर्महामुने! । महागजप्रमाणानिजम्ब्वास्तस्याः फलानि वै । पतन्ति भूभृतः पृष्ठे शीर्य्य-माणानि सर्वतः । रसेन तेषां प्रख्याता तत्र जम्बूनदीतिवै । सरित् प्रवर्त्तते सा च पीयते तन्निवासिभिः ।न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्लमः । तत्-पानसुस्थमनसा जनानां तत्र जायते । तीरमृत्तत्र सं-प्राप्य सुखवायुविशोषिता । जाम्बूनदाख्यं भवति सुवर्णंसिद्धभूषणम् । भद्राश्वं पूर्वतो मेरोः केतुमालञ्च पश्चिमे ।वर्षे द्वे तु मुनिश्रेष्ठ! तयोर्मूलमिलावृतम् । वनं चैत्र-रथं पूर्वं दक्षिणे गन्धमादनम् । वैभ्राजं पश्चिमे तद्व-दुत्तरे नन्दनं स्मृतम् । अरुणोदं महाभद्रं संसितोदंसमानसम् । सरांस्येताति चत्वारि देवभोग्यानिसर्वदा । शीतान्तश्चैव मुञ्जश्च कुवरी माल्यवांस्तथा । वै-कच्छप्रमुखा मेरोः पूर्वतः केशराचलाः । त्रिकूटःशिशिर-श्चैव पतङ्गो रुचकस्तथा । निषधाद्यो दक्षिणतस्तस्यकेशरपर्वताः । शिखिवासाः सवैदूर्य्यः कपिलो गन्ध-मादनः । जारुधिप्रमुखास्तद्वत् पश्चिमे केशराचलाः ।मेरोरनन्तराङ्गेषु जठरादिष्ववस्थिताः । शङ्खकूटोऽथऋषभो हंमो नागस्तथापरः । कालञ्जराद्याश्च तथाउत्तरे केशराचलाः । चतुर्दशसहस्राणि योजनानांमहापुरी । मेरोरुपरि मैत्रेय! ब्रह्मणः प्रथिता पुरी ।तस्याः समन्ततश्चाष्टौ दिशासु विदिशासु च । इन्द्रादि-लोकपालानां प्रख्याताः प्रवराः पुरः । विष्णु पदाद्विनिष्-क्रान्ता पूरयित्वेन्दुमण्डलम् । समन्ताद्ब्रह्मणः पुर्य्या-गङ्गा पतति वै दिवः । सा तत्र पतिता दिक्षु चतुर्द्धाप्रत्यपद्यत । सीता चालकनन्दा च वंङ्क्षुर्भद्रा च वैक्रमात् । पूर्वेण शैलात् सीता तु शैलं यात्यन्तरीक्षगा ।ततश्च पूर्ववर्षेण भद्राश्वेनैति साणवम् । भद्रा तथोत्तर-गिरीनुत्तरांश्च तथा कुरून् । अतीत्योत्तरमम्भोधिं सम-भ्येति महामुने! । वङ्क्षुश्च पश्चिमगिरीनतीत्य सकलां-स्ततः । पश्चिमं केतुमालाख्यं वर्षमभ्येति सार्णवम् ।तथाचालकनन्दापि दक्षिणेनेत्य भारतम् । प्रयाति सागरंभूत्वा सप्तभेदा महामुने! । आनीलनिषधायामौ माल्यवद्गन्धमादनौ । तयोर्मध्ये गतो मेरुः कर्णिकाकार-संस्थितः । भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ।पद्मानि लोकपद्मस्य । मर्य्यादाश्चैव बाह्यतः । जठरो देवकूटश्च मर्य्यादापर्वताबुभौ । तौ दक्षिणोत्तरायामावानीलनिषधायतौ । मेरोः पश्चिभदिग्भागे यथापूर्वौ तथा स्थितौ । त्रिशृङ्गो जारुधिश्चैव उत्तरे वर्ष-पर्वतौ । पूर्वपश्चायतावेतावर्णवान्तव्यवस्थितौ । इत्येतेमुनिवर्य्योक्ता मर्य्यादापर्वतास्तव । जठराद्याः स्थितामेरोर्येषां द्वौ द्वौ चतुर्दिशम् । मेरोश्चतुर्दिशं ये तुप्रोक्ताः केशरपर्वताः । शीतान्ताद्या मुने! तेषामतीवेहमगोरमाः । शैलानामन्तरद्रोण्यः सिद्धचारणसेविताः ।सुरम्याणि तथा तेषु काननानि पुराणि च । लक्ष्मी-विष्ण्वग्निसूर्य्यादिदेवानां मुनिसत्तम! । तान्यायतन-गर्य्याणि जुष्टानि वरकिन्नरैः । गन्धर्वयक्षरक्षांसि तथादैतेयदानवाः । क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वह-र्निशम् । भौमाह्येते स्मृताः स्वर्गाधर्म्मिणामालयामुने! । नैतेषु पापकर्म्माणो यान्ति जन्मशतैरपि ।भद्राश्वे भगवान् विष्णुरास्ते हयशिरा द्विज! । वराहःकेतुमाले तु भारते कूर्म्मरूपधृक् । मत्स्यरूपश्च गोविन्दःकुरुष्वास्ते सनातनः । विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरोहरिः । सर्वस्याधारभूतोऽसौ मैत्रेयास्तेऽखिलात्मकः ।यानि किंपुरुषाद्यानि वर्षाण्यष्टौ महामुने । न तेषुशोकोनायासो नोद्वेगः क्षुद्भयादिकम् । सुस्थाः प्रजानिरातङ्काः सर्वदुःखविवर्जिताः । दशद्वादशवर्षाणांसहस्राणि स्थिरायुषः । न तेषु वर्षवर्य्येषु भौमान्य-म्भांसि तेषु वै । कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना ।सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः । नद्यश्च शतशस्तेभ्यःप्रसूता या द्विजोत्तम!” । “पराशर उवाच । उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नामभारती यत्र सन्ततिः । नवयोजनसाहस्रो विस्तारो-ऽस्य महामुने । कर्म्मभूमिरियं स्वर्गमपवर्गञ्च गच्छताम् ।महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विन्ध्यश्चपारिपात्रश्च सप्तात्र कुलपर्वताः । अतः संप्राप्यते स्वर्गोमुक्तिमस्मात् प्रयान्ति च । तिर्य्यकत्वं नरकत्वञ्च यान्त्यतःपुरुषा मुने! । इतः स्वर्गञ्च मोक्षश्च मध्यञ्चान्तश्चगन्यते । न खल्वन्यत्र मर्त्यानां कर्म्मभूमौ विधीयते ।भारतस्यास्य वर्षस्य नव भेदान्निशामय । इन्द्रद्वीपःकशेरुमांस्ताम्रवर्णो गभस्तिमान् । नागद्वीपस्तथा सौम्योगन्धर्वस्त्वथ वारुणः । अयन्तु नवमस्तेषां द्वीपः सागर-संवृतः । योजनानां सहस्रन्तु द्वीपोऽयं दक्षिणोत्तरात् ।पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः । ब्राह्मणाःक्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । इज्यायुद्ध-बणिज्याद्यैर्वर्त्तयन्तो व्यवस्थिताः । वेदस्मृतिमुखाश्चान्याःपारिपात्रोद्भवा मुने! । नर्म्मदा सुरसाद्याश्च नद्योविन्ध्यविनिर्गताः । तापीपयोष्णीनिर्विन्ध्याकावेरीप्रमुखा नदी । गोदावरीभीमरथीकृष्णवेन्नादिका-स्तथा । सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ।कृतामलाताम्रपर्णीप्रमुखा मलयोद्भवाः । त्रिसामाऋषिकल्लाद्याः शुक्तिमत्पादसम्भवाः । शतद्रुचन्द्र-भानाद्या हिमवत्पादनिःसृताः । आसां नद्युपनदद्यश्चसन्त्यन्यास्तु सहस्रशः । पश्चिमे कुरुपञ्चालमध्यदेशाद-योजनाः । पूर्वदेशादिकश्चैव कामरूपनिवासिनः । ओड्राःकलिङ्गामगधा दाक्षिणात्याश्च सर्वशः । तथापरान्ताःसौराष्ट्राः शूद्राभीरास्तथार्बुदाः । मारुका मालवाश्चैवपारिपात्रनिवासिनः । सौवीराः सैन्धवाहूणाः शाल्लाःशाकलवासिनः । मद्रामार्गास्तथाम्बष्ठाः पारसीकादय-स्तथा । आसां पिबन्तः सलिलं वसन्ति सरितां सदा ।चत्वारि भारते वर्षे युगान्यत्र महामुने! । कृतं त्रेताद्वापरञ्च कलिश्चान्यत्र न क्वचित् । तपस्तप्यन्ति मुनयोजुह्वते चात्र यज्विनः । दानानि चात्र दीयन्ते पर-लोकार्थमादरात् । पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते ।तत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने! । यतो हिकर्म्मभूरेषा ततोऽन्या भोगभूमयः । अत्र जन्मसह-स्राणां सहस्रैरपि सत्तम! । कदाचिल्लभते जन्तु-र्म्मानुष्यं पुण्यसञ्चयात् । गायन्ति देवाः किल गीतकानिधन्यास्तु ये भारतभूमिभागे । स्वर्गापवर्गास्पदहेतुभूतेभवन्ति भूयः पुरुषाः सुरत्वात् । कर्म्माण्यसंकल्पिततत्फलानि सन्न्यस्य विष्णौ परमात्मरूपे । अवाप्य तांकर्म्ममहीमनन्ते तस्मिल्लंयं ये त्वमलाः प्रयान्ति । जानीमनैतत् क्व वयं विलीने स्वर्गप्रदे कर्म्मणि देहबन्धम् ।प्राप्स्यामो धन्याः खलु ते मनुष्याये भारते नेन्द्रियविप्र-हीणाः । नववर्षन्तु मैत्रेय! जम्बूद्वीपमिदं मया ।लक्षयोजनविस्तारं संक्षेपात् कथितं तव । जम्बूद्वीपंसमावृत्य लक्सयोजनविस्तृतः । मैत्रेय! वलयाकारःस्थितः क्षारोदधिर्बहिः” ।भाग० ५ । १६ अ० तद्वर्णनमन्यथोक्तम् यथा“यो वा अयं द्वीपः कुवलयकमलाभ्यन्तरकोषोनियुत-योजनविशालः समवर्त्तुलो यथा पुष्करपत्रम् ॥
६ ॥
यस्मिन्नव वर्षाणि नवयोजनसहस्रायामानि अष्टभि-र्मर्य्यादागिरिभिः सुविभक्तानि ॥
७ ॥
“एषां मध्ये इला-वृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः सर्वतःसौवर्णः कुलगिरिराजो मेरुर्द्वीपायामसमुन्नाहः कर्णि-काभूतः कुवलयकमलस्य मूर्द्धनि द्वात्रिंशत्सहस्र-योजनविततो मूले षोडशसाहस्रं तावतान्तर्भूम्यांप्रविष्टः ॥
८ ॥
उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्ग-तानिति त्रयोरम्यकहिरण्मयकुरूणां मर्य्यादागिरयःप्रागायता उभयतः क्षारोदावधयो द्विसाहस्रपृथवएकैकशः पूर्वस्मात् पूर्वस्मादुत्तरेण दशांशाधिकांशेन दैर्घ्यएव ह्रसन्ति ॥
९ ॥
एवं दक्षिणेनेलावृतं निषधो हेमकूटोहिमालय इति प्रागायता यथा नीलादयः । अयु-तयोजनोत्सेधा हरिवर्षकिंपुरुषभारतानां यथासङ्ख्यम् ॥
१० ॥
तथैवेलावृतमपरेण पूर्वेण च माल्यवद्-गन्धमादनावानीलनिषधायतौ द्विसहस्रं पप्रथतुःकेतुमालभद्राश्वयोः सीमानं विदधाते ॥
११ ॥
मन्दरोमेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतथोजनविस्तारोन्नाहा-मेरोश्चतुर्दिशमवष्टम्भगिरय उपकॢप्ताः ॥
१२ ॥
चतुर्ष्वे तेषुचूतजम्बूकदम्बन्यग्रोधाश्चत्वारः पादपप्रवराः पर्वतकेतवइवाधिसहस्रयोजनोन्नाहास्तावद्विटपविततयः शतयोजन-परिणाहाः ॥
१३ ॥
ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजलाः ।यदुपस्पर्शिन उपदेवगणा योगैश्वर्य्याणि स्वाभाविकानिभरतर्षभ! धारयन्ति । देवोद्यानानि च भवन्ति चत्वारिनन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रमिति ॥
१४ ॥
येष्वमर-परिवृढाः सह सुरत्वलनाललामयूथपतय उपदेवगणैरुप-गीयमानमहिमानः किल विहरन्ति ॥
१५ ॥
मन्दरोत्सङ्गएकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानिफलान्यमृतकल्पानि पतन्ति ॥
१६ ॥
तेषां विशीर्य्यमाणा-नामतिमधुरसुरभिसुगन्धिवहलारुणरसोदेनारुणोदा नामनदी मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लाव-यति ॥
१७ ॥
यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजनबधू-नामवयवस्पर्शसुगन्धवातो दशयोजनम् समन्तादनुवासयति ॥
१८ ॥
एवं जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रा-याणामिभकायनिभानां रसेन नदी जम्बूनाम नदी मेरुम-न्दरशिखरादयुतयोजनादवनितले निपतन्ती दक्षिणेनात्मानंयावदिलावृतमुपस्यन्दति ॥
१९ ॥
तावदुभयोरपि रोधसो यामृत्तिका तद्रसेनानुविध्यमाना च वाय्वर्कसंयोगविपाकेनसदामरलोकाभरणं जाम्बूनदं नाम सुवर्णं भवति ॥
२० ॥
यदुह वाव विबुधादयः सह युवतिभिर्मुकुटकटककटिसूत्रकुण्डलाद्याभरणरूपेण खलु धारयान्त ॥
२१ ॥
यस्तु महा-कदम्बः सुपार्श्वपार्श्वनिरूढस्तस्य कोटरेभ्यो विनिःसृताःपञ्चायामपरिणाहाः पञ्च मधुधाराः सुपार्श्वशिखरात्पतन्त्योऽपरेणात्मानमिलावृतमनुमोदयन्ति । याह्युपयुञ्ज-नानां मुखनिर्व्वासितोवायुः समन्ताच्छतयोजनमनु-वासयति ॥
२२ ॥
एवं कुमुदनिरूढोयः शतवन्तो नाम वट-स्तस्य स्कन्धेभ्यो नीधीनाः पयोदधिमधुधृतगूडान्ना-द्यम्बरशय्यासनाभरणादयः सर्व एव कामदुधा नदाःकुमुदाग्रात् पतन्तस्तमुत्तरेणेलावृतमुपयोजयन्ति । यानुप-जुषाणानां न कदाचिदपि प्रजानां वलीपलितक्लम-स्वेददौर्गन्ध्यजरामयापमृत्युशीतोष्णबैवर्ण्योपसर्गादयस्ता-पविशेषा भवन्ति । यावज्जीवं सुखं निरतिशयमेवकुरङ्गकुररकुसुम्भवैकङ्कत्रिकुटशिखरपतङ्गरुचकनिषधशितिवासःकपिलशङ्खवैदूर्य्यजारुधिहंसर्षभनागकुञ्जरनीरदादयोगिरयो मेरोः कर्णिकाया इव केशरभूतामूलदेशेपरित उपकॢप्ताः ॥
२३ ॥
जठर देवकूटौ मेरुं पूर्वेणाष्टादशयोजनसहस्रमुदगायतो द्विसहस्रपृथूत्तङ्गौभवतः । एवमपरेण पवनपारिपात्रौ दक्षिणेन कैलास-करवीरौ प्रागायतौ । एवमुत्तरतः त्रिशृङ्गमकरौ अष्टा-भिरेभिः परिष्कृतोऽग्निरिव परितश्चकास्ति काञ्चन-गिरिः । मेरोर्मूर्द्धनि भगवत आत्मयोनेर्मध्यत उपकॢप्तांपुरीमयुतयोजनसाहस्रीं समचतुरस्रां शातकौम्भीं वदन्ति॥
२४ ॥
तामनुपरितो लोकपालानामष्टानां यथादिशंयथारूपं तुरीयमानेन पुरोऽष्टावुपक्ल्रप्ताः” ॥
२५ ॥
६ अ०“तत्र चतुर्द्धा विभज्यमाना चतुर्भिर्नामभिश्चतुर्दिश-मभिस्यन्दती नदनदीपतिमेवाभिनिविशति । सीता-ऽलकनन्दाव ङ्क्षर्भद्रेति ॥
७ ॥
सीता तु ब्रह्मसदनात् केश-राचलादिशिखरेभ्योऽधोधः प्रस्रवन्ती गन्धमादनमूर्द्धसुपतित्वान्तरेण भद्राश्वं वर्षं प्राच्यां दिशि क्षारसमुद्रमभि-प्रविशति ॥
८ ॥
एवं माल्यवच्छिखरान्निष्पतन्ती तत उप-रतवेगा केतुमालमभि वङ्क्षुः प्रतीच्यां दिशि सरित्पतिंप्रविशति ॥
९ ॥
भद्रा चोत्तरतो मेरुशिरसो निपतितागिरिशिखराद्गिरिशिखरमतिहाय शृङ्गवतः शृङ्गादव-स्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां दिशि लवणा-र्णवं प्रविशति ॥
१० ॥
तथैवालकनन्दा दक्षिणेन ब्रह्मसद-नाद्बहूनि गिरिकूटानि अतिक्रम्य हेमकूटहिमकूटान्यति-रभसतररंहसा लुठन्ती भारतमभि वर्षं दक्षिणस्यां दिशिलवणजलधिमभिप्रविशति ॥
११ ॥
अन्ये च नदानद्यश्चवर्षे वर्षे सन्ति वहुशोमेर्व्वादिगिरिदुहितरः शतशः ।“अत्रापि भारतमेव वर्षं कर्मक्षेत्रम् ॥
१२ ॥
अन्यान्यष्ट-वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि भौमस्वर्गपदानिव्यपदिशन्ति” ॥
१३ ॥
१७ अ०“भारतेऽप्यस्मिन्वर्षे सरिच्छैलाः सन्ति बहवः ॥
१६ ॥
मलयो मङ्गलप्रस्थोमैनाकस्त्रिकूट ऋषभः कूटकः कोल्लःसह्यो देवगिरिऋव्यमूकः श्रीशैलो वेङ्कटो महेन्द्रोवारि-धारोविन्ध्यः शक्तिमानृक्षगिरिः पारिपात्रोद्रोण-श्चित्रकूटोगोवर्द्धनोरैवतः ककुभोनीलोगोकामुख इन्द्रकीलःकामगिरिरिति चान्ये च शतसहस्रशः शैलास्तेषां नितम्बप्रभवानदानद्यश्च सन्त्यसंख्याताः ॥
१७ ॥
एतासामपोभारत्यःप्रजा नामभिरेव पुनन्तीनामात्मानं चोपस्पृशन्ति । चन्द्र-वशा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी-वेन्ना पयस्विनी शर्करावर्त्ताऽङ्गभद्रा कृष्णवेन्ना भीमरथीगोदावरी निर्व्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्म्मदाचर्म्मण्वती अन्धः शोणश्च नदौ महानदी वेदस्मृतिः ऋषि-कुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वतीदृषद्वती गोमती सरयूरोघवती सप्तवती सुषमा शतद्रू-श्चन्द्रभागा मरुद्वृधा वितस्ता असिक्नोविश्चेति महा-नद्यः ॥
१८ ॥
अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ललो-हितकृष्णवर्णेन स्वारन्धेन कर्मणा दिव्यमानुषनारकग-तयोबह्व्य आत्मन आनुपूर्व्येण सर्वाह्येव सर्वेषां विधी-यन्ते । यथावर्णविधानमपवर्गश्च भवति” ॥
२० ॥
१९ अ०“जम्बुद्वीपस्य च राजन्नुप द्वीपानष्टौ ह्येके उपदि-शन्ति । सगरात्मजाश्चाश्वान्वेषण समां महीं परितोनिखनद्भिरुपकल्पितान् । तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्लआवर्त्तनो रमणको मन्दहरिणः पाञ्चजन्यसिंह-लोलङ्केति” २० अ० । अत्रत्य जनपदाश्च जनपदशब्दे उक्ता ।भा० भी० ९ अ० । जम्बुद्वीपस्थ नदीभेदा उक्ता यथा ।“आर्य्या म्लेच्छाश्च कौरव्य! तैर्मिश्राः पुरुषा विभो! ।नदीं पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम् । गोदा-वरीं नर्मदाञ्च बाहुदां च महानदीम् । शतद्रूं चन्द्रभानाञ्चयमुनाञ्च महानदीम् । दृषद्वतीं विपाशाञ्च विपापां स्थूल-बालुकाम् । नदीं वेत्रवतीञ्चैव कृष्णवेन्नाञ्च निम्नगाम् ।इरावतीं वितस्ताञ्च पयोष्णीं देविकामपि । वेदस्मृतांवेदवतीं त्रिदिवामिक्षुमालवीम् । करीषिणीं चित्र-वहां चित्रसेनाञ्च निम्नगाम् । गोमतीं धूतपापाञ्चगण्डकीञ्च महानदीम् । कौशिकीं निश्चितां कृत्यांनिचितां लोहतारिणीम् । सरयूञ्च रहस्यां च शतकुम्भांतथैव च । चर्मण्वतीं चन्द्रभागां हस्तिसोमां दिशं तथा ।शरावतीं पयोष्णीञ्च परां भीमरथीमपि । कावेरींचुलकाञ्चापि वेणां शलबलामपि । नीवारां महि-ताञ्चापि सुप्रयोगां जनाधिप! । पवित्रां कुण्डलां सिन्धुंराजनीं पुरमालिनीम् । पूर्व्वाभिरामां वीराञ्च भीमा-मोघवतीं तथा । पलाशिनीं पापहरां महेन्द्रां पाट-लावतीम् । करीषिणीमसिक्नीञ्च कुशचीरां महानदीम् ।मकरीं प्रवरां मेनां हेमां घृतवतीं तथा । पुरावती-मनुष्णाञ्च शैव्यां तापीञ्च भारत! । सदानीरामघृष्याञ्चकुशधारां महानदीम् । सदाकान्तां शिवाञ्चैव तथावीरवतीमपि । वास्तुं सुवास्तुं गौरीञ्च कम्पनां सहि-रण्वतीम् । वरां वीरङ्कराञ्चापि पञ्चमीञ्च महानदीम् ।रथचित्रां ज्योतिरपां विश्वामित्रां कपिञ्जलाम् । उपेन्द्रांबहुलाञ्चैव कुचीरां मधुवाहिनीम् । विनदीं पिञ्जलांवेणां तुङ्गवेणां महानदीम् । विदिशां कृष्णवेणाञ्चताम्राञ्च कपिलामपि । शेलुं सुवामां वेदाश्वां हरिदश्वांमहोपमाम् । शीघ्राञ्च पिच्छलाञ्चैव भारद्वाजीञ्च निम्न-गाम् । कौशिकीं निम्नगां शोणां बाहुदामथ चन्द्रमाम् ।दुर्गामन्त्रशिलाञ्चैव ब्रह्मबोध्यां वृहद्वतीम् । यवक्षामथरोहीञ्च तथा जाम्बूनदीमपि । मनसां तमसां दासींवसाञ्च वरणामसीम् । नालां धृतिमतीञ्चैव पूर्णाशाञ्चमहानदीम् । तामसीं वृषाभाञ्चैव ब्रह्ममेध्यां वृह-द्वतीम् । एताश्चान्याश्च बहुधा महानद्यो जनाधिप! ।सदानिरामयां कृष्णां मन्दगां सन्दवाहिनीम् । ब्रह्मा-णीञ्च महागौरीं दुर्गामपि च भारत! । चित्रोपलांचित्ररथां मञ्जुलां वाहिनीं तथा । मन्दाकिनीं वैत-रणीं कोशां चापि महानदीम् । शुक्तिमतीं सलिङ्गाञ्चपुष्परेणूत्पलावतीम् । लोहित्यां करतोयाञ्च तथैववृषकाह्वयाम् । कुमारीमृषिकुल्याञ्च मारिषाञ्च सर-स्वतीम् । मन्दाकिनीन्तु पुण्याञ्च सर्वसङ्गाञ्च भारत! ।विश्वस्य मातरः सर्व्वाः सर्व्वाश्चैव महाफलाः । तथानद्यस्त्वप्रकाशाः शतशीऽथ सहस्रशः । इत्येताः सरितोराजन्! समाख्याता यथास्मृति” । अन्याः काश्चित् नद्यःकालिकापुराणोक्तास्तच्छब्दे २०१३ पृ० दर्शिताः । जम्बु-द्वीपस्था जनपदाश्च भा० भी० ७ अ० उक्ताः जनपदशब्दे३०२०पृ० दर्शिताः । कूर्म्मविभागशब्दे च तत्स्थानञ्चोक्तम् ।२ जम्बु(म्बू)द्वीपाकारसंनिवेशयुक्ते दातव्यद्रव्यभेदे तद्विधा-नादि हेमा० दा० ख० ब्रह्माण्डपु० “शृणु देवि! महादानं जम्बु(म्बू)द्वीपाह्वयन्तु तत् ।यथाह भगवानद्य पद्मयोनिर्जनार्दनः । पुण्येऽह्निपुण्यनक्षत्रे पुण्यकाले तु सर्वतः । विषुवत्ययनादौ चग्रहणे चन्द्रसूर्य्ययोः । व्यतीपातेऽथ वा कुर्य्याज्जन्मर्क्षेवा विशेषतः । अष्टम्यां पञ्चदश्यां वा नित्यं वा दानमा-चरेत् । पुण्यदेशेषु सर्वेषु नदीदेवालयादिषु । दानं गृहेवा दातव्यं श्रद्धा वा यत्र जायते । विप्रन्तु वेदविद्वासंगुरु सम्पूज्य यत्नतः । भूलेपनादि यत्कार्य्यं सर्वंविप्रेण कारयेत् । विलेपयेत्सर्वभूमिं गोमयेन सवारिणा ।तत्र विंशतिहस्तन्तु लेपयेत्परिमण्डलम् । लवणेनोदधिंतत्र परितः परिकल्पयेत् । प्रादेशमात्रं विस्तारादष्ट-द्रोणेन पार्व्वति! । तत्राक्षतान्निर्विकिरेत् श्वेतपुष्पैःसमन्ततः । तन्मध्ये कारयेन्मेरुं धान्यभारत्रयेण वै ।मेरुर्महाव्रीहिमयस्तु मध्ये सुवर्णकल्पद्रुमसंयुतः स्यात् ।पूर्वेण मुक्ताफलवज्रयुक्तो याम्येन गोमेदकपुष्परागैः ।पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैदूर्य्यसरोजरागैः ।श्रीखण्डखण्डैरभितः प्रवाललतान्वितः शुक्तिशिलातलःस्यात् । शुक्लाम्बराण्यम्बु धरावली स्यात् पूर्वेण पीतानिच दक्षिणे तु । वासांसि पश्चादथ कर्वुराणि रक्तानिचैवोत्तरतोघनाली । व्रह्मा तु मध्ये कमलासनस्थश्चतु-र्मुखः काञ्चननिर्मिताङ्गः । चतुर्भुजश्चात्र निवेशनीयोदधत् स्रुचं चात्र कमण्डलुञ्च । तथाक्षसूत्रं जपसाधनञ्चकृष्णाजिनं चोपवीतं च बिभ्रत् । गङ्गां चतुर्द्धा पतितांनिधाय चतुर्दिशं चोदकपूर्णरूपाम् । रौप्यान्महेन्द्र-प्रभृतीनथाष्टौ संस्थाप्य लोकाधिपतीन् क्रमेण । नाना-द्विजौघानि च राजतानि मृगाश्च सर्वत्र निषेशनीयाः ।पूर्वेण मन्दरगिरिर्यवतण्डुलाभ्याम् शुक्लाम्बरेण परितःपरिवेष्टितान्तः । प्लक्षेण काञ्चनमयेन वृषेण तद्वद्रौप्येणवृक्षमृगपक्षियुतो विधेयः । याम्येन गन्धमदनोऽत्र गि-रिस्तु कार्य्यो मुद्गैश्च जम्बुतरुणा च हिरण्मयेन ।हैमेन यक्षपतिना च विराजमानः पीताम्बरेण परितःपरिवेष्टितश्च । पश्चात्तिलाचलमथोपरि कर्बुराभम् वासःसपिप्पलहिरण्मयहंसयुक्तम् । आकारयेद्विपुलमत्र-सुगन्धपुष्पम् रौप्येण शक्तिघटितेन विराजमानम् ।संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपार्श्वभपि माष-मयं सुवस्त्रम् । न्यग्रोधवृक्षमपि हेममयं सधेनुम्रौप्यैश्च शक्तिघटितैश्च शुभं विधायं । मेरोश्च पुष्पाभरणञ्चकार्य्यम् घृतोदकं प्रस्रवणञ्च दिक्षु । क्षीराज्यदध्नामधुना सरांसि प्रागादि तेषां च यथाक्रमेण । हेमा-दिकूटनिषधौ क्रमशश्च याम्ये सौम्ये च नीलसितशृङ्ग-युतौ क्रमेण । प्रादेशमात्रं परिनिःसृतास्ते प्रागायताह्युपरि वस्त्रयुताश्च सर्वे । प्रत्येकमत्र वसनच्छदपर्वतानाम्भारेण धान्यपरिमाणमुशन्ति सन्तः । शक्त्या च रौप्य-कृतपक्षियुताश्च सर्वे सौगन्धिपुष्पफलवस्त्रयुगा विधेयाः ।आनीलनिषधायामौ माल्यवद्गन्धमादनौ । तेषां मध्य-गतो मेरुस्तौ च धान्यविनिर्मित । निषधः पारिपात्रश्चमर्य्यादापर्वताविमौ । मेरोः पञ्चमभागेन यथा तौ गन्ध-मादनौ । गन्धमादनशैलोऽसौ पूर्वपश्चाद्यथाविधौ ।श्वेततण्डुलनिर्माणौ दक्षिणोत्तरतः स्थितौ । सितान्तः-प्रमुखाः सर्वे दक्षिणे ककुभादयः । शङ्खकूटादयश्चैवउत्तरे परिकीर्त्तिताः । तांस्त्रीन् केशरशैलाश्च कृत्वाधान्यमयान् शुभान् । वस्त्रैरावेष्ट्य शैलेन्द्रं मेरुमन्यांश्चवेष्टयेत् । दक्षिणं भारतं वर्षं तत् किंपुरुषसंवृतम् ।हरिबर्षं ततः प्रोक्तं मेरोर्दक्षिणतस्ततः । इलावृतं वृतंमेरोश्चतुर्थं वृषभं तथा । रम्यं हिरण्मयं तस्मात्कुरवश्चेति चोत्तराः! भद्राश्वः केतुमालश्च पूर्वपश्चिमतःस्थितौ । प्रोक्तानि नव वर्षाणि जम्बुद्वीपे तु नामतः ।हिमाद्रिमध्ये देवेशं श्रियञ्च विनिवेशयेत् । प्रसादाभि-मुखावेतौ काञ्चनेन विनिर्मितौ । शङ्ख--चक्र--गदा-पाणिं पीतवाससमच्युतम् । किरीट--केयूर--धरं श्रीव-त्साङ्कितवक्षसम् । पद्मासने समासीनां पद्महस्तां सुलो-चनाम् । प्रसन्नवदनां देवीं तस्य दक्षिणतोन्यसेत् । कै-लासमध्यतो माञ्च त्वां चैव विनिवेशयेत् । मां च शङ्क-रनामानं त्वां च गौरीं वरानने! । चनुर्मुजं वृषस्थञ्चजटिलं चन्द्रमौलिनम् । खट्वाङ्गशूल--वरदाभय--हस्तञ्चमां न्यसेत् । मदुत्सङ्गगतां त्वां च दर्पणेन्दीवरान्विताम् ।भद्रासने भगवन्तं हयरूपमुखं हरिम् । सौवर्णंस्थापयेद्देव भारते कूर्म्मरूपिणम् । वाराहं केतुमालेवै मत्स्यं कुरुषु चोत्तरे । सौवर्णानथ वा रौप्यान् स्थाप-येत्तु यथाक्रमम् । एवं जम्ब्वाह्वयं द्वीपं कृत्वा चैवयथाविधि । अर्घपाद्यासनं स्नानं यथावत् स्थापनंक्रमात् । ब्रह्मादयस्तथा देवाः शैलाः कल्पद्रुमास्तथा ।स्वनाममन्त्रैः पुजार्हा नमस्कारान्तदीपितैः । गन्ध-पुष्प--नमस्कार--धूप दीप--फलै--स्तथा । तथोपहरणाद्यैश्चपूजयित्वा प्रयत्नतः । भद्राश्ववर्षे होमन्तु सर्पिषा चसमाचरेत् । स्वनाम मन्त्रैर्होतव्यं स्वाहाकारसमायुतैः ।दशोत्तरशतं हुत्वा ब्रह्मणे मेरवे तथा । इतरेषाञ्चसर्वेषामष्टोत्तरशताहुतीः । स्नानार्थं यजमानस्य पुरतःकलशन्न्यसेत् । आढकोदरपूर्णन्तु स्वकूर्चं वस्त्रवेष्टितम् ।गन्धाः सुमनसस्तस्य कुशाग्रान्विनिवेशयेत् । याश्च श्रेयोविधास्यन्ति ताश्चात्रावाहयेत्ततः । गङ्गाद्याः सरितःसर्व्वा समुद्राश्च सरांसि च । आयान्तु यजमानस्यदुरितक्षयकारकाः । इत्यावाह्य ततस्तस्य कलशं विमलो-दकम् । अभ्यर्च्य गन्धपुष्पाद्यैः स्थापयेत् प्रीतिपूर्वकम् ।स्नापयेत् प्राङ्मुखं तत्र दातारं कलशोदकैः । ऋग्भिर्वरुण-देवीभिः पाबमानीभिरेव च । दानकाले च सम्प्राप्तेदाता नारी नरोऽथवा । स्नापितो गुरुणा तेन सार्द्धंदानं समाचरेत् । त्रिः प्रदक्षिणमावृत्य गृहीतकुसुमा-ञ्जलिः । प्रत्येकं पर्व्वतान् सर्व्वान् प्रणिपातपुरःसरम् ।मध्यभं गुरवे दद्यादिमं मन्त्रमुदीरयेत् । अन्यस्मै वाप्रदातव्यं तस्यानुज्ञामवाप्य च । यथा च भूरादिसमस्त-लोकास्त्वयि स्थिता भूधरराज! नित्यम् । अमी सुराअसुरा लोकनाथा ब्रह्मादयो देवगणाश्च नित्यम् । त्वत्-सम्प्रदानादहमप्यशेषैः पापैर्विमुक्तस्तु यथा भवेयम् । श्रेय-स्तथा पर्वतराज! मह्यं कुरु प्रभो! देववरैश्च सार्द्धम् ।इतीदमुक्त्वा प्रददेत्तु मेरुं सकाञ्चनं राजतवस्त्रयुग्मम् ।प्रत्येकमेकं द्विजपुङ्गवानाम् प्रागादि दद्यादितरान्क्रमेण । सुरासुराणाममृतार्थकृत्यैः त्वया कृतं मन्दर-शैल! सत्य! । तथा च मां रक्ष च सर्वतस्त्वं तव प्रसा-दाद्विरजा यथाहम् । गन्धाद्रिमादन इतीरितभूधरेन्द्र!वेदोदितस्य गरुडाय नमोऽस्तु तुभ्यम् । त्वत्सम्प्रदान-हतपापसमस्तदीषं छायाषिशैलवर रक्ष च मामजस्रम् ।देवालयाय विपुलाय नमोऽचलाय हंसाय वेदपुरुषायनमोऽच्युताय । युष्मत्प्रदाननिहताखिलपापराशिंहंसेन सार्द्धममराचल! पाहि मां त्वम् । वन्दे सुपार्श्व-ममराचलमप्रमेयन्धेनुञ्च देवसुरभिं प्रणतोऽस्मिनित्यम् । त्वद्दानभक्तियुतसत्क्रिययाहमद्य त्वामेवयामि शरणार्थमवेहि मां त्वम् । श्रीवत्सवक्षस--मनादि-मजं समस्तलोकाधिपं सकलकारणनच्युतञ्च । नारायणंशरणमेमि धराधरेन्द्रैः सार्द्धं श्रिया हिमवतः स्थिति-मादिमीडे । देवाय देवगणपूजितपादपद्मयुग्माय भक्त-जनदुःखविनाशनाय । कैलासशैलनिलयाय भवायनित्यं गौरीप्रियाय वरदाय नमः शिवाय । चक्रंत्वनादिनिधनः शरणागतं माम् भद्राश्वनामनि गतोहरिरच्युतोऽसौ । आस्ते घनाघनवपुः सनकादि-योगिपूगैरभिष्टुतपुरातनकीर्त्तियुक्तः । मध्ये महार्णव-हिमाचलयोर्निषण्णं कूर्माकृतिं शरणमेमि भवाभवाय ।पारावरं मथितमत्र सदा दधाति यस्त्वं नमामि सुर-पूजितमप्रमेयम् । वाराहरूपिणमनन्तमनन्तकेतुम् लो-कखणपिणमनेकशिरोक्षिपादम् । वन्दे महीधरममेय-मपारकीर्त्तिं यज्ञेशमेति शरणं हरमीशितारम् ।देवस्तथोत्तरकुरुष्वपि नित्यमास्ते मत्स्यः सुरेन्द्रगणपूजि-तपादपद्मः । रक्षत्वशेषजगतां पतिरच्युतोऽसौ संसार-दुःखचलितं शरणागतं माम् । उक्त्वैवमात्रमघनाशन-दानमन्त्रं प्रत्येक--मेकं द्विजपुङ्गवानाम् । भुक्त्वा शुभानिमनसेच्छति यानि वासौ गच्छेच्च यत्र न निवर्त्तयतीहमर्त्त्यः । गुरवे दक्षिणां दद्यात् सुवर्णञ्चैव वाससी ।यागोपकरणं सर्वं गुरवे विनिवेदयेत् । इत्याह भगवान्प्रीतः पार्व्वत्याः परमेश्वरः । अहमप्यव्रवं सर्वं युष्माकंमुनिसत्तमाः! ।”
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
