जभी (jabhI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit जम्भ्
जभी
गात्रविनामे
भ्वादिः
अकर्मकः
सेट्
आत्मनेपदी
जम्भते
ईदित्
धातुवृत्तिः
Sanskritजभीँ जभी
मानकरूपान्तरम् - जृभिँ
जृभि (अर्थः) गात्रविनामे
जभीत्येके, जब्धमिति मैत्रेयः अयमेव पाठः प्रायेण वृत्तिकारस्य संमतः यदाह "रधिजभोरचि'' इत्यत्र अज्ग्रहणप्रत्युदाहरणे जब्धमिति, अनीदित्त्वे इटा भाव्यमिति कथमेवमुदाहरेत ( जम्भते जजम्भे जम्भिता जम्भिष्यते जम्भताम् अजम्भत जम्भेत जम्भिषीष्ट अजम्भिष्यत जिजम्भिषते ) "रधिजभोरचि'' इति अजादौप्रत्यये नुम् ( जञ्जभ्यते ) "लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्'' इति यङ् भावो धात्वर्थस्तस्य गर्हा भावगर्हा अयं च यङ् पूर्वसूत्रान्नित्यग्रहणानुवृत्त्या तक्रकौण्डिन्यन्यायेन वा क्रियासमभिहारयङो बाधक इति भाष्यादौ स्थितम् "जपजभदहदशभञ्जपशां च'' इति अभ्यासस्य यङि यङलुकि च नुगागमः इदं च नुग्ग्रहणमनुस्वारोपलक्षणार्थं "नुगतोनुनासिकान्तस्य'' इति अत्रान्तग्रहणात्, तद्धि तदन्तविधिनाप्यनुनासिकान्तस्य धातोरभ्यासस्य नुकि सिद्धे तदन्तस्य यत्कार्यं तद्यथा स्यादिति न च नुकोन्त्यत्वे किंचित्कार्यमस्ति, अस्ति चानुस्वारस्य "वा पदान्तस्य'' इति परसवर्णविकल्पः "कर्तुः क्यङ् स'' इति वदनुनासिकेत्यविभक्तिको निर्देशः तेन जञ्जभ्यते इत्यत्रानुस्वारस्यापि पक्षे श्रवणं भवति ( जञ्जभीतिजञ्जब्धिःजञ्जब्धः जञ्जम्भतीत्यादि) "रधिजभोरचि'' इत्यत्र प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणमिति अजादौ नुमागमः (जम्भयति अजजम्भत् ) जम्भो दन्तविशेषो ऽभ्यवहार्यं च, शोभनो जम्भोस्यास्तीति सुजम्भा "जम्भासुहरिततृणसोमेभ्यः'' इति स्वाद्यादेर्जम्भात् बहुव्रीहेरनिचि "सर्वनामस्थाने चासंबुद्धौ'' इति नान्तस्योपधाया दीर्घः पदत्```````वे "न लोपः प्रातिपदिकान्तस्य'' इति नलोपः भसंज्ञायां "अल्लोपोनः'' इत्यल्लोपः (सुजम्भ्ना) इत्यादि ङौ तु "विभाषा ङिश्योः'' इति विकल्पित इति सुजम्भ्रि सुजम्भनीति भवतः सम्बुद्धौ "न ङिसम्बुध्योः'' इति नलोपनिषेधः नपुंसके तु "वा नपुंसकानाम्'' इति पक्षे नलोपः अन्यत्र तु नित्यः, दीर्घस्तु न भवति असर्वनामस्थानत्वात् शौ सर्वनामस्थानपरत्वात् सुजम्भानीति "विभाषा ङिश्योः'' इति श्यामल्लोपविकल्पनात् ( सुजम्भ्नी सुजम्भनी) इति भवतः स्त्रियां "ऋन्नेभ्यः'' इति ङीपः "अनो बहुव्रीहेः'' इति निषिद्धत्वात् सुंसीव रूपम् यदा तु ( सूत्रम्) डाबुभाभ्यामन्यरस्याम् (इति सूत्रम्) अन्नन्तात्प्रातिपदिकादनन्ताद्वहुव्रीहेश्च डाबिति डाप्तदा डित्त्वाट्टिलोपे ( सुजम्भा सुजम्भे ) इत्यादि ङीपः प्रतिषेधस्य डापः श्रवणस्य च वचनद्वयप्रामाण्योदेव सिद्धौ अन्यतरस्याग्रहणेन भिन्नेन योगेन ङीपोभ्यनुज्ञानात् (सुजम्भ्नी)इत्याद्यपि भवति अत्र च योगे "अनो बहुव्रीहेः'' इत्येवानुवर्त्तते न तु "मनः'' इति सीमादेः प्रातिपदिकाद् ङीबभावः ( सुजम्भ्नी )इत्यादौ तु अन्न्तन्तबहुब्रीहित्याद्भवत्येव ( सुपर्वा सुशर्मा) इत्यादौ तु "अन उपधालोपिनोन्यतरस्याम्'' इति नियमान्न भवति सिद्धे सत्यारभ्यमाणोयं नियमार्थः यदन्यतरस्यां ङीब्विधानं तदुपधालोपिन एवेति, अत्र ह्यल्लोपो ( सूत्रम्) नसंयोगाद्वमन्तात् (इति सूत्रम्) इति निषिद्ध्यते वमन्तात् संयोगात् भसंज्ञानिमित्ते प्रत्यये परे ऽल्लोपो नेति सूत्रार्थः "जम्भा सुहरिततृण'' इतृयत्र जम्भेति भाविना समासान्तेन निर्देशात्समासार्थं तदुत्तरपदादकृते एव [ अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्यते ] इति स्त्रीलिङ्गता न स्यात् जृम्भते जृम्भितेत्यादि यङ्लुको "रीगृत्त्वतः'' इति वचनाद्रुग्रिग्रीको भवन्ति ( जरीजृभ्यतेजरीजृम्भीति इत्यादिजृम्भयतिअजजृम्भत्) जृभिति विनाशनार्थे चुरादौभाषार्थोयं परस्मैपदिष्वपि इति केचित् 386
कृदन्तरूपमाला
Sanskrit1 {@“जभी गात्रविनामे”@} 2 ‘जृम्भणे जम्भते, याभे जम्भेत्, नाशे तु जम्भयेत्।।’ 3 इति देवः।
4 जम्भकः-म्भिका, जम्भकः-म्भिका, जिजम्भिषकः-षिका, 5 जञ्जभकः-जन्जभकः-भिका
जम्भिता-त्री, जम्भयिता-त्री, जिजम्भिषिता-त्री, जञ्जभिता-त्री
-- जम्भयन्-न्ती, जम्भयिष्यन्-न्ती-ती
-- जम्भमानः, जम्भयमानः, जिजम्भिषमाणः, जञ्जभ्यमानः
जम्भिष्यमाणः, जम्भयिष्यमाणः, जिजम्भिषिष्यमाणः, जञ्जभिष्यमाणः
6 झप्-झब्-जभौ-जभः
-- -- 7 जब्धम्-जब्धः-जब्धवान्, जभितः, जिजम्भिषितः, जञ्जभितः-तवान्
जम्भः, 8 साधुजम्भी, जम्भः, जिजम्भिषुः, जञ्जभः
जम्भितव्यम्, जम्भयितव्यम्, जिजम्भिषितव्यम्, जञ्जभनीयम्
जम्भनीयम्, जम्भनीयम्, जिजम्भिषणीयम्, जञ्जभ्यम्
9 जभ्यम्, जम्भ्यम्, जिजम्भिष्यम्, जञ्जभ्यम्
जभ्यमानः, जम्भ्यमानः, जिजम्भिष्यमाणः, जञ्जभ्यमानः
जम्भः, जम्भः, जिजम्भिषः, जञ्जभः
जम्भितुम्, जम्भयितुम्, जिजम्भिषितुम्, जञ्जभितुम्
10 जब्धिः, जम्भना, जिजम्भिषा, जञ्जभा
11 जम्भनम्, जम्भनम्, जिजम्भिषणम्, जञ्जभनम्
जम्भित्वा, जम्भयित्वा, जिजम्भिषित्वा, जञ्जभित्वा
प्रजभ्य, प्रजम्भ्य, प्रजिजम्भिष्य, प्रजञ्जभ्य
जम्भम् २, जम्भित्वा २, जम्भम् २, जम्भयित्वा २
जिजम्भिषम् २, जिजम्भिषित्वा २, जञ्जभम् २
जञ्जभित्वा २।
01 (५८६)
02 (१-भ्वादिः-३८८। अक। सेट्। आत्म।)
03 (श्लो। १४५)
04 [[१। ‘रधिजभोरचि’ (७-१-६१) इति अजादिप्रत्ययेषु परेषु नुमागमः।]]
05 [[२। ‘लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्’ (३-१-२४) इति भावगर्हायां यङ्। ‘जपजभदहदशभञ्जपशां च’ (७-४-८६) इत्यभ्यासस्य नुगागमः। ‘स च पदान्तवद्वाच्यः’ (वा। ७-४-८५) इति वचनात् पक्षे, ‘वा पदान्तस्य’ (८-४-५९) इति परसवर्णः। यद्यपि यङोऽकारलोपस्य स्थानिवद्भावेनाजादिप्रत्यय- परकत्वात् सर्वत्राजादिप्रत्ययेषु परेषु नुमागमो भवति। तथापि ‘अनिदिताम्--’ (६-४-२४) इति नकारस्य लोपो भवति।]]
06 [[३। क्विपि, ‘एकाचो बशो भष् झषन्तस्य स्ध्वोः’ (८-२-३७) इति भष्भावे चर्त्वविकल्पः।]]
07 [[४। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्णिषेधः। ‘झषस्तथोर्धोऽधः’ (८-२-४०) इति धत्वम्।]]
08 [[५। ‘साधुकारिण्युपसंख्यानम्’ (वा। ३-२-७८) इति णिनिः।]]
09 [[६। ‘पोरदुपधात्’ (३-१-९८) इति यत्प्रत्ययः।]]
10 [पृष्ठम्०५५९+ २५]
11 [[आ। ‘अस्कम्भिताः प्राप्य शिशून् सजम्भनानुज्जृम्भहर्षा लिलिहुः सशल्भनम्।।’ धा। का। १। ५०।]]
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
