| YouTube Channel

जभ (jabha)

 
धातुप्रदीपः
Sanskrit
जभँ जभ
मानकरूपान्तरम् - जृभिँ
जृभि गात्रविनामे
- जम्भते जभ्यम् जम्भा (59) जभितम् जभी इत्येके जभते जब्धम् नुम्विधावुपदेशिवद्वचनमिति त्विदितामेव नुम्विधाविष्यते धातुग्रहणात् अतो गुरोश्च हलः (3/3/103) इत्येतदिह क्रियते-जब्धिः तथा धातुपारायणे रभ राभस्य इत्यस्य क्तिन्नुदाहृतः-रब्धिः जृम्भते जजृम्भे जरीजृभ्यते जृम्भ्यम् विजृम्भणम् जृम्भा विजृम्भितम् ।। 389, 390 ।।
शब्दकल्पद्रुमः
Sanskrit
जभ, जभने इति कविकल्पद्रुमः
(भ्वां-परं-अकं-सेट् ।) जभनं मैथुनम् जभति युवा ।इति दुर्गादासः
जभ, जभने इति कविकल्पद्रुमः
(भ्वां-परं-अकं-सेट् ।) जभनं मैथुनम् इ, जम्भ्यते ।इति दुर्गादासः
जभ, नशि इति कविकल्पद्रुमः
(चुरां-परं-सकं-सेट् ।) नशीति अन्तर्भूतञ्यर्थत्वा-न्नष्टीकरणे क, जम्भयति पापं गङ्गा इतिदुर्गादासः
जभ, जृम्भे गात्रशैथिल्य इति यावत् ।इति कविकल्पद्रुमः
(भ्वां-आत्मं-अकं-सेट् ।)इ, जम्भ्यते ङ, जम्भते प्रत्यूषकाले भुज-गाङ्गनानां मुखेषु कामः प्रतिजृम्भतीव इतिगणकृतानित्यत्वात् इति दुर्गादासः
जभ, जृम्भे इति कविकल्पद्रुमः
(भ्वां-आत्मं-अकं-सेट् ।) जृम्भो गात्रशैथिल्यमितिगोविन्दभट्टः ङ, जम्भते लोकः नुण् जभो-ऽचीत्यस्यैव नुण् आत्मनेपदप्रकरणे सूत्रविधान-सामर्थ्यात् इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
जभ मैथुने
भ्वा०
पर०
सक०
सेट् जभति अजम्भीत् ।जजम्भ जजम्भतुः जजभतुः जभितः मैथुनञ्च मैथुनेनघर्षणम् ता इमा जभितुं पापा उपक्रामन्ति मां प्रभो!”भाग० २० २७ “जभितुं मैथुनेन घर्षयितुम्” श्रीधरः
जभ मैथुने
भ्वा०
पर०
अक० सेट् इदित् जम्भतिधातूनामनेकार्थत्वात् भक्षणेऽपि “श्वा न्वस्य जम्भिषदपि”ऋ० १० ८६ “जम्भिषत् भक्षयतु” भा०
जभ जृम्भे चुरा०
उभ०
सक०
इदित् जम्भयति ते अज-जम्भत् “जम्भयतमभितो रायतः शुनी” ऋ० १८२ ४“हनु वृकस्य जम्भया” अथ० १९ ४७
जभ जृम्भे आ०
भ्वा०
आत्म० सेट् जभते अजम्भिष्ट जजम्भे जेभे
क्षीरतरङ्गिणी
Sanskrit
जभँ जभ
मानकरूपान्तरम् - जृभिँ
जृभि गात्रविनामे
- जभते, जृम्भते जभितः, जृम्भितः जृम्भः रधिजभोरचि (7161) इति नुम् जम्भकः, जम्भनम्, जम्भः लुपसदचर (3124) इति भावगर्हायां यङ् जपजभदहदश (7486) इति नुक्-जञ्जभ्यते 380, 381