| YouTube Channel

जपित्वा (japitvA)

 
शब्दसागरः
English
जपित्वा ind. Having repeated inaudibly.
E.
जप्, and क्त्वा affix, इट् inserted.
Wilson
English
जपित्वा ind. Having repeated inaudibly.
E.
जप, and क्त्वा affix, इट inserted.
Monier Williams 1872
English
जपित्वा, ind. having muttered or repeated in a
low tone.
Kridanta Forms
Sanskrit
जप् (ज꣡पँ꣡ व्यक्तायां वाचि जपँ मानसे - भ्वादिः - सेट्)
ल्युट् = जपनम्
अनीयर् = जपनीयः - जपनीया
ण्वुल् = जापकः - जापिका
तुमुँन् = जपितुम्
तव्य = जपितव्यः - जपितव्या
तृच् = जपिता - जपित्री
क्त्वा = जपित्वा
ल्यप् = प्रजप्य
क्तवतुँ = जपितवान् - जपितवती
क्त = जपितः - जपिता
शतृँ = जपन् - जपन्ती
कृदन्तरूपमाला
Sanskrit
1 {@“जप व्यक्तायां वाचि”@} 2 ‘जप मानसे च’ मनोनिर्वर्त्ये वचने--इत्यर्थः।
जापकः-पिका, जापकः-पिका, जिजपिषकः-षिका, 3 जञ्जपकः-जन्जपकः-पिका
जपिता-त्री, जापयिता-त्री, जिजपिषिता-त्री, जञ्जपिता-जन्जपिता-त्री
4 जपन्-न्ती, 5 व्यतिजपन्-न्ती, जापयन्-न्ती, जिजपिषन्-न्ती
-- जपिष्यन्-न्ती-ती, जापयिष्यन्-न्ती-ती, जिजपिषिष्यन्-न्ती-ती
-- -- जापयमानः, -- जञ्जप्यमानः-जन्जप्यमानः
-- जापयिष्यमाणः, -- जञ्जपिष्यमाणः-जन्जपिष्यमाणः
जप्-जब्-जपौ-जपः
-- -- -- जपितम्-तः, 6 जप्तम्, जापितः, जिजपिषितः, जञ्जपितः-जन्जपितः-तवान्
जपः, 7 कर्णेजपः, 8 जापः, जिजपिषुः, जञ्जपः-जन्जपः, 9 जञ्जपूकः
10 11 जपितव्यम्, जापयितव्यम्, जिजपिंषितव्यम्, जञ्जपितव्यम्-जन्जपितव्यम्
जपनीयम्, जापनीयम्, जिजपिषणीयम्, जञ्जपनीयम्-जन्जपनीयम्
12 जप्यम्, 13 जाप्यम्, जिजपिष्यम्, जञ्जप्यम्-जन्जप्यम्
ईषज्जपः-दुर्जपः-सुजपः
-- -- -- जप्यमानः, जाप्यमानः, जिजपिष्यमाणः, जञ्जप्यमानः-जन्जप्यमानः
14 जपः, 15 उपजापः, जापः, जिजपिषुः, जञ्जपः-जन्जपः
जपितुम्, जापयितुम्, जिजपिषितुम्, जञ्जपितुम्-जन्जपितुम्
जप्तिः, जापना, जिजपिषा, जञ्जपा-जन्जपा
जपनम्, जापनम्, जिजपिषणम्, जञ्जपनम्-जन्जपनम्
जपित्वा, जापयित्वा, जिजपिषित्वा, जञ्जपित्वा-जन्जपित्वा
सञ्जप्य, प्रजाप्य, प्रजिजपिष्य, प्रजञ्जप्य-प्रजन्जप्य
जापम् २, जपित्वा २, जापम् २, जापयित्वा, जिजपिषम् २, जिजपिषित्वा २, जञ्जपम् २-जन्जपम्
जञ्जपित्वा २-जन्जपित्वा २।
प्रासङ्गिक्यः
01
=>
(५८४)
02
=>
(१-भ्वादिः-३९७। सक। सेट्। पर।)
03
=>
[[१। ‘लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्’ (३-१-२४) इति सूत्रेण गर्हितं जपतीत्यर्थे यङ्। द्विर्वचनम्, अभ्यासस्य, ‘जपजभदहदशभञ्जपशां च, (७-४-८६) इत्यनेन नुगागमे, तस्य ‘पदान्तवद्वाच्यः, (वा। ७-४-८५) इति पदान्तवद्भावेन ‘वा पदान्तस्य’ (८-४-५९) इति पाक्षिके परसवर्णे रूपद्वयम्। एवं यङन्ते सर्वत्र रूपद्वयं ज्ञेयम्।]]
04
=>
[[आ। ‘आ तिष्ठद्गु जपन् सन्ध्यां प्रकान्तामायतीगवम्।’ भ। का। ४। १४।]]
05
=>
[[२। ‘प्रतिषेधे हसादीनामुपसंख्यानम्’ (वा। १-३-१५) इति वचनात् कर्मव्यतीहारेऽपि शानच्।]]
06
=>
[[३। ‘सेटोऽप्यस्य धातोः क्वचिदिडभावेनापि प्रयोगो दृश्यते। तस्य साधुत्वकल्पनाय ‘आदितश्च’ (७-२-१६) इति सूत्रे, काशिकायां ‘चकारोऽनुक्तसमुच्चयार्थः। आश्वस्तः। वान्तः।’ इत्युदाहरणं दत्तम्।’ तदिहानुसन्धेयम्। ‘वमजप्- व्याश्वसो निष्ठाया इड् वा’ इति केचित् जपितः जप्तः, इति प्रक्रियाकौमुदी।]]
07
=>
[[४। ‘स्तम्बकर्णयो रमिजपोः’ (३-२-१३) इति सुबन्ते उपपदे अच्प्रत्ययः। ‘तत्पुरुषे कृति बहुलम्’ (६-३-१४) इति सप्तम्या अलुक्। ‘हस्तिसूचकयोरिति वक्तव्यम्’ (वा। ३-२-१३) इति वचनात् कर्णेजपः इति सूचके एव साधुः।]]
08
=>
[[B। ‘कर्णेजपैराहितराज्यलोमा स्त्रैणेन नीता विकृतिं लघिम्ना।’ भ। का। ३। ७।]]
09
=>
[[५। ‘यजजपदशां यङः’ (३-२-१६६) इति तच्छीलादिषु कर्तृषु यङन्तादूकप्रत्यये, ‘यस्य हलः’ (६-४-४९) इति यकारलोपे, अभ्यासस्य नुगागमे रूपम्।]]
10
=>
[[C। ‘जन्मधामनि निजे नियमस्थं जञ्जपूकमभिसृत्य जघान।।’ यादवाभ्युदये २१। ४०।]]
11
=>
[पृष्ठम्०५५७+ २५]
12
=>
[[१। ‘पोरदुपधात्’ (३-१-९८) इति यत्। ण्यदपवादः।]]
13
=>
[[आ। ‘मत्वा सहिष्णूनपरोपजप्यान् स्वकानधिष्ठाय जलान्तदुर्गान्।’ भ। का। १२। ३२।]]
14
=>
[[२। ‘व्यधजपोरनुपसर्गे’ (३-३-६१) इति भावे, अप्प्रत्ययः। उपसृष्टात्तु घञेव। उपजापः।]]
15
=>
[[B। ‘गोपायतां धर्ममधूपितात्मनां जल्पान् विमुच्याभवदुद्यमो जपे।।’ धा। का। १। ५१।]]