| YouTube Channel

जपस्थान (japasthAna)

 
Shabdartha Kaustubha
Kannada
जपस्थान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಜಪಕ್ಕೆ ಯೋಗ್ಯವಾದ ಸ್ಥಳ
वाचस्पत्यम्
Sanskrit
जपस्थान
न०
त० नानातन्त्रोक्ते जपसाधनस्थानभेदे ।तानि नामातन्त्रोक्तानि प्रदर्श्यन्ते ।“सारदायां द्वितीयपले “पुण्यक्षेत्रं नदीतीरं गुहापर्वतमस्तकम् तीर्थप्रदेशाः सिन्धूनां सङ्गमः पावनंसरः उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः ।देवाद्यायतनं कूलं समुद्रस्य निजं गृहम् साधनेष् प्रश-स्यन्ते स्थानान्येतानि मन्त्रिणाम् नदीतीरं पुण्यनदीतीरंसामान्यनदीतीरस्य निषिद्धत्वात् विविक्तानि विजनानि राघवभट्टधृतम् “प्रत्यङ्मुखशिवस्थाने वृषभादिवि-वर्ज्जिते अश्वत्थविल्वतुलसीवपुष्पान्तरावृते गवांगोष्ठेऽश्वत्थमूले पुण्यक्षेत्रेषु शस्यते” गोष्ठ इत्यनेनैव गी-स्थाने लब्धे गवामिति यदुक्तं तत्तात्कालिकगोसम्बन्ध-ज्ञापनाय तेन गोसमीपे जपादिकर्म्मप्रशस्तमतएव गवांसमीप इत्युक्तम् वायवीयसंहितायाम् “सूर्य्य-स्याग्रे गुरोरिन्दोर्दीपस्य जलस्य विप्राणाञ्चगवाञ्चैव सन्निधौ शस्यते जपः अथ वा प्रजपेत्तत्रयत्र चित्तं प्रसीदति” मुण्डमालातन्त्रे तृतीयपटले च“नदीतीरे विल्वमूले श्मशाने शून्यवेश्मनि एकलिङ्गेपर्वते वा देवागारे चतुष्पथे शवस्योपरिमुण्डे वा जलेवाऽऽकण्ठपूरिते संग्रामभूभौ योनौ वा स्थाने वा विजनेवने यत्र कुत्र स्थले रम्ये यत्र वा स्यान्मनोलयः” वृह-न्नीलतन्त्रे द्वितीयपटले “एकलिङ्गे श्मशाने वा शून्या-गारे चतुष्पथे हर्म्ये वा साधयेद्देवीं सर्वाभीष्टप्रदा-यिनीम्” “पञ्चक्रोशान्तरे यत्र लिङ्गान्तरमो-क्ष्यते तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा” इतिश्यामारहस्यधृतेनैकलिङ्गं ज्ञातव्यम् तथा “उज्जष्टेपर्वते वापि निर्जने वा चतुष्पथे देवागारे देवशून्येविल्वमूले नदीतटे स्वगृहे निर्जनेऽरण्ये तथा चाश्वत्थ-सन्निधौ” इत्यपि श्यमारहस्ये नित्यातन्त्रे प्रथमपटलेच “एकलिङ्गे श्मशाने वा शून्यागारे नदीतटे पाताल-भवने वापि गिरौ वा दीर्थिकातटे शक्तिक्षेत्रे महा-पीठे विल्वमूले शिवालये धात्रीवृक्षतलेऽश्वत्थमूले चैवतरोस्तले” पातालभवने भूमिमध्ये समयाचार-तन्त्रे द्वितीयपटलेऽपि “जपस्थानाभि देवेशि! सिद्धपी-ठानि यानि सिद्धपीठे शय्यायां स्वट्टा शय्याविशेषतः चतुष्पथे सिद्धलिङ्गे गुरुदेवालये तथा ।वटाश्वत्थविल्वमूले रम्भाया विपिने तथा नदीतीरेशिवागारे पुहापर्वतमस्तके जपस्थानानि देवेशि!कथितानि नगात्मजे! शृणु देवि! विशेषेण उत्त-राम्नायहेतवे! वेश्याभृहे श्मशाने वा गत्वा मैथुन-माचरेत् ततो जपादिकं देवि! कृत्वा लभतेफलम् अथ वा स्वगृहे रात्रौ भक्तिमान् सुसमाचरेत् ।स प्राप्नोति फलं सर्वं चित्तादिभयवर्जितः” पुरश्चरण-रसोल्लासतन्त्रे चतुर्थपटले “गोष्ठं चतुष्पथञ्चैव त्रिपथञ्चवरानने! निर्जतञ्च तथारण्यं शून्यगेहं तथैव ।पर्बतञ्च नदीतीरं तथैव दीर्घिकातटम् अश्वत्थवृक्षमूले चवटवृक्षतले तथा धात्रीवृक्षतले देवि! तथैव बकुलस्यच यत्र पद्मवनं भद्रे! शुक्लं रक्तं वरानने! द्रोण-पुष्पस्य चार्वङ्गि! यदि भाग्येन लभ्यते अरुणादित्य-सङ्काशं जपकालं परात् परम्” फलविशेषस्तु राघवभट्टे-नोक्तो यथा “गृहे जपः समः प्रोक्तो गोष्ठे शतगुणस्तुसः आरामे तथारण्ये सहस्नगुण उच्यते अयुतःपर्वते पुण्ये नद्यां लक्षगुणस्तु सः कोटिर्देवालये प्राहु-रनन्तं शिवसन्निधौ” तत्र सिद्धपीठानि कुब्जिकातन्त्रे७म पटले “शिव उवाच श्रूयतां सावधानेन सिद्ध-पीठं पतिव्रते! यस्मिन् साधनमात्रेण सर्वसिद्धीश्वरोभवेत् मायावती मधुपुरी काशी गोरक्षकारिणी ।हिङ्गुला महापीठं तथा जालन्धरं पुनः ज्वाला-मुखीमहापीठं पीठं नगरसम्भवम् रामगिरिर्महा-पीठं तथा गोदावरी प्रिये! नेपालं कर्णसूत्रञ्चमहाकर्णं तथा प्रिये! अयोध्याञ्च कुरुक्षेत्रं सिंहनादंमनोरमम् मणिपूरं हृषीकेशं प्रयागञ्च तपोवनम् ।वदरीञ्च महापीठं अम्बिकामर्द्धनालकम् त्रिवेणींच महापीठं गङ्गासागरसङ्गमम् नारिकेलञ्च विरजाउड्डीयानं महेश्वरि! कमला विमला चैव तथामाहेष्मती पुरी वाराही त्रिपुरा चैव वाङ्मती नील-वाहिनी गोवर्द्धनं विन्ध्यगिरिः कामरूपं कलौयुगे घण्टाकर्णोऽक्षयग्रीवो माधवश्च सुरेश्वरि! ।क्षीरग्रामं वैद्यनाथं जानीयाद्वामलोचने! कामरूपंमहापीठं सर्वकामफलप्रदम् कलौ शीघ्रफलो देवि!कामरूपे जपः स्मृतः” अन्यत्र जपेऽपि कामाख्यावस्त्र-योगेन फलमुक्तं तत्रैव “कामाख्यावस्त्रमादाय जप-पूजाः समाचरेत् पूर्णकामं लभेद्देवि! सत्यं सत्यं नसंशयः” तन्त्रचूडामणौ महापीठान्युक्तानि यथा ।“ईश्वर उवाच मातः! परात्परे! देवि! सर्वज्ञानमयी-श्वरि! कथ्यतां मे सर्वपीठं शक्तीर्मैरवदेवताः” देव्यु-वाच “शृणु वत्स! प्रवक्ष्यामि दयालो! भक्तवत्सल! ।यानिर्विना सिद्ध्यन्ति जपसाधनतत्क्रियाः एकपञ्चा-शतं पीठं शक्तीर्भैरवदेवताः अङ्गप्रत्यङ्गपातेन विष्णु-चक्रक्षतेन ममास्य वपुषो देव! हिताय त्वयिकथ्यते व्रह्मरन्ध्रं हिङ्गुलायां भैरवो भीमलोचनः ।कोट्टरीशा महादेव! त्रिगुणा सा दिगम्बरी करवीरेत्रिनेत्रं मे देवी महिषमर्द्दिनी क्रोधीशो भैरवस्तत्र३ सुगन्धायाञ्च नासिका देवस्त्र्यम्बकनामा सुनन्दातत्र देवता काश्मीरे कण्टदेशश्च त्रिसन्ध्येश्वरभैरवः ।महामाया भगवती गुणातीता वरप्रदा ज्वालामुख्यांमहाजिह्वा देव उन्मत्तभैरवः अम्बिका सिन्निदानाम्नीस्त्रनं जालान्धरे मम भीषणो भैरवस्तत्व देवीत्रिपुरमालिनी हृद्यपीठं वैद्यनाथे वैद्यनाथस्तु भैरवः ।देवता जयदुर्गाख्या नेपाले जानु मे शिव कपालीमैरवः श्रीमान् महामाया देवता मालवे दक्षहस्तंमे देवी दाक्षायणी हर! अमरो भैरवस्तत्र सर्वसिद्धिप्रदायकः १० उत्कले नाभिदेशन्तु विरजाक्षेत्रमुच्यते ।विमला सा महादेवी जगन्नाथस्तु भैरवः ११ गण्डक्यांगण्डपातश्च तत्र सिद्धिर्न संशयः तत्र सा गण्डकीचण्डी चक्रपाणिस्तु भैरवः १२ बहुलायां वामबाहु-र्बहुलाख्या देवता भीरुको भैरवस्तत्र सर्वसिद्धिप्रदा-यक १३ उज्जयिन्यां कूर्परञ्च माङ्गल्यः कपिलाम्बरः ।भैरवः सिद्धिदःसाक्षाद्देवी मङ्गलचण्डिका १४ चट्टलेदक्षवाहुर्मे भैरबश्चन्द्रशेखरः व्यक्तरूपा भगवती भवानीतत्र देवता विशेषतः कलियुगे वसामि चन्द्रशेखरे ।१५ त्रिपुरायां दक्षपादी देवी त्रिपुरसुन्दरी भैरवस्त्रिपुरे-शश्च सर्वाभीष्टप्रदायकः १६ तिस्रोतायां वामपादो भ्रामरीभैरवेश्वरः योनिपीठं कामगिरौ १७ कामाख्या तत्रदेवता यत्रास्ते त्रिगुणातीता रक्तपाषाणरूपिणी ।यत्रास्ते माधवः साक्षादुमानन्दोऽथ भैरवः सर्वदाविहरेद्देवी तत्र मुक्तिर्न संशयः तत्र श्रीभैरवी देवीतत्र क्षेत्रदेवता प्रचण्डचण्डिका तत्र मातङ्गी त्रि-पुरात्मिका वगला कमला तत्र भुवनेशी सधूमिनी ।एतानि नव पीठानि शंसन्ति बरभैरवाः अङ्गुलीवृन्दंहस्तस्य १८ प्रयागे ललिता भवः १९ जयन्त्यां वामजङ्घा चजयन्ती क्रमदीश्वरः सर्वत्र बिरला चाहं कामरूपे गृहेगृहे २० गौरीशिखरमारुह पुनर्जन्म विद्यते भूत-धात्री महामाया भैरवः क्षीरकण्ठकः युगाद्या सा म-हामाया दक्षाङ्गुष्ठपदो मम नकुलीशः कालीपीठेदक्षपादाङ्गुली मम करतोयां समारभ्य यावद्दिक्कर-वासिनी शतयोजनविस्तारं त्रिकोणं सर्वसिद्धिदम् ।देवा मरणमिच्छन्ति किं पुनर्मानवादयः भुवनेशीसिद्धिरूपा किरीटस्था २१ किरीटतः देवता विमला-नाम्नी संवर्त्तो मैरवस्तथा २२ वाराणस्यां विशालाक्षीदेवता कालभैरवः मणिकर्णीति विख्याता कुण्ड-लञ्च मम श्रुतेः २३ काल्याश्रमे पृष्ठं मेऽनिमेषोभैरवस्तथा सर्वाणि देवता तत्र, २४ कुरुक्षेत्रे चपुल्फतः स्थाणुनाम्नी सावित्री अश्वमाथस्तुप्रैरवः २५ मणिबन्धे गायत्री सर्वानन्दस्तु भैरवः ।२६ श्रीशैले मम ग्रीवा महालक्ष्मीस्तु देवता भैरवःशम्बरानन्दो देशे देशे व्यवस्थितः २७ काञ्चीदेशे चकङ्कालो भैरवो रुरुनामकः देवता देवगर्भाख्यानितम्बः २८ कालमाधवे भैरवश्रासिताङ्गश्च देवी कालीसुसिद्धिदा दृष्ट्वा दृष्ट्वा नमस्कृत्य मन्त्रसिद्धिमवाप्नु-यात् २९ शोणाख्ये भद्रमेनस्तु नर्म्मदाख्या नित-म्बके ३० रामगिरौ तथा नासा शिवानी चण्ड-भैरवः ३१ वृन्दावने केशजालमुमानाम्नी देवता ।भूतेशो भैरवस्तत्र सर्वसिद्ध्विप्रदायकः संहाराख्य ऊर्द्ध्व-दन्ते देवी नारायणी ३२ शुचौ अधोदन्ते महारुद्रोवाराही ३३ पञ्चसागरे ३४ करतोयातटे तल्पं वामेवामनभैरवः अपर्णा देवता तत्र व्रह्मरूपाकरोद्भवा ।३५ श्रीपर्वते दक्षगुल्फं तत्र श्रीसुन्दरी परा सर्वसिद्धी-श्वरी सर्व्वा सुनन्दा ऽऽनन्दभैरवः ३६ कपालिनी भीम-रूपा वामगुल्फविभागके भैरवश्च महादेवः सर्व्वानन्द-शुभप्रदः उदरञ्च ३७ प्रभासे मे चन्द्रभागा यशस्विनी ।वक्रतुण्डो भैरवश्चोर्द्धौष्ठे मैरवपर्वते ३८ अवन्त्याञ्चमहादेवी लम्बकर्णस्तु भैरवः ३९ चित्रके भ्रामरी देवीकिकुभाख्यजले स्थले भैरवः सर्वसिद्धीशस्तत्र सिद्धि-रनुत्तमा ४० गण्डो गोदावरीतीरे विश्वेशी बिश्वमा-तृका दण्डपाणिर्भैरवस्तु ४१ वामे गण्डे तु राकिणी ।भैरवोवत्सनाभस्तु तत्र सिद्धिर्न संशयः ४२ रत्नावल्यांदक्षस्कन्धे कुमारी भैरवः शिवः ४३ मिथिलायांमहादेवी वामस्कन्धे महोदरः ४४ नलाहाट्यांनलापातो योगीशो भैरवस्तथा तत्र सा कालिका देवीसर्व्वसिद्धिप्रदायिका ४५ कालीघट्टे मुण्डपातःक्रोधीशो भैरवस्तथा देवता जयदुर्गाख्या नानाभोग-प्रदायिनी ४६ वक्रेश्वरे मनःपातो वक्रनाथस्तुभैरवः नदी पापहरा तत्र देवी महिषमर्द्दिनी ।४७ यशोरे पाणिपद्मञ्च देवता यशोरेश्वरी चण्डश्चभैरवस्तत्र यत्र सिद्धिमवाप्नुयात् ४८ अट्टहासे चौष्ठपातोदेवी सा फुल्लरा स्मृता विश्वेशो मैरवस्तत्र सर्व्वाभीष्ट-प्रदायकः हारपातो ४९ नन्दिपुरे भैरवो नन्दि-केश्वरः नन्दिनी सा महादेवी तत्र सिद्धिर्न सशयः ।५०लङ्कायां कर्परञ्चैव भैरवो राक्षसेश्वरः इन्द्राक्षीदेवता तत्र इन्द्रेणोपासिता पुरा ५१ विराटदेशमध्येतु पादाङ्गुलिनिपातनम् भैरवश्चामृताख्यश्च देवीतत्राम्बिका स्मृता एतास्ताः कथिताः पुत्त्र! पीठना-थाधिदेवताः क्षेत्राधीश विना देव! पूजयेच्चान्यदेवताम् ।भैरवैर्ह्रियते सर्व्वं जपपूजादिसाधनम् अज्ञात्वा भैरवंपीठं पीठशक्तिञ्च शङ्कर! प्राणनाथ! सिध्येत्तुकल्पकोटिजपादिभिः देयं परशिष्येभ्यो निन्दकायदुरात्मने शठाय क्रूरकार्य्याय दत्त्वा मृत्युमवाप्नुयात् ।दद्यात् शान्ताय शिष्याय मन्त्री मन्त्रार्थसिद्धये” महा-नीलतन्त्रे पञ्चमपटले “पीठार्च्चनं महादेवि! तत्र सिद्धि-रनुत्तपा पीठानां परमं पीठं कामरूपं महाफलम् ।तत्र या क्रियते पूजा सकृद्वापि महेश्वरि! विहायसर्वपीठानि तस्य देहे वसाम्यहम् तस्माच्छतगुण प्रोक्तंकामाख्यायोनिमण्डलम् तेषां फलं महेशानि!वक्तुं किं शक्यते मया तत्र कोटिगुणैः सार्द्धमाद्यावसति तारिणी यत् पीठं व्रह्मणा गुप्तं वक्तुं सर्व-सुखावहम् यतो देवाश्च वेदाश्च मुनयश्चैव भावजाः ।सर्वेऽप्याविर्भवन्त्येते तेन गुप्तं सदा कुरु द्विविधञ्चैवयत् पीठं गोप्तव्यं तन्महेश्वरि! गुप्ताद्गुप्तं महापुण्यंदुरापं साधकाधमैः व्यक्तं सर्व्वत्र देवेशि! लभ्यते कुल-सुन्दरि! पीठप्रसङ्गाद्देवेशि पीठानि शृणु भैरवि! ।शृणु तानि महाप्राज्ञे! श्रेष्ठस्थानापि यानि ।सिद्धिप्रदानि साधूनां महद्भिः सेवितानि पुष्करञ्चगयाक्षेत्रम् अक्षयाख्यवटस्तथा वराहपर्व्वतश्चैवतीर्थञ्चामरकण्टकम् नर्म्मदा यमुना पिङ्गी गङ्गाद्वारतथा प्रिये गङ्गासागरसङ्गश्च कुशावर्त्तश्च विल्वकम्श्रीनीलपर्वतश्चैव कलम्बकुब्जके तथा भृगुतुङ्गञ्चकेदारं सर्वप्रियमहावनम् ललिता सुगन्धा चशाकम्भरी सुरप्रियम् कण्वतीर्थं महागङ्गा तण्डुलिका-श्रमएव कुमाराख्यप्रभासौ तथा धन्या सरस्वती ।अगस्त्याश्रममिष्टं मे कण्वाश्रममतःपरम् कौशिकी-सरयूःशोणो ज्योतिःसरःपुरःसरम् कालोदकं प्रियंश्रीमत् प्रियसुत्तरमानसम् मतङ्गवापी सप्तार्च्चिर्महा-विष्णुपदं महत् वैद्यनाथं महातीर्थं प्रियःकाला-ञ्जरोगिरिः रामोच्छेदं गर्गोच्छेदं हरोच्छेदं महा-वनम् भद्रेश्वरं महातीर्थं लक्ष्मणच्छेदमेव ।जानीहि प्रियश्रेष्ठा कावेरी कपिलीदका सोमेश्वरंशुक्लतीर्थं कृष्णवेन्नाप्रभेदकम् पाटला महावोधि-र्नगतीर्थं मदन्तिके पुण्यं रामेश्वरं देवि! तथा मेघवनंहरेः ऐलं वनफलञ्चैव गोवर्द्धनमजप्रियम् हरि-श्चन्द्रं पुरश्चन्द्रं पृथूदकमपि प्रियम् इन्द्रनीलं महानादंतथैव प्रियमैनकम् पञ्चाप्सरं पञ्चवटी वटीपर्वटिकातथा गङ्गाविल्वप्रसङ्गश्च प्रियनादवटं तथा गङ्गा-रामाचलञ्चैव तथैव ऋणमोचनम् गौतमेश्वरतीर्थञ्चवशिष्ठतीर्थमेव हारीतञ्च तथा देवि! ब्रह्मावर्त्तंशिवप्रियम् कुशावर्त्तमभिश्रेष्ठं हंसतीर्थं तथैव ।पिण्डारकवनं ख्यातं हरिद्वारं तथैव तथैववदरीतीर्थं रामतीर्थं तथैव जयन्ती विजयन्तञ्चसर्वकल्याणदं प्रिये! विजया सारदातीर्थं भद्रकालेश्वरंतथा अश्वतीथं सुविख्यातं तथा देवशिवप्रियम् ।ओघवती नदी चैव तीर्थमश्वप्रदं तथा छागलिङ्गं मातृ-गणं करवीरपुरं तथा सप्तगीदावरं तीर्थं लिङ्गाख्यंसर्व्वमोहनम् किरीटमुत्तरे तीर्थं दक्षिणे तीर्थमुत्त-मम् विशालतीर्थं काल्याश्च वनं वृन्दावनं तथा ।ज्वालामुखा हिङ्गुला महातीर्थं गणेश्वरम् जानीहिसर्वतीर्थानां हेतुस्थानानि सुन्दरि! अत्र सन्निहितानित्यं सर्वे देवा महर्षयः पितरो योगिनश्चैव ये येसिद्धिपरायणाः आशु सिद्व्यन्ति कर्म्माणि श्रद्धाभक्ति-मतां प्रिये! पुण्यकाले पठेत् यस्तु तत्पुण्यमक्षयं भवेत् ।श्राद्धकाले पठेत् यस्तु जुहुयाद्वापि भक्तितः अक्षयंतद्भवेत् कव्यं पितॄणां परमं सुखम् तस्मिन् स्थानेपठेद् यस्तु सिद्धिर्भवति तत्जणात् अथ वक्ष्ये महे-शानि! यत्र या देवता शृचु यत्र ते यानि नामानिकथयिप्यामि तत् शृणु रग्नोऽहं परमानन्दे तत्कथामृतवारिधौ! पुष्करे कमलाक्षी गयायाञ्चगयेश्वरी अक्षया अक्षयवटेऽमरेशोऽमरकण्टके वराह-पर्वते त्वं वाराही धरणीप्रिया नर्म्मदा नर्म्म-दायाञ्च कालिन्दी यमुनाजले शिवामृता गङ्गायांअश्वा देहलिकाश्रमे शारदा सरयूतीरे शोणे कन-केश्वरी अप्रकाशा सदा देवी ज्योतिर्म्मय्यब्धिसङ्गमे ।श्रीरहं श्रीगिरौ चैव काली कालोदके तथा महोदरीमहातीर्थे नीला चोत्तरमानसे मातङ्गिनी मतङ्गे चगुप्तार्च्चिर्विष्णुपादुके स्वर्गदा स्वर्गमार्गे गोदावर्य्यांगवेश्वरी विमुक्तिश्चैव गोमत्यां विपाशायां महाबला ।शतद्र्वां शतरूपा चन्द्रभागा तत्र वै ऐरावत्याञ्चईर्नाम सिद्धिदा सिद्धतीरके दक्षपञ्चनदे चैव दक्षिणाहंप्रकीर्त्तिता औजमे वीर्य्यदा त्वं सङ्गमा तीथसङ्गमे ।बाहुदायामनन्ताहं कुरुक्षेत्रे रणेक्षणा तपस्विनीपुण्यतमा भारती भारताश्रमे सुकथा नैमिषारण्येपाण्डौ पाण्डुरानना विशालायां विशालाक्षीमुण्डपृष्ठे शिवात्मिका श्रद्धा कनखले तीर्थे शुद्धबुद्धि-र्मुनीश्वरी सुवेशा सुमना गौरी मानसे सरोवरे ।नन्दापुरे महानन्दा ललिता ललितापुरे ब्रह्माणीब्रह्मशिरसि महापातकनाशिनी पूर्णिमा चेन्दुमत्याञ्चसिद्धमतिप्रिया सदा जाह्नवीसङ्गमे वृत्तिः स्वधा श्चपितृतुष्टिदा पुण्याहं बाहुदायाञ्च प्रपायां पापना-शिनी शत्रुसंहारिणी चैव घोररूपा महोदरी ।स्वर्गोच्छेदे महावारिप्रबला महावने भद्रा भद्र-काली भद्रेश्वरी शिवप्रिय! भद्रेश्वरेश्वरमा विष्णुप्रिया विष्णुपदे तथा दारुणा नर्म्मदाच्छेदे कावेर्य्यांकपिलेश्वरी भेदिनी कृष्णवेन्नायां संभेदे शुभवासिनी ।श्रद्धा शुक्रतीर्थे प्रभासे चेश्वरी तथा महाबोधौमहाबुद्धिः पाटले पाटलेश्वरी सुवला नागतीर्थे चनागेशी नागनन्दिता मदन्तौ मदन्ती प्रमदा चमदन्तिका मेघस्वना मेघवासे विद्युत्सौदामनीच्छदा ।रामेश्वरे महाबुद्धिर्वीरा चेलापुरे सती प्रिया चभार्गवे दुर्गा सुवेशा सुरसुन्दरी कात्यायनी महादेवीगोवर्द्धनेऽखिलात्मिका शुभेश्वरी हरिश्चन्द्रे पुरचन्द्रेपुरेश्वरी पृथूदके महावेगा मैनाकेऽखिलबर्द्धिनी इन्द्र-नीले महाकान्ता रत्नवेशा सुशोभना माहेश्वरी महा-नादे महातेजा महावने प्रत्यकसरसि सारङ्गा पञ्च-वट्यां तपस्विनी वटीशा वटिकायाञ्च सर्ववर्णा सुर-ङ्गिणी सङ्गमे बिन्ध्यगङ्गायां विन्ध्यं श्रीविन्ध्यवा-सिनी महानन्दा नन्दतटे गङ्गारामाचले शिवा आ-र्य्यावर्त्ते महार्य्या त्वं विमुक्तिरृणमोचने अट्टहासे चचामुण्डा तन्त्रे श्रीगौतमेश्वरी वेदमयी ब्रह्मविद्यावाशिष्ठे त्वमरुन्धनी हरिते हरिणाक्षी व्रह्मावर्त्तेव्रजेश्वरी गायत्री चैव सावित्री कुशावर्त्ते कुशप्रिया ।हंसेश्वरी महातीर्थे परहंसेश्वरेश्वरी पिण्डारकवनेधन्या सुरसा सुखदायिनी नारायणी वैष्णर्वा चगङ्गाद्वारे विमुक्तिदा श्रीविद्या वदरीतीर्थे रामतीर्थेमहाधृतिः जयन्ती जयन्तेत्वं विजयन्तेऽपराजिता ।विजया महाशुद्धिः शारदायाञ्च शारदा सुभद्रेभद्रदा भव्या भद्रकालेश्वरे तथा महाभद्रा महाकालीहयतीर्थे गवीश्वरी वेददा वेदमाता विदेहे वेद-मस्तके युवत्याञ्च महाविद्या महानद्यां महोदया ।चण्डा त्रिपदे चैव छागलिङ्गे बलिप्रिया मातु-र्देशे जगन्माता करवीरपुरे सती नलिनीरङ्गिणी रामापरमा परमेश्वरी सप्तगोदावरे तीर्थे देवर्षिरखिलेश्वरी ।अयोध्यायां भवानी जयदा जयमङ्गला माधवीमथुरायाञ्च देवकी यादवेश्वरी वृन्दागोपेश्वरी राधा-रासवृन्दावने रमा कात्यायनी महामाया भद्रकालीकलावती चन्द्रमाला महायोगी महायोगिन्यधीश्वरीव्रजेश्वरी यशोदेति व्रजे श्रीगोकुलेश्वरी काञ्च्यां कनक-काञ्ची स्यादवन्त्यामभिपावनी विद्या विद्यापुरे चैवविमला नीलपर्वते रामेश्वरी सेतुबन्धे विमला पुरुषो-त्तमे विरजा यागपुर्य्याञ्च भद्रेऽपि भद्रकर्णिका ।तमोलिप्ते तमोघ्नी स्वाहा सागरसङ्गमे कुलश्रीर्वंश-वृद्धिश्च माधवी माधवप्रिया मङ्गले! मङ्गले कोटे राढेमङ्गलचण्डिका ज्वालामुखी शिवापीठे मन्दरे भुवने-श्वरी कालीघट्टे गुह्यकाली किरीटे महेश्वरी ।किरीटेश्वरी महादेवी लिङ्गाख्ये लिङ्गवाहिनी साक्षीसर्वत्र भक्तानामभक्ताना कुतोऽपि अथान्यत् सम्प्र-वक्ष्यामि सिद्धस्थानानि सुन्दरि! सर्वपापविनाशार्थंसर्वसिद्धिप्रदं नृणाम् निर्म्मितानि शिवेनेह सिद्ध-स्थानानि यानि श्रुत्वा मनसि भव्यानि प्रकाश्या-त्यधिकारिषु अमरेशमहापीटे कुषतुङ्गारसंज्ञकः ।तत्र दुर्गाद्वयं नाम चण्डिका महेश्वरी प्रभासेसोमनाथोऽसौ देवी पुष्करेक्षणा देवदेवाधिपःशम्भुर्नैमिषे महेश्वरः तत्र प्रज्ञा देवी चशिवानी लिङ्गधारिणी पुष्करे राजगन्धिः पुर-हूता महेश्वरी श्रीपर्वते श्रिया नाम शङ्करस्त्रिपुरा-न्तकः मायावी शङ्करी तत्रा भक्तानामखिलार्थदा ।जष्येश्वरे महास्थाने शङ्करी त्रिशूलिनी त्रिशूलीशङ्करस्तत्र सर्वपापविमोचकः आम्रातकेश्वरे सूक्ष्मा-सूक्ष्माख्या परमेश्वरी गणक्षेत्रे मङ्गलाख्या शिवोयःप्रपितामहः कुरुक्षेत्रे शिवः स्थाणुः शिवा स्थाणुश्रियापरा इष्टनाभे स्वयम्भुश्च देवी स्वायम्भुवा मता ।उग्रः कनखले प्रोक्तः शिवोग्रे शिववल्लभा विमलेश्वरेविश्वशम्भु विश्वाविश्वप्रिया सदा अट्टहासे महानन्दीमहानन्दा महेश्वरी महान्तको महेन्द्रश्च पार्वती चमहान्तका भीमेश्वरी भीमपीठे शिवा भीमेश्वरी तथा ।वस्त्रपादे भवो नाम भवानी भुवनेश्वरी अद्रिकूटेमहायोगा रुद्राणी परमेश्वरी अविमुक्ते महादेवोविशालाक्षी शिवा परा महामाये हरो रुद्रो महा-भागा शिवा तथा महाबलश्च गोकर्णे शिवभद्रा चचण्डिका भद्रकर्णे महादेवो भद्रा कर्णिका तथा ।सुपर्णाख्ये सहस्राख्य उत्पला परमेश्वरी स्थाणुसंज्ञेशिवस्था श्रीः खरस्था श्रीघरा शिवा कमलालये महा-स्थाने कमलाख्यो महेश्वरः कमलाक्षी महेशानी ।सकलार्थप्रदायिनी छागला तु कपर्दी प्रसभा चमहेश्वरी ऊर्द्ध्वरेतामहारण्ये सन्ध्याख्या परमेश्वरी ।साकोटास्या महाकोटे शिवा मुण्डकेश्वरी मातु-लेश्वरपीठे करवीरार्च्यशेखरा श्रीमद्व्याघ्रपुरेसाक्षाद्धरनामा सभापतिः शिवः सभापतिर्नाम यत्रनृत्यति शङ्करः आत्मानन्दसहानादपूर्णानन्दमहा-र्णवम् नृत्यन्तं यत्र देवेशं देवेशी परिपश्यति यत्रचाशु महादेवी भक्तानां वरदो भवेत् नृत्यन्तं यत्रसर्वेशं वीक्ष्य लोको विमुच्यते पुण्यस्थानेषु सर्वेषु स्थान-मेतदनुत्तमम् यद्यत्कर्म्माणि सर्वाणि अक्षयाणिभवन्ति वै तस्मिन् महोत्तमे स्थाने शिवगङ्गाख्यम-द्भुतम् तडागमस्ति तत्तीरे दक्षिणे नृत्यतीश्वरः ।तडागेऽस्मिन् वसन् स्नात्वा समानाथं समीक्ष्य तु अष्टो-त्तरसहस्रं तु जपेच्छुद्धो मुदान्वितः यानि ते कथिता-न्यत्र सदा तिष्ठन्ति देवताः भवन्ति सिद्धगन्धर्वाःसिद्धयः सर्वसिद्धिदाः अत्र दत्तं हुतं जप्तम् स्नान-मक्षयपुण्यदम् यद् यत् प्रकीर्त्तितं नाम भैरवंपरिपूज्य प्रणवादिहृदन्तेन लभतेऽभीष्टमुत्तमम् ।भोजयेद् ब्राह्मणान् योऽत्र अक्षयं फलमश्नुते इहनानासुखं भुक्त्वा हरगौरीपुरं व्रजेत् शोकदुःख-विनाशोऽयं करुणानिधिरीश्वरः निर्म्ममे सर्वसस्पत्त्यैपुण्यक्षेत्राणि भूतले अकाले पुण्यशुद्धानामनेकपुण्य-साधनैः आस्तिकानां भवेदत्र निवासः साधनं प्रति ।तस्माद् यत्नेन कर्त्तव्यमत्र साधनमुत्तमैः इदानीं शृणुचार्वङ्गि! पीठं सर्वाङ्गसुन्दरम् अक्षमालामयं पीठंब्रूहि मे परमेश्वरि! यत्र सिद्ध्यन्ति कार्य्याणिस्थितिस्ते शङ्करस्य विष्णोरगाधबोधस्य तत्प्रियायामहेश्वरि! अन्येषाञ्चैव देवानां युष्मत्पदनिवासि-नाम् प्रसादो हि भवत्याशु तत्र प्रीतिरनुरुत्तमा”