| YouTube Channel

जपः (japaH)

 
Apte Hindi
Hindi
जपः
पुं*
- जप् + अच्
"मन ही मन प्रर्थना करना, धीमे स्वर से किसी मन्त्र को बार-बार दुहराना"
जपः
पुं*
- जप् + अच्
"वेदपाठ करना, देवताओं के नाम बार-बार दुहराना"
जपः
पुं*
- जप् + अच्
मन्द स्वर से उच्चरित प्रार्थना
Wordnet
Sanskrit
Synonyms:
जपः
noun
कस्याः अपि देवतायाः मन्त्रस्य नाम्नः वारंवारं कृतम् उच्चारणम्।
"सः प्रतिदिनं प्रातः जपं करोति।"
Tamil
Tamil
ஜப: : மெல்லிய குரலில் செய்யப்படும் பிரார்தனை, வேதம் ஓதுதல், மந்திரங்களைச் சொல்லுதல்.
शब्दकल्पद्रुमः
Sanskrit
जपः,
पुं,
(जप्यते इति जप + “व्यधजपो-रनुपसर्गे ।” ६१ इति भावे अप् ।)विधानेन मन्त्रोच्चारणम् तद्बिधिर्यथा, --“नोच्चैर्ज्जपञ्च संकुर्य्यात् रहः कुर्य्यादतन्द्रितः ।समाहितमनास्तूष्णीं मनसा वापि चिन्तयेत्
विधियज्ञात् जपयज्ञो विशिष्टो दशभिर्गुणैः ।उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः ।विना दर्भैस्तु यत् स्नानं यच्च दानं विनोदकम् ।असंख्येयन्तु यद्जप्यं सर्व्वं तदफलं स्मृतम्
मुक्ताफलैर्विद्रुमेण रुद्राक्षैः स्फटिकेन वा ।गणना सर्व्वथा कार्य्या सम्यगङ्गुलिपर्व्वभिः
हिरण्यरत्नमणिभिर्जप्यं शतगुणं भवेत् ।सहस्रगुणमिन्द्राक्षैः पद्माक्षैरयुतं भवेत्
नियुतं वापि रुद्राक्षैर्भद्राक्षैस्तु संशयः ।पुत्त्रजीवकजप्यस्य परिसंख्या विद्यते
दशभिर्जन्मजनितं शतेन पुरा कृतम् ।त्रियुगं तु सहस्रेण गायत्त्र्या हन्ति दुष्कृतम्
दर्भहस्तस्तथासीनो दर्भेषूदकपाणिना ।प्राङ्मुखो वर्त्तयेत् मालां सहस्रं शतमेव वा
”इत्याद्ये वह्निपुराणे नित्याह्निकस्नानविधि-नामाध्यायः
तस्यानुष्ठानं यथा, --“मनः संहृत्य विषयान्मन्त्रार्थगतमानसः ।न द्रुतं विलम्बञ्च जपेन्मौक्तिकपङ्क्तिवत्
जपः स्यादक्षरावृत्तिर्मानसोपांशुवाचिकैः ।धिया यदक्षरश्रेणीं वर्णस्वरपदात्मिकाम्
उच्चरेदर्थमुद्दिश्य मानसः जपः स्मृतः ।जिह्वोष्ठौ चालयेत् किञ्चिद्देवतागतमानसः
किञ्चिच्छ्रवणयोग्यः स्यादुपांशुः जपः स्मृतः ।मन्त्रमुच्चारयेद्बाचा वाचिकः जपः स्मृतः
उच्चैर्जपाद्विशिष्टः स्यादुपांशुर्दशभिर्गुणैः ।जिह्वाजपः शतगुणः साहस्रो मानसः स्मृतः ।जिह्वाजपः विज्ञेयः केवलं जिह्वया बुधैः
”तत्र वर्ज्यं यथा, --“विन्मूत्रोत्सर्गशङ्कादियुक्तः कर्म्म करोति ।जपार्च्चनादिकं सर्व्वमपवित्रं भवेत् प्रिये !
मलिनाम्बरकेशादिमुखदौर्गन्ध्यसंयुतः ।यो जपेत्तं दहत्याशु देवता गुप्तिसंस्थिता
आलस्यं जृम्भणं निद्रां क्षुतं निष्ठीवनं भयम् ।नीचाङ्गस्पर्शनं कोपं जपकाले विवर्ज्जयेत्
”अथ करमालाजपनियमो यथा, --“तर्ज्जना मध्यमानामा कनिष्ठा चेति ताःक्रमात् ।तिस्रोऽङ्गुल्यस्त्रिपर्व्वाणो मध्यमा चैकपर्व्विका
पर्व्वद्बयं मध्यमाया मेरुत्वेनोपकल्पयेत् ।अनामामध्यमारभ्य कनिष्ठादित एव
तर्ज्जनीमूलपर्य्यन्तं दशपर्व्वसु संजपेत् ।अनामामूलमारभ्य कनिष्ठादित एव ।तर्जनीमध्यपर्य्यन्तमष्टपर्व्वसु संजपेत्
”एतद्बचनन्तु अष्टोत्तरशतादिविषयम् ।शक्तिविषये पुनः ।“अनामिकात्रयं पर्व्व कनिष्ठादित्रिपर्व्विका ।मध्यमायाश्च त्रितयं तर्ज्जनीमूलपर्व्वणि
तर्ज्जन्यग्रे तथा मध्ये यो जपेत् तु पापकृत् ।अनामामूलमारभ्य प्रादक्षिण्यक्रमेण
मध्यादिमूलपर्यन्तमष्टपर्व्वसु संजपेत्
”श्रीविद्याविषये पुनः ।“अनामामध्यमायाश्च मूलाग्रञ्च द्वयं द्वयम् ।कनिष्ठायाश्च तर्ज्जन्यास्त्रयं पर्व्व सुरेश्वरि !
अनामामध्यमायाश्च मेरुः स्यात् द्बितयं शुभम् ।प्रदक्षिणक्रमाद्देवि ! जपेत्त्रिपुरसुन्दरीम्
कनिष्ठामूलमारभ्य प्रादक्षिण्यक्रमेण ।तर्ज्जनीमूलपर्य्यन्तमष्टपर्व्वसु संजपेत्
”इदमपि अष्टोत्तरशतादिविषयम्
*
“अङ्गुलीर्न वियुञ्जीत किञ्चिदाकुञ्चिते तले ।अङ्गुलीनां वियोगाच्च छिद्रे स्रवते जपः
अङ्गुल्यग्रे यज्जप्तं यज्जप्तं मेरुलङ्घने ।पर्व्वसन्धिषु यज्जप्तं तत् सर्व्वं निष्फलं भवेत्
गणनाविधिमुल्लङ्घ्य यो जपेत्तज्जपं यतः ।गृह्णन्ति राक्षसास्तेन गणयेत् सर्व्वथा बुधः
हृदये हस्तमारोप्य तिर्य्यक् कृत्वा कराङ्गुलीः ।आच्छाद्य वाससा हस्तौ दक्षिणेन सदा जपेत्
”जपसंख्यायां निषिद्धद्रव्यं यथा, --“नाक्षतैर्हस्तपर्व्वैर्व्वा धान्यैर्न पुष्पकैः ।न चन्दनैर्मृत्तिकया जपसंख्याञ्च कारयेत्
*
तत्र विहितद्रव्यं यथा, --“लाक्षाकुषीदसिन्दूरं गोमयञ्च करीषकम् ।एभिर्निर्म्माय वटिकां जपसंख्यान्तु कारयेत्
”अथ वर्णमालाजपनियमो यथा, --“सबिन्दुं वर्णमुच्चार्य्य पश्चान्मन्त्रं जपेद्बुधः ।अकारादिक्षकारान्तं बिन्दुयुक्तं विभाव्य
वर्णमाला समाख्याता अनुलोमविलोमतः ।पञ्चाशल्लिपिभिर्म्माला विहिता सर्व्वकर्म्मसु
अकारादिक्षकारान्ता वर्णमाला प्रकीर्त्तिता
क्षार्णं मेरुमुखं तत्र कल्पयेन्मुनिसत्तम ! ।अनया सर्व्वमन्त्राणां जपः सर्व्वसमृद्धिदः
*
तस्य फलं यथा, --“जपनिष्ठो द्विजश्रेष्ठोऽखिलयज्ञफलं लभेत् ।सर्व्वेषामेव यज्ञानां जायतेऽसौ महाफलः
जपेन देवता नित्यं स्तूयमाना प्रसीदति ।प्रसन्ना विपुलान् कामान् दद्यान्मुक्तिञ्चशाश्वतीम्
यक्षरक्षःपिशाचाश्च ग्रहाः सर्पाश्च भीषणाः ।जापिनं नोपसर्पन्ति भयभीताः समन्ततः
यावन्तः कर्म्मयज्ञाः स्युः प्रदिष्टानि तपांसि ।सर्व्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम्
माहात्म्यं वाचिकस्यैतत् जपयज्ञस्य कीर्त्तितम् ।तस्माच्छतगुणोपांशुः साहस्रो मानसः स्मृतः
”इति तन्त्रसारः
कृदन्तरूपमाला
Sanskrit
1 {@“जप व्यक्तायां वाचि”@} 2 ‘जप मानसे च’ मनोनिर्वर्त्ये वचने--इत्यर्थः।
जापकः-पिका, जापकः-पिका, जिजपिषकः-षिका, 3 जञ्जपकः-जन्जपकः-पिका
जपिता-त्री, जापयिता-त्री, जिजपिषिता-त्री, जञ्जपिता-जन्जपिता-त्री
4 जपन्-न्ती, 5 व्यतिजपन्-न्ती, जापयन्-न्ती, जिजपिषन्-न्ती
-- जपिष्यन्-न्ती-ती, जापयिष्यन्-न्ती-ती, जिजपिषिष्यन्-न्ती-ती
-- -- जापयमानः, -- जञ्जप्यमानः-जन्जप्यमानः
-- जापयिष्यमाणः, -- जञ्जपिष्यमाणः-जन्जपिष्यमाणः
जप्-जब्-जपौ-जपः
-- -- -- जपितम्-तः, 6 जप्तम्, जापितः, जिजपिषितः, जञ्जपितः-जन्जपितः-तवान्
जपः, 7 कर्णेजपः, 8 जापः, जिजपिषुः, जञ्जपः-जन्जपः, 9 जञ्जपूकः
10 11 जपितव्यम्, जापयितव्यम्, जिजपिंषितव्यम्, जञ्जपितव्यम्-जन्जपितव्यम्
जपनीयम्, जापनीयम्, जिजपिषणीयम्, जञ्जपनीयम्-जन्जपनीयम्
12 जप्यम्, 13 जाप्यम्, जिजपिष्यम्, जञ्जप्यम्-जन्जप्यम्
ईषज्जपः-दुर्जपः-सुजपः
-- -- -- जप्यमानः, जाप्यमानः, जिजपिष्यमाणः, जञ्जप्यमानः-जन्जप्यमानः
14 जपः, 15 उपजापः, जापः, जिजपिषुः, जञ्जपः-जन्जपः
जपितुम्, जापयितुम्, जिजपिषितुम्, जञ्जपितुम्-जन्जपितुम्
जप्तिः, जापना, जिजपिषा, जञ्जपा-जन्जपा
जपनम्, जापनम्, जिजपिषणम्, जञ्जपनम्-जन्जपनम्
जपित्वा, जापयित्वा, जिजपिषित्वा, जञ्जपित्वा-जन्जपित्वा
सञ्जप्य, प्रजाप्य, प्रजिजपिष्य, प्रजञ्जप्य-प्रजन्जप्य
जापम् २, जपित्वा २, जापम् २, जापयित्वा, जिजपिषम् २, जिजपिषित्वा २, जञ्जपम् २-जन्जपम्
जञ्जपित्वा २-जन्जपित्वा २।
प्रासङ्गिक्यः
01
=>
(५८४)
02
=>
(१-भ्वादिः-३९७। सक। सेट्। पर।)
03
=>
[[१। ‘लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्’ (३-१-२४) इति सूत्रेण गर्हितं जपतीत्यर्थे यङ्। द्विर्वचनम्, अभ्यासस्य, ‘जपजभदहदशभञ्जपशां च, (७-४-८६) इत्यनेन नुगागमे, तस्य ‘पदान्तवद्वाच्यः, (वा। ७-४-८५) इति पदान्तवद्भावेन ‘वा पदान्तस्य’ (८-४-५९) इति पाक्षिके परसवर्णे रूपद्वयम्। एवं यङन्ते सर्वत्र रूपद्वयं ज्ञेयम्।]]
04
=>
[[आ। ‘आ तिष्ठद्गु जपन् सन्ध्यां प्रकान्तामायतीगवम्।’ भ। का। ४। १४।]]
05
=>
[[२। ‘प्रतिषेधे हसादीनामुपसंख्यानम्’ (वा। १-३-१५) इति वचनात् कर्मव्यतीहारेऽपि शानच्।]]
06
=>
[[३। ‘सेटोऽप्यस्य धातोः क्वचिदिडभावेनापि प्रयोगो दृश्यते। तस्य साधुत्वकल्पनाय ‘आदितश्च’ (७-२-१६) इति सूत्रे, काशिकायां ‘चकारोऽनुक्तसमुच्चयार्थः। आश्वस्तः। वान्तः।’ इत्युदाहरणं दत्तम्।’ तदिहानुसन्धेयम्। ‘वमजप्- व्याश्वसो निष्ठाया इड् वा’ इति केचित् जपितः जप्तः, इति प्रक्रियाकौमुदी।]]
07
=>
[[४। ‘स्तम्बकर्णयो रमिजपोः’ (३-२-१३) इति सुबन्ते उपपदे अच्प्रत्ययः। ‘तत्पुरुषे कृति बहुलम्’ (६-३-१४) इति सप्तम्या अलुक्। ‘हस्तिसूचकयोरिति वक्तव्यम्’ (वा। ३-२-१३) इति वचनात् कर्णेजपः इति सूचके एव साधुः।]]
08
=>
[[B। ‘कर्णेजपैराहितराज्यलोमा स्त्रैणेन नीता विकृतिं लघिम्ना।’ भ। का। ३। ७।]]
09
=>
[[५। ‘यजजपदशां यङः’ (३-२-१६६) इति तच्छीलादिषु कर्तृषु यङन्तादूकप्रत्यये, ‘यस्य हलः’ (६-४-४९) इति यकारलोपे, अभ्यासस्य नुगागमे रूपम्।]]
10
=>
[[C। ‘जन्मधामनि निजे नियमस्थं जञ्जपूकमभिसृत्य जघान।।’ यादवाभ्युदये २१। ४०।]]
11
=>
[पृष्ठम्०५५७+ २५]
12
=>
[[१। ‘पोरदुपधात्’ (३-१-९८) इति यत्। ण्यदपवादः।]]
13
=>
[[आ। ‘मत्वा सहिष्णूनपरोपजप्यान् स्वकानधिष्ठाय जलान्तदुर्गान्।’ भ। का। १२। ३२।]]
14
=>
[[२। ‘व्यधजपोरनुपसर्गे’ (३-३-६१) इति भावे, अप्प्रत्ययः। उपसृष्टात्तु घञेव। उपजापः।]]
15
=>
[[B। ‘गोपायतां धर्ममधूपितात्मनां जल्पान् विमुच्याभवदुद्यमो जपे।।’ धा। का। १। ५१।]]