जप (japa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishजप - japa - - mutteringprayers
दैवी - daivI - - prayers
प्रेरयति { प्रेर् } - prerayati { prer } - verb Caus. - pronounce [ words , prayers ]
सुप्रभात - suprabhAta - - morning prayers
जपिन् - japin - - muttering prayers
प्रजाप - prajApa - - muttering prayers
ब्रह्मघोष - brahmaghoSa - - murmur of prayers
जपन - japana - - muttering prayers
ब्रह्मरव - brahmarava - - muttering of prayers
जाप्य - jApya - - muttering of prayers
ब्रह्मसंहिता - brahmasaMhitA - - collection of prayers
उपस्तिष्ठते { उपस्था } - upastiSThate { upasthA } - verb - attend on with prayers
उपस्तिष्ठति { उपस्था } - upastiSThati { upasthA } - verb - attend on with prayers
मतवचस् - matavacas - - heeding words or prayers
ब्रह्मकार - brahmakAra - - making or offering prayers
ब्रह्मकृत् - brahmakRt - - making or offering prayers
रुद्राध्यायायिन् - rudrAdhyAyAyin - - reciting the above prayers
जापक - jApaka - - priest who mutters prayers
मनीषिन् - manISin - - offering prayers or praises
गणपतिस्तोत्र - gaNapatistotra - - prayers addressed to gaNeza
जप - japa - - mutteringprayers
जप - japa - - muttering
जापिन् - jApin - - muttering
काकु - kAku - - muttering
जल्पि - jalpi - - muttering
त्यजप - tyajapa - - that muttering
जप - japa - - muttering prayer
जपिन् - japin - - muttering prayers
प्रजाप - prajApa - - muttering prayers
जपन - japana - - muttering prayers
मृत्युञ्जयजप - mRtyuJjayajapa - - muttering the verse
अनुजपति - anujapati - verb - follow in muttering
ब्रह्मरव - brahmarava - - muttering of prayers
जाप्य - jApya - - muttering of prayers
प्रतिजाप - pratijApa - - act of muttering against
घनध्वनि - ghanadhvani - - muttering of thunder clouds
आमन्द्र - Amandra - - making a low muttering sound
जञ्जपूक - jaJjapUka - - muttering prayers repeatedly
जपपरायण - japaparAyaNa - - devoted to muttering prayers
जाप - jApa - - muttering prayers a muttered prayer
जापक - jApaka - - muttering prayers or names of a deity
पर्जन्यक्रन्द्य - parjanyakrandya - - muttering like parjanya or a rain-cloud
जपयज्ञ - japayajJa - - muttering prayers as a religious sacrifice
प्रलयजलधरध्वान - pralayajaladharadhvAna - - rumbling or muttering of clouds at the dissolution of the world
जप - japa - - mutteringprayers
जप - japa - - see also karNejApa
जप - japa - - muttering
जप - japa - - muttered prayer or spell
जप - japa - - repeating in a murmuring tone passages from scripture or charms or names of a deity
जप - japa - - muttering prayer
Wilson
EnglishApte
Englishजप [japa], [जप्-कर्तरि अच्] Muttering, whispering.
पः Muttering prayers, repeating prayers in an under-tone.
Repeating passages of the Veda or names of deities
3.74
1.22.
A muttered prayer.
Counting silently the beads of a rosary -परायण engaged in muttering prayers.-माला a rosary of beads. -यज्ञः, -होमः muttering prayers as a sacrifice
विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः 2.85
1.11
1.111.
Apte 1890
Englishजप a. [जप्-कर्तरि अच्] 1 Muttering, whispering.
पः {1} Muttering prayers, repeating prayers &c. in an under-tone.
2 Repeating passages of the Veda or names of deities &c.
Ms. 3. 74
Y. 1. 22.
3 A muttered prayer.
4 Counting silently the beads of a rosary &c.
Comp.
परायण a. engaged in muttering prayers.
माला a rosary of beads.
यज्ञः,
होमः muttering prayers as a sacrifice.
Monier Williams Cologne
EnglishMonier Williams 1872
Englishजप, अस्, आ, अम्, muttering, whispering, uttering
in a low voice [cf. कर्णे-जप]
(अस्), m. mutter-
ing prayers, repeating in a murmuring tone passages
from scripture, charms, names of a deity, &c.
counting
silently the beads of a rosary, &c.
a muttered prayer
or spell
[cf. जाप।]
—जप-ता, f. the state of a
mutterer or of one who mutters prayers.
—जप-
परायण, अस्, आ, अम्, devoted to repetition of prayers,
engaged in muttering prayers.
—जप-माला, f. a
rosary used for counting muttered prayers.
—जप-
यज्ञ, अस्, m. muttering prayers as a religious rite or
sacrifice.
—जप-होम, अस्, m. a sacrifice which con-
sists in muttering prayers.
Hindi
Hindiसस्वर पाठ
Apte Hindi
Hindiजपः
- जप् + अच्
"मन ही मन प्रर्थना करना, धीमे स्वर से किसी मन्त्र को बार-बार दुहराना"
जपः
- जप् + अच्
"वेदपाठ करना, देवताओं के नाम बार-बार दुहराना"
जपः
- जप् + अच्
मन्द स्वर से उच्चरित प्रार्थना
Shabdartha Kaustubha
Kannadaजप - मानसे, व्यक्तायां वाचि (भ्वा० पर० सक० से०) जपति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಜಪಿಸು /ಮಂತ್ರವನ್ನು ಮನಸ್ಸಿನಲ್ಲಿ ಆವೃತ್ತಿ ಮಾಡು
जप
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮಂತ್ರವನ್ನು ಆವೃತ್ತಿ ಮಾಡುವುದು /ಮಂತ್ರವನ್ನು ಮತ್ತೆ ಮತ್ತೆ ಉಚ್ಚರಿಸುವುದು
निष्पत्तिः - > जप (व्यक्तायां वाचि) - भावे "अप्" (३-३-६१)
प्रयोगाः - > "जपहोमैरपैत्येनो याजनाध्यापनैः कृतम् । प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥" "समाचराचारमुपात्तशस्त्रो जपोपवासाभिषवैर्मुनीनाम्" ।
उल्लेखाः - > मनु० १०-१११ किरा० ३-२८
जप
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಮಂತ್ರವನ್ನು ಜಪಿಸುವ /ಮಂತ್ರವನ್ನು ಮತ್ತೆ ಮತ್ತೆ ಉಚ್ಚರಿಸುತ್ತಿರುವ
निष्पत्तिः - > जप - कर्त० "अच्" (३-१-१३४)
L R Vaidya
Englishधातुपाठः (Krishnacharya)
Sanskrit जप्
जप
व्यक्तायां वाचि, मानसे च
भ्वादिः
सकर्मकः
सेट्
परस्मैपदी
जपति
धातुप्रदीपः
Sanskritजपँ जप
मानकरूपान्तरम् - जल्पँ
जल्प व्यक्तायां_वाचि
-
जपँ जप मानसे च
- जपति । भावगर्हायां यङ् जञ्जप्यते । जप्यम् । कर्णेजपः । खलः जपः । जाप्यन्तु बहुलवचनात् जल्पति । जल्पाकः । जल्पः ।। 398, 399 ।।
अभिधानचिन्तामणिः
Sanskritदेवभूयादिकं तद्वदथोपाकरणं श्रुतेः ॥ ८४१ ॥
संस्कारपूर्वं ग्रहणं स्यात्स्वाध्यायः पुनर्जपः ।
देवभूय (क्ली), उपाकरण (क्ली), स्वाध्याय (पुं), जप (पुं)
पुराणम्
Englishजपस् / JAPA(S). A group of Gods (devas) of the third manvantara (age of manu). In that manvantara the manu was uttama, indra was suśānti, and the Devagaṇas (groups of gods) were Sudharmas, satyas, japas, Pratardanas, and Vaśavartins, the five groups, each consisting of twelve members. (See under manvantara).
शब्दकल्पद्रुमः
Sanskritजप, हृदुच्चारे वाचि । इति कविकल्पद्रुमः ॥
(भ्वां-परं-सकं-सेट् ।) जिह्वोष्ठादिव्यापार-रहितं शब्दार्थयोश्चिन्तनं हृदुच्चारः । जपतिमन्त्रं साधकः । इति दुर्गादासः ॥
जपः, (जप्यते इति । जप + “व्यधजपो-रनुपसर्गे ।” ३ । ३ । ६१ । इति भावे अप् ।)विधानेन मन्त्रोच्चारणम् । तद्बिधिर्यथा, --“नोच्चैर्ज्जपञ्च संकुर्य्यात् रहः कुर्य्यादतन्द्रितः ।समाहितमनास्तूष्णीं मनसा वापि चिन्तयेत् ॥
विधियज्ञात् जपयज्ञो विशिष्टो दशभिर्गुणैः ।उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः ।विना दर्भैस्तु यत् स्नानं यच्च दानं विनोदकम् ।असंख्येयन्तु यद्जप्यं सर्व्वं तदफलं स्मृतम् ॥
मुक्ताफलैर्विद्रुमेण रुद्राक्षैः स्फटिकेन वा ।गणना सर्व्वथा कार्य्या सम्यगङ्गुलिपर्व्वभिः ॥
हिरण्यरत्नमणिभिर्जप्यं शतगुणं भवेत् ।सहस्रगुणमिन्द्राक्षैः पद्माक्षैरयुतं भवेत् ॥
नियुतं वापि रुद्राक्षैर्भद्राक्षैस्तु न संशयः ।पुत्त्रजीवकजप्यस्य परिसंख्या न विद्यते ॥
दशभिर्जन्मजनितं शतेन च पुरा कृतम् ।त्रियुगं तु सहस्रेण गायत्त्र्या हन्ति दुष्कृतम् ॥
दर्भहस्तस्तथासीनो दर्भेषूदकपाणिना ।प्राङ्मुखो वर्त्तयेत् मालां सहस्रं शतमेव वा ॥
”इत्याद्ये वह्निपुराणे नित्याह्निकस्नानविधि-नामाध्यायः ॥
तस्यानुष्ठानं यथा, --“मनः संहृत्य विषयान्मन्त्रार्थगतमानसः ।न द्रुतं न विलम्बञ्च जपेन्मौक्तिकपङ्क्तिवत् ॥
जपः स्यादक्षरावृत्तिर्मानसोपांशुवाचिकैः ।धिया यदक्षरश्रेणीं वर्णस्वरपदात्मिकाम् ॥
उच्चरेदर्थमुद्दिश्य मानसः स जपः स्मृतः ।जिह्वोष्ठौ चालयेत् किञ्चिद्देवतागतमानसः ॥
किञ्चिच्छ्रवणयोग्यः स्यादुपांशुः स जपः स्मृतः ।मन्त्रमुच्चारयेद्बाचा वाचिकः स जपः स्मृतः ॥
उच्चैर्जपाद्विशिष्टः स्यादुपांशुर्दशभिर्गुणैः ।जिह्वाजपः शतगुणः साहस्रो मानसः स्मृतः ।जिह्वाजपः स विज्ञेयः केवलं जिह्वया बुधैः ॥
”तत्र वर्ज्यं यथा, --“विन्मूत्रोत्सर्गशङ्कादियुक्तः कर्म्म करोति च ।जपार्च्चनादिकं सर्व्वमपवित्रं भवेत् प्रिये ! ॥
मलिनाम्बरकेशादिमुखदौर्गन्ध्यसंयुतः ।यो जपेत्तं दहत्याशु देवता गुप्तिसंस्थिता ॥
आलस्यं जृम्भणं निद्रां क्षुतं निष्ठीवनं भयम् ।नीचाङ्गस्पर्शनं कोपं जपकाले विवर्ज्जयेत् ॥
”अथ करमालाजपनियमो यथा, --“तर्ज्जना मध्यमानामा कनिष्ठा चेति ताःक्रमात् ।तिस्रोऽङ्गुल्यस्त्रिपर्व्वाणो मध्यमा चैकपर्व्विका ॥
पर्व्वद्बयं मध्यमाया मेरुत्वेनोपकल्पयेत् ।अनामामध्यमारभ्य कनिष्ठादित एव च ॥
तर्ज्जनीमूलपर्य्यन्तं दशपर्व्वसु संजपेत् ।अनामामूलमारभ्य कनिष्ठादित एव च ।तर्जनीमध्यपर्य्यन्तमष्टपर्व्वसु संजपेत् ॥
”एतद्बचनन्तु अष्टोत्तरशतादिविषयम् ।शक्तिविषये पुनः ।“अनामिकात्रयं पर्व्व कनिष्ठादित्रिपर्व्विका ।मध्यमायाश्च त्रितयं तर्ज्जनीमूलपर्व्वणि ॥
तर्ज्जन्यग्रे तथा मध्ये यो जपेत् स तु पापकृत् ।अनामामूलमारभ्य प्रादक्षिण्यक्रमेण च ॥
मध्यादिमूलपर्यन्तमष्टपर्व्वसु संजपेत् ॥
”श्रीविद्याविषये पुनः ।“अनामामध्यमायाश्च मूलाग्रञ्च द्वयं द्वयम् ।कनिष्ठायाश्च तर्ज्जन्यास्त्रयं पर्व्व सुरेश्वरि ! ॥
अनामामध्यमायाश्च मेरुः स्यात् द्बितयं शुभम् ।प्रदक्षिणक्रमाद्देवि ! जपेत्त्रिपुरसुन्दरीम् ॥
कनिष्ठामूलमारभ्य प्रादक्षिण्यक्रमेण च ।तर्ज्जनीमूलपर्य्यन्तमष्टपर्व्वसु संजपेत् ॥
”इदमपि अष्टोत्तरशतादिविषयम् ॥
* ॥
“अङ्गुलीर्न वियुञ्जीत किञ्चिदाकुञ्चिते तले ।अङ्गुलीनां वियोगाच्च छिद्रे च स्रवते जपः ॥
अङ्गुल्यग्रे च यज्जप्तं यज्जप्तं मेरुलङ्घने ।पर्व्वसन्धिषु यज्जप्तं तत् सर्व्वं निष्फलं भवेत् ॥
गणनाविधिमुल्लङ्घ्य यो जपेत्तज्जपं यतः ।गृह्णन्ति राक्षसास्तेन गणयेत् सर्व्वथा बुधः ॥
हृदये हस्तमारोप्य तिर्य्यक् कृत्वा कराङ्गुलीः ।आच्छाद्य वाससा हस्तौ दक्षिणेन सदा जपेत् ॥
”जपसंख्यायां निषिद्धद्रव्यं यथा, --“नाक्षतैर्हस्तपर्व्वैर्व्वा न धान्यैर्न च पुष्पकैः ।न चन्दनैर्मृत्तिकया जपसंख्याञ्च कारयेत् ॥
” * ॥
तत्र विहितद्रव्यं यथा, --“लाक्षाकुषीदसिन्दूरं गोमयञ्च करीषकम् ।एभिर्निर्म्माय वटिकां जपसंख्यान्तु कारयेत् ॥
”अथ वर्णमालाजपनियमो यथा, --“सबिन्दुं वर्णमुच्चार्य्य पश्चान्मन्त्रं जपेद्बुधः ।अकारादिक्षकारान्तं बिन्दुयुक्तं विभाव्य च ॥
वर्णमाला समाख्याता अनुलोमविलोमतः ।पञ्चाशल्लिपिभिर्म्माला विहिता सर्व्वकर्म्मसु ॥
अकारादिक्षकारान्ता वर्णमाला प्रकीर्त्तिता ॥
क्षार्णं मेरुमुखं तत्र कल्पयेन्मुनिसत्तम ! ।अनया सर्व्वमन्त्राणां जपः सर्व्वसमृद्धिदः ॥
” * ॥
तस्य फलं यथा, --“जपनिष्ठो द्विजश्रेष्ठोऽखिलयज्ञफलं लभेत् ।सर्व्वेषामेव यज्ञानां जायतेऽसौ महाफलः ॥
जपेन देवता नित्यं स्तूयमाना प्रसीदति ।प्रसन्ना विपुलान् कामान् दद्यान्मुक्तिञ्चशाश्वतीम् ॥
यक्षरक्षःपिशाचाश्च ग्रहाः सर्पाश्च भीषणाः ।जापिनं नोपसर्पन्ति भयभीताः समन्ततः ॥
यावन्तः कर्म्मयज्ञाः स्युः प्रदिष्टानि तपांसि च ।सर्व्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥
माहात्म्यं वाचिकस्यैतत् जपयज्ञस्य कीर्त्तितम् ।तस्माच्छतगुणोपांशुः साहस्रो मानसः स्मृतः ॥
”इति तन्त्रसारः ॥
वाचस्पत्यम्
Sanskritजप उच्चारणे वाचि च सेट् । जपतिअजापीत्--अजपीत् । जजाप जेपतुः । जप्त्वा । “एत-दक्षरमेतां च जपन् व्याहृतिपूर्विकाम्” मनुः । “ततःसप्रणवां सव्याहृतिकां गायत्रीं जपेत्” गोमि० “जपेत्सप्तशतीं मध्ये” चण्डीशब्दे दृश्यम् ।अभि + आभिमुख्येन जपे “चकार रक्षां कौशल्या मन्त्रैरभि-जजाप च” रामा० अयो० २५ । ३० । सम्यक्कथने चउप + भेदने । (काणफुसलनि देओया) “क्षत्तारं कुरुराजस्तुशनैः कर्णमुपाजपत्” भा० वि० २२१६ “उपजप्यानु-जपेत्” मनुः “उपजापः कृतस्तेन” माघः ।
जप जप--कर्त्तरि अच् । १ जपकारके । “कर्णे जपैराहितराज्यलोभा” मट्टिः । ततस्तु “त्रिशते काले लमतेजपतामपि” भा० आनु० २८ अ० । काण्डपृष्ठशब्दे १८६० पृ०दृश्यम् । भावे अप् । २ मन्त्रादेरावृत्तौ चण्डीशब्दे दर्शितसप्तशत्याः ३ पाठे च । तत्प्रकारो यथा तन्त्रसा० “मनःसंहृतृ विषयाम्मन्त्रार्थगतमानसः । न द्रुतं न विल-म्बञ्च जपेन्मौक्तिकपङ्क्तिवत् । जपः स्यादक्षरा-वृत्तिर्मानसोपांशुवाचिकैः । धिया यदक्षरश्रेणींवर्णस्वरपदात्मिकाम् । उच्चरेदर्थमुद्दिश्य मानसःस जपः स्मृतः । जिह्वोष्ठौ चालयेत् किञ्चिद्देवतागतमाममः । किञ्चिच्छ्रवणयोग्यः स्यादुपांशुः सज पः स्मृतः । मन्त्रमुच्चारपेवाचा वाचिकः स जपःस्मृतः । उच्चैर्जपाहिशष्टः स्यादुपांशु र्दशभिर्गुणैः ।जिह्वाजपः शतगुणः साहस्रो मानसः स्मृतः । जिह्वा-जपः स विज्ञेयः केवलम् जिह्वया वुधैः” । तत्रवर्ज्यानि “विण्मूत्रोत्सर्गशङ्कादियुक्तः कर्म करोति च ।जपार्च्चनादिकं सर्वमपवित्र भवेत् प्रिये! । मलिनाम्बर-केशादिमुखदौर्गन्ध्य संयुतः । यो जपेत्तं दहत्याशुदेवता गुप्तिसंस्थिता । आलस्यं जृम्भणं निद्रां क्षुबंनिष्ठीबनं मयम् । नीचाङ्गस्पर्शनं कोपं जपकाले विव-र्जयेत्” । देवताभेदे करमालाविशेषनियमो यथा“तर्जनीमध्यमानामा कनिष्ठा चेति ताः क्रमात् ।तिस्रोऽङ्गुल्यस्त्रिपर्वाणो मध्यमा चैकपर्विवा । पर्वद्वयंमध्यमाया मेरुत्वेनोपकल्पयेत् । अनामामध्यमारभ्यकनिष्ठादित एव च । तर्ज्जनीमूलपर्य्यन्तं दश पर्वसुसंजपेत् । अनामामूलमारभ्य कनिष्ठादित एव च ।तर्जनीमध्यपर्य्यन्तमष्टपर्वसु संजपेत्” । एतद्वचनन्तुअष्टोत्तरशतादिबिषयम् । शक्तिविषये पुनः । “अना-मिकात्रयं पर्व कनिष्ठादित्रिपर्विका । मध्यमा-याश्च त्रितयं तर्जनीमूलपर्वणि! तर्जन्यग्रे तथामध्ये यो जपेत् स तु पापकृत् । अनामामूलमारभ्यप्रादक्षिण्यक्रमेण च । मध्यादिमूलपर्य्यन्तमष्टपर्वसुसंजपेत्” । श्रीविद्याविषये तु । “अनामामध्यमयोश्चमूलाग्रञ्च द्वयं द्वयम् । कनिष्ठायाञ्च तर्ज्जन्यास्त्रयं पर्वसुरेश्वरि! । अनामामध्यमयोश्च मेरुः स्यात द्वितयशुभम् । प्रदक्षिणक्रमाद्देवि! जपेत् त्रिपुरसुन्दरीम् ।कनिष्ठामूलमारभ्य प्रादक्षिण्यक्रमेण च । तर्जनीमूल-पर्य्यन्तमष्टपर्वसु संजपेत् । इदमपि अष्टोत्तरशतादि-विषयम् । “अङ्गुलीर्न वियुञ्जीत किञ्चिदाङ्गुञ्चिते तले ।अङ्गुलीनां वियोगाच्च छिद्रे च स्रवते जपः । अङ्गु-ल्यग्रे च यज्जप्तं यज्जप्तं मेरुलङ्घवे । पर्वसन्धिषुयज्जप्तं तत्सर्वं निष्फ भवेत् । गणनाविधिमुल्लङ्घ्ययोजपेत्तज्जपं यत्नः गृह्णन्ति राक्षसास्तेन गणयेत्सर्वथा बुधः । हृदये हस्तमारोप्य तिर्य्यक् कृत्वाकराङ्गुलीः । आच्छाद्य वाससा हस्तौ दक्षिणेन सदाजपेत्” । जपसंख्यासाघने द्रव्यभेदनिषेधो यथा ।“नाक्षतैर्हस्तपर्वैर्वा न घान्यैर्न च पुष्पकैः । न चन्दनैर्मृत्ति-कया जपसंख्याञ्च कारयेत्” । तत्र विहितद्रव्याणि“लाक्षा कुषीदसिन्दूरं गोमयञ्च करीषकम् । एभिर्निर्माय वटिकां जपसंख्यान्तु कारयेत् । वर्णमालाजपनियमो यथा । “सविन्दुं वर्णमुच्चार्य्य पश्चान्मन्त्रंजपेह्व धः । अक्वारादिलकारान्त विन्दु युक्तं विभाव्यच । वर्णमाला समाख्याता अनुलोमविलोमतः ।पञ्चाशल्लिपिभिर्म्माला विहिता सर्वकर्मसु । अका-रादिलकारान्ता वर्णमाला प्रकीर्त्तिता । क्षार्णं मेरु-मुखं तत्र कल्पयेन्मुनिसत्तम! । अनया सर्वमन्त्राणांजपः सर्वसमृद्धिदः” । जपफलञ्च “जपनिष्ठो द्विजश्रेष्ठोऽखिलयज्ञफलं लभेत् । सर्वेषामेव यज्ञानांजायतेऽसौ महाफलः जपेन देवता नित्यं स्तूय-माना प्रसीदति । प्रसन्ना विपुलान् भोगान् दद्यान्मुक्तिञ्चशाश्वतीम् । यक्षरक्षःपिशाचाश्च ग्रहाः सर्पाश्चभीषणाः । जपन्तं नोपसर्पन्ति भयभीताः समन्ततः ।यावन्तः कर्मयज्ञाः स्युः प्रदिष्टानि तपांसि च । सर्वेते जपयज्ञस्य फलां नार्हन्ति षोडशीम् । माहात्म्यंवाचिकस्यैतत् जपयज्ञस्य कीर्त्तितम् । तस्माच्छतगुणोपांशुः साहस्रो मानसः स्मृतः” तन्त्रसा० ।“नोच्चैर्जपञ्च संकुर्यात् रहः कुर्य्यादतन्त्रितः । समाहितमनास्तूष्णीं मनसा वापि चिन्तयेत् । विधियज्ञात् जपयज्ञोविशिष्टो दशभिर्गुणैः । उपांशुः स्याच्छतशुणः साहस्रोमानसः स्मृतः । विना दर्भैस्तु यत्स्नानं यच्च दानं विनो-दकम् । असंख्यातन्तु यज्जप्तं सर्वं तदफलं स्मृतम् ।मुक्ताफलैर्विद्रुभेण रुद्राक्षैः स्फटिकेन वा । गणना सर्वथाकार्य्या सम्यगङ्गुलिपर्वभिः । हिरण्यरत्नमणिभिर्जप्त्वाशतगुणं भवेत् । सहस्रगुणमिन्द्राक्षैः पद्माक्षैरयुतंभवेत् । नियुतं वापि रुद्राक्षैर्भद्राक्षैस्तु न संशयः ।पुत्रजीवकजप्यस्य परिसंख्या न विद्यते । दशभिर्जन्म-जनितं शतेन च पुराकृतम् । नियुतं तु सहस्रेण गायत्र्याहन्ति दुष्कृतम् । प्राङ्मुखो वर्त्तयेत् मालां सहस्रंशतमेव वा” अग्निपु० ।जपाङ्गमन्त्रचैतन्यादिकज्ञानमावश्यकं तत्र मन्त्रचैतन्यं यथाकुब्जिकातन्त्रे पञ्चकपटले । “श्रीपार्वत्युवाच । भगवन्!सर्वदेवेश! लोकानां हितकारक । चतुर्वर्गप्रदं देव! चैतन्यंमे प्रकाशय । शङ्कर उवाच । शृणु देवि! प्रवक्ष्यामिचैतन्यं परमाद्भुतम् । रहस्यं परमं पुण्यं गोपनीयंत्वया पुनः । चिच्छक्त्याध्वनितं देवि! परिणामक्रमेण तु ।वर्णभावं समासज्य निर्मलं विमलात्मकम् । षट्चक्रञ्चतथा भित्त्वा शब्दरूपं सनातनम् । नादविन्दुसमायुक्तंचैतन्यं परिकीर्त्तितम् । अथ वान्यप्रकारेण श्रूयतांपद्मलोचने! । विना येन न सिध्येत्तु जपपूजादिकिञ्चन ।अनाहतस्य मध्ये तु ग्रथितं वर्णमुत्तमम् । सुषुम्णा-वर्त्मना देवि! कण्ठदेशाद्विनिर्गतम् । चैतन्यञ्च महेशानि!योगिनां योगरूपकम् । सहस्रारे वर्णरूपं परिणामक्रमेण तु । कर्णिकामध्यसंस्थे तु नादविन्दुसमन्वितम् ।एवं संचिन्तयेद्देवीं चैतन्यञ्च पुनः पुनः । मन्त्राक्षराणिचिच्छक्तौ ग्रथितानि महेश्वरि! । तानि सञ्चिन्तयेद्देवि!सहस्रारदले तथा । चैतन्यमन्त्ररूपा च चैतन्यानन्द-दायिनी । चैतन्यनादशक्तिश्च चैतन्यवर्णरूपकम् । मणि-पूरे सदा चिन्त्यं मन्त्राणां प्राणरूपकम् । अथवान्यप्रकारेणश्रूयतां वरवर्णिनि! । कामवीजं (क्लीं) रमावीजं (श्रीं)शक्तिवीजं (ह्रीं) सुरेश्वरि! । एतानि पूर्वमुच्चार्य्य मातृकांतदनन्तरम् । पुटितं मूलमन्त्रञ्च शतमष्टोत्तरं जपेत् ।कोटिकोटिगुणञ्चैव लभते नात्र संशयः । अथवान्यप्रकारेण चैतन्यं शृणु पार्वति! । येन विज्ञातमात्रेणपरमं पश्यति ध्रुवम् । सूर्य्यमण्डलमध्यस्थं चिन्तयेन्-मूलमन्त्रकम् । अष्टोत्तरशतं जप्यं मूलविद्यास्वरूपकम् ।गुरुं सञ्चिन्तयेत्तत्र शिवरूपं सनातनम् । शक्तिञ्च चिन्तये-त्तत्र ब्रह्मरूपां सनातनीम् । एवं सञ्चिन्तयेद्यस्तुजपेद्वा सुरसुन्दरि! । नासाध्यं तस्य लोकेऽस्मिन्मुक्ति-र्देवि! करे स्थिता” । तथा प्रथमपटले “मन्त्रार्थं मन्त्र-चैतन्यं योनिमुद्रां न वेत्ति यः । न सिद्ध्यति वरारोहे!कल्पकोटिशतैरपि । शतकोटिजपेनापि तस्य विद्यान सिद्ध्यतीति” । सरस्वतीतन्त्रे “कथयामि महा-मन्त्रं मन्त्रार्थञ्च महेश्वरि! । येन विज्ञातमात्रेणसर्वसिद्धीश्वरो भवेत् । केवलं भाववुद्ध्या च मन्त्रार्थंप्राणवल्लभे! । केवलं ज्ञानयोगेन जीवन्मुक्तो भवेद्-ध्रुवम् । काली तारा महाविद्या षोडशी भुवनेश्वरी ।भैरवी छिन्नमस्ता च विद्या धूमावती प्रिये! । वगलाचैव मातङ्गी कमला च प्रकीर्त्तिता । ब्रह्मविष्णुमहेशाद्यैश्चतुर्वेदैर्नमस्कृता । भोगटा मोक्षदा देवी कोटिब्रह्माण्डगोपिता । अस्याग्रहणमात्रेण जीवन्मुक्तस्तुसाधकः” । वरदातन्त्रे षष्ठपटले “शिव उवाच । मन्त्रार्थंकथयाम्यद्य शृणुष्व परमेश्वरि! । विना येन न सि-ध्येत्तु साधनैः कोटिभिः शिवे! । आदौ प्रसादवीजस्यमन्त्रार्थं शृणु पार्वति! । शिववाची हकारस्तु औकारःस्यात् सदाशिवः । शून्यं दुःखहरन्तु स्यात् तस्मात्तेनशिवं यजेत् । हौँ । दं दुर्गावाचकं देवि! ऊकारश्चापिरक्षणे । विश्वमाता नादरूपा । सर्वार्थो विन्दुरूपकः ।तस्मात्तेनैव वीजेन दुर्गामाराधयेत् शिवे! । दूँ । “ककाली व्रह्म र प्रोक्तं महामायार्थकश्च ई । विश्वमाता-र्थकोनादो विन्दुर्दुःखहरार्थमः । तेनैव कालिकादेवीं पूजयेद्दुःखशान्तये । क्रीम् । हकारः शिववाची-स्यात् रेफः प्रकृतिरुच्यते । महामायार्थ ईशब्दो नादो-विश्वप्रसूः स्मृतः । दुःखहरार्थकोविन्दु र्भुवनां तेनपूजयेत्” ह्रीम् । महालक्ष्म्यर्थकः शः स्याद्धनार्थोरेफ उच्यते । ई तुष्ट्यर्थोऽपरो नादो विन्दुर्दुःखहरा-र्थकः । लक्ष्मीदेव्या वीजमेतत्तेन देवीं प्रपजयेत् ।श्रीँ । सरस्वत्यर्थ ऐशब्दो विन्दुर्दुःखहरार्थकः ।सरस्वत्यावीजमेतत्तेन वाणीं प्रपूजयेत् । ऐँ । कः काम-देव उद्दिष्टोऽप्यथवा कृष्ण उच्यते । लैन्द्रई तुष्टिवाचीसुखदुःखप्रदञ्च अम् । कामवीजार्थ उक्तस्ते तव स्नेहान्महेश्वरि । क्लीँ । हः शिवः कथितो देवि! ऊर्भेरव इहो-च्यते । परार्थो नादशब्दस्तु विन्दुर्दुःखहरार्थकः ।वर्मवीजमयोह्यत्र कथितस्तव यत्नतः । हूँ । गणेशार्थेगौक्तस्ते विन्दुर्दुःखहरार्थकः । गंवीजार्थस्तु कथितस्तवस्नेहान् महेश्वरि! । गँ । ग गणेशो व्यापकार्थो लकारस्तेज और्मतः । दुःखहरार्थकोविन्दु र्गणेशं तेन पूजयेत् ।ग्लौँ । क्षौंनृसिंहो ब्रह्म रश्च ऊर्द्ध्वदन्तार्थकश्च औः । दुःखहरार्थको विन्दुर्नृसिंहं तेन पूजयेत् । क्ष्रौँ । ना-मादिवर्णः सर्वेषां नामौक्तं स्वयम्भुवा । तेनैवार्थन्तु-जानीयादर्थलभ्यन्तु चिन्तयेत् । यथायथं विभक्त्यन्तंमन्त्रार्थो चिन्तयेच्छिवे! । तत्तद्वर्णादियोगेन संक्षेपात्कथितं त्वयि । दुर्गोत्तारणबाचीस्तारकार्थस्तकारकः ।मुक्त्यर्थोरेफौक्तोऽत्र महामायार्थकश्च ई । विश्वमातार्थ-कोनादो विन्दुर्दुःखहरार्थकः । बधूवीजार्थ उक्तो-ऽत्र तव स्नेहान् महेश्वरि! । स्त्रीँ । यत्र विन्दुद्वयंमन्त्रे एकं दुःखहरार्थकम् । अन्यत् सुखप्रदं देवि!ज्ञात्वा चार्थं विचिन्तयेत् । यत्र विन्दुद्वयं मन्त्रे अन्यत्पूर्णार्थकं मतम् । स्वाहामात्रार्थका देवी परार्था वा प्रकी-र्त्तिता । शक्रमाता वषट्प्रोक्ता हरिप्रियार्थका गिरा ।सुरार्था फठयग्रीवे विव्रिं वीजं विनिर्दिशेत् । यं-वीजं वायुवाचि स्यात् लमैन्द्रं परिकीर्त्तितम् । अने-काक्षरवीजे च स्वस्ववीजं स्वनामकम् । एवं ज्ञात्वामहेशानि! मन्त्रार्थं परिचिन्तयेत् । एकवीजद्वयं यत्रपृथगर्थं प्रकल्पयेत् । वीप्सार्थं वा महेशानि ज्ञात्वामन्त्रं जपेद्धिया । इति ते कथितो देवि मन्त्रार्थःपरमेश्वरि! ईंवीजेनैव पुटितं मूलमन्त्रं जपेद्यदि ।तदेव मन्त्रचैतन्यं भवत्येव सुनिश्चितम्” । सरस्वतीतन्त्रेप्रथमपटले “ईश्वर उवाच । मन्त्रार्थं प्ररमेशानि!सावधानावधारय । मूलाधारे मूलविद्यां भावयेदिष्टदेवताम् । शुद्धस्फटिकसङ्काशां भावयेत् परमेश्वरीम् ।भावयेदक्षरश्रेणीमिष्टविद्यां सनातनीम् । मुहूर्त्तार्द्धंविभाव्यैतां पश्चाद्ध्यानपरो भवेत् । ध्यानं कृत्वा महे-शानि! मूहूर्त्तार्द्धं ततः परम् । ततोजीवो महेशानि!भनसा कमलेक्षणे! । स्वाधिष्ठानं ततोगत्वा भावयेदिष्टदेवताम् । वन्धूकारुणसङ्काशां जवासिन्दूरसन्निभाम् ।विभाव्य अक्षरश्रीणीं पद्ममध्यगतां पराम् । ततो जीवःप्रसन्नात्मा पक्षिणा सह सुन्दरि! । मणिपूरं ततो गत्वाभावयेदिष्टदेवताम् । विभाव्य अक्षरश्रेणीं पद्ममध्यगतांपराम् । शुद्ध्वस्फटिकसङ्काशां शिरापद्मोपरिस्थिताम् ।ततोजीवो महेशानि! पक्षिणा सह पार्वति! । हृत्पद्मंप्रययौ शीघ्रं नीरजायतलोचने! । इष्टविद्यां महेशानि! ।मावयेत् कमलोपरि । विभाव्य अक्षरश्रेणीं महामरकत-प्रभाम् । ततोजीवो वरारोहे! विशुद्धं प्रययौ प्रिये! ।तत्पद्मगहनं गत्वा पक्षिणा सह पार्वति! । इष्टविद्यांमहेशानि! आज्ञांशे परिचिन्तयेत् । पक्षिणा सह देवेशि!खञ्जनाक्षि! शुचिस्मिते! । इष्टविद्यां महेशानि! साक्षा-द्ब्रह्मस्वरूपिणीम् । विभाव्य अक्षरश्रेणीं हरिद्वर्णांवरानने! । आज्ञाचक्रे महेशानि! षट्चक्रे ध्यानमा-चरेत् । षट्चक्रे परमेशानि! ध्यानं कृत्वा शुचिस्मिते! ।ध्यानेन परमेशानि! यद्रूपं समुपस्थितम् । तदेव पर-मेशानि! मन्त्रार्थं विद्धि पार्वति” अथ कुल्लुकादि ।सरस्वतीतन्त्रे तृतीयपटले “तारायाः कुल्लूकादेवि! महानीलसरखती । पञ्चाक्षरी कालिकायोःकुल्लुका परिकीर्त्तिता । कालीकूर्च्चं वधूमाया फट्कारान्तामहेश्वरि! । च्छिन्नावास्तु महेशानि! कुल्लुकाष्टाक्षरीभवेत् । वज्रवैरोचनीये च अन्ते वर्म च पूरयेत् । सम्पत्-प्रदायाः प्रथमं भैरव्याः कुल्लुका भवेत् । श्रीमत्त्रिपुर-सुन्दर्य्याः कुल्लूका द्वादशाक्षरी । वाग्भवं प्रथमं वीजंकामवीजमनन्तरम् । लज्जावीजं ततः पश्चात् त्रिपुरेतिततःपरम् । भगवतीति ततः पश्चादन्ते ठद्वयमुद्धरेत् ।अथ कामवीजञ्च कुल्लुका परिकीर्त्तिता । प्रासाद-वीजं शम्भोश्च मञ्जुघोषे षडक्षरम् । एकार्णा भुवनेश्वर्य्याविष्णोः स्यादष्टवर्णकम् । नमोनारायणायेति प्रण-वाद्यञ्च कुल्लुका । मातङ्ग्याः प्रथमं बीजं माया धूमा-वतीं प्रति । वालायाश्च वधूवीजं लक्ष्म्याश्च निजवीजकम् ।सरस्वत्या वाग्भवञ्च अन्नदाया अनङ्गक! । अपरेषाञ्चदेवानां मन्त्रमात्रं प्रकीर्त्तितम् । इयन्ते कथिता देवि!संक्षेपात् कुल्लुका मया । अज्ञात्वा कुल्लुकामेतांयोजपेदधर्मः प्रिये! । पञ्चत्वमाशु लभते सिद्ध्विहानिस्तुजायते । तथा जपादिकं सर्वं निष्फलं नात्र संशयः ।तस्मात् सर्वप्रयत्नेन धारयेन्मूर्द्ध्नि कुल्लुकाम्” । तथा“विप्राणां प्रणवः सेतुः क्षत्रियाणां तथैव च । वैश्याना-ञ्चैव फट्कारो माया शूद्रस्य कथ्यते । अजप्त्वाहृदि देवेशि! यो वै मन्त्रं समुच्चरेत् । सर्वेषामेव मन्त्राणामधिकारोन तस्य हि । महासेतुश्च देविशि! सुन्दर्य्याभुवनेश्वरी । कालिकायाः स्वबीजञ्च तारायाः कूर्च्च-वीजकम् । अन्यासान्तु वधूवीजं महासेतुर्वरानने! ।आदौ जप्त्वा महासेतुं जपेन्मन्त्रमनन्यधीः । धनेवनेशतुल्योऽसौ वाप्यावाणीश्वरोपमः । युद्धे कृतान्तसदृशो नारीणां मदनोपमः । जपकालो भवेत्तस्य सर्वः कालोन संशयः । अथ वक्ष्यामि निर्वाणं शृणुष्वावहितानघे! ।प्रणवं पूर्वमुच्चार्य्य मातृकाद्यं समुद्धरेत् । तती मूलंमहेशानि! ततोवाग्भवमुद्धरेत् । मातृकास्तु समस्तास्तुपुनः प्रणवमुद्धरेत् । एवं पुटितमूलन्तु प्रजपेन्-मणिपूरके । एवं निर्वाणमिशानि! यो नं जानातिप्रामरः । कल्पकोटिसहस्रेण तस्य सिद्धिर्न जायते” ।षथ मुखशोधनम् । पञ्चमपटले “ईश्वर उवाच । अप-रैकं प्रवक्ष्यामि मुखशोधनमुत्तमम् । यन्न कृत्वा महादेवि!जपपूजा वृथा मवेत् । अशुद्धजिह्वया देवि! योजपेत्-स तु पापकृत् । तस्मात्सर्वप्रयत्नेन जिह्वाशोघनमाचरेत् ।महात्रिपुरसुन्दर्य्या मुखस्य शोधनं शुभे! । श्रीवीजं प्रणवोलक्ष्मीस्तारः श्रीः प्रणवस्तथा । इमं षडक्षरं मन्त्रंसुन्दर्य्या दशधा जपेत् । शृणु सुन्दरि! श्यामाया मुखशोधनमुत्तमम् । निजवीजत्रयं देवि! प्रणवत्रितयं पुनः ।कामत्रयं वह्निविन्दुरतिचन्द्रयुतं पृथक् । एषा नवा-क्षरी विद्या मुखशोधनकारिणी । तारायाः शृणु-चार्वङ्गि! अपूर्वमुखशोधनम् । जीवनं मध्यमं लज्जांमुवनेशीं ततः प्रिये! । त्र्यक्षरीयं महाविद्या विज्ञेया-ऽमृतवर्षिणी । दुर्गायां शृणु चार्वङ्गि! मुखशोधन-मुत्तमम् । द्वादशस्वरमुद्धृत्य विन्दुयुक्तं त्रयं तथा । अपरैकंप्रवक्ष्यामि वगलामुखशोधनम् । वाग्भवं भुवनेशीञ्चवाग्वीजसुरवन्दिते! । मातङ्ग्याः शोधनं देवि! अङ्कुशंवाग्भवन्तथा । वीजञ्चाङ्कुशमेतद्धि विज्ञेयं त्र्यक्षरी-यकम् । लक्ष्म्याश्च शोधनं देवि! श्रीवीजं कमलानने! ।दुर्गायाः शोधनं माया वाग् वीजपुटिता भवेत् । दुर्गे-स्वाहा पुनर्म्माया वाग्वीजञ्च पुनश्च वाक् । प्रणवंदान्तमुद्धृत्य वामकर्णविभूषितम् । पुनः प्रणवमुद्धृत्यधनदामुखशोधनम् । एवंमन्त्रं महेशानि! धूमा-वत्याभवेदपि । प्रणवो विन्दुमान् देवि! पञ्चान्तकोगणे-शितुः । वेदादिगगनं विह्निमनुयुन्मन्तु चन्द्रवत् ।द्व्यक्षरः परमेशानि! । विष्णोश्च मुखशोधनम् । अन्यासांप्रणवं देवि! वालादीनां प्रकीर्त्तितम् । स्त्रीणाञ्च शूद्र-तुल्यं हि मुखशीधनमीरितम् । मुखशोधनमात्रेण जिह्वा-ऽमृतमयो भवेत् । अन्यथा मुखविड्युक्ता जिह्वा भवतिसर्व्वदा । भक्षणैर्दूषिता जिह्वा मिथ्यावाक्येन दूषिता ।कलहैर्दूषिता जिह्वा तत्कथं प्रजपेन्मनुम् । तच्छोधन-मनाचर्य्य न जपेत् पामरः क्वचित् । शैवशाक्तवैष्णवादेःसर्वस्यावश्यमेव वा । अन्यथा प्रजपेन्मन्त्रं मोहेन यदिभाविनि! । सर्वं तस्य वृथा देवि! मन्त्रसिद्धिर्न जायते ।अन्ते नरकगामी च भवेत् सोऽपि न चान्यथा । देवो यदिजपेन् मन्त्रं अकृत्वा मुखशोधनम् । तपनं तस्य देवेशि!किं पुनर्म्मर्त्यवासिनाम्” । षष्ठपटले “ईश्वर उवाच ।अथ वक्ष्यामि देवेशि! प्राणयोगं शृणुष्व मे । विना प्राणंयथा देहः सर्वकर्मसु न क्षमः । विना प्राणं तथा मन्त्रःपुरश्चर्य्याशतैरपि । मायया पुटितोमन्त्रः सप्तधा जपतःपुनः । सप्राणो जायते देवि! सर्वत्रायं विधिःस्मृतः ।तथैव दीपनीं वक्ष्ये सर्वमन्त्रे च भाविनि! । अन्धकारेगृहे यद्वन्न किञ्चित् प्रतिभामते । दीपनीरहितो मन्त्रस्तथैव परिकीर्त्तितः । वेदादिपुटितं मन्त्रं सप्तवारंजपेत्पुनः । दीपनीयं समाख्याता सर्वत्र परमेश्वरि! ।वेदादिपुटितं कृत्वा प्रयत्नेन सुरेश्वरि! । दशधा प्रज-पेन्मन्त्रं सूतकद्वयमुक्तये । अथोच्यते जपस्यात्र क्रम-श्च परमाद्भतः । यं कृत्वा सिद्धिसंघानामधिपोजावतेमरः । नतिर्गुर्वादिनामादौ नमो मन्त्रशिखां भजेत् ।ततोऽपि मन्त्रचैतन्यं मन्त्रार्थभावना ततः । गुरुध्यानंशिरःपद्मे हृदीष्टध्यानमाचरेत् । कुल्लुकाञ्च ततःसेतुं महासेतुमनन्तरम । निर्वाणञ्च ततो देवि! योनि-मुद्राविभायना । अङ्गन्यासं प्राणायामं जिह्वाशोधन-मेव च । प्राणयोगं दीपनीञ्च अशौचभङ्गमेव च ।म्रूमध्ये वा नसोरग्रे दृष्टौ सेतुं जपेत् पुनः । सेतुमशौचभङ्गञ्च प्राणायाममिति क्रमः” । चतुर्थपटले । “कुल्लुकांमूर्द्ध्निसंजप्य हृदि सेतुं विचिन्तयेत् । महासेतुं विशुद्धौच कण्ठदेश समुद्धरेत् । मणिपूरे तु निर्वाणं महाकुण्ड-लिनीमधः । स्वाधिष्ठाने कामवीजं राकिणीमूर्द्ध्नि संस्थि-तम् । विचिन्त्य विधिवद्देवि! मूलाधारान्तिके शिवे! ।विशुद्धान्तं स्मोद्देवि! विसतन्तुतनीयसीम् । वेदिस्थानंहि जीवान्तं मूलमन्त्रावृतं मुहुः” ।
क्षीरतरङ्गिणी
Sanskritजपँ जप मानसे च
- (अर्थविवरणम्) मनोनिर्वर्त्ये वचने
जपति लुपसदचर (3124) इति यङ्-जञ्जप्यते, जपजभदह (7486) इति नुक् पोरदुपधाद् (3198) यत्-जप्यम् स्तम्बकर्णयोरमिजपोः (3213) अच्-कर्णेजपः व्यधजपोरनुपसर्गे (3361) अप्- जपः जपितः जप्तस्त्वादितश्च (7216) इति चकारस्यानुक्तसमुच्चयार्थत्वादित्याहुः390
कृदन्तरूपमाला
Sanskrit1 {@“जप व्यक्तायां वाचि”@} 2 ‘जप मानसे च’ मनोनिर्वर्त्ये वचने--इत्यर्थः।
जापकः-पिका, जापकः-पिका, जिजपिषकः-षिका, 3 जञ्जपकः-जन्जपकः-पिका
जपिता-त्री, जापयिता-त्री, जिजपिषिता-त्री, जञ्जपिता-जन्जपिता-त्री
4 जपन्-न्ती, 5 व्यतिजपन्-न्ती, जापयन्-न्ती, जिजपिषन्-न्ती
-- जपिष्यन्-न्ती-ती, जापयिष्यन्-न्ती-ती, जिजपिषिष्यन्-न्ती-ती
-- -- जापयमानः, -- जञ्जप्यमानः-जन्जप्यमानः
-- जापयिष्यमाणः, -- जञ्जपिष्यमाणः-जन्जपिष्यमाणः
जप्-जब्-जपौ-जपः
-- -- -- जपितम्-तः, 6 जप्तम्, जापितः, जिजपिषितः, जञ्जपितः-जन्जपितः-तवान्
जपः, 7 कर्णेजपः, 8 जापः, जिजपिषुः, जञ्जपः-जन्जपः, 9 जञ्जपूकः
10 11 जपितव्यम्, जापयितव्यम्, जिजपिंषितव्यम्, जञ्जपितव्यम्-जन्जपितव्यम्
जपनीयम्, जापनीयम्, जिजपिषणीयम्, जञ्जपनीयम्-जन्जपनीयम्
12 जप्यम्, 13 जाप्यम्, जिजपिष्यम्, जञ्जप्यम्-जन्जप्यम्
ईषज्जपः-दुर्जपः-सुजपः
-- -- -- जप्यमानः, जाप्यमानः, जिजपिष्यमाणः, जञ्जप्यमानः-जन्जप्यमानः
14 जपः, 15 उपजापः, जापः, जिजपिषुः, जञ्जपः-जन्जपः
जपितुम्, जापयितुम्, जिजपिषितुम्, जञ्जपितुम्-जन्जपितुम्
जप्तिः, जापना, जिजपिषा, जञ्जपा-जन्जपा
जपनम्, जापनम्, जिजपिषणम्, जञ्जपनम्-जन्जपनम्
जपित्वा, जापयित्वा, जिजपिषित्वा, जञ्जपित्वा-जन्जपित्वा
सञ्जप्य, प्रजाप्य, प्रजिजपिष्य, प्रजञ्जप्य-प्रजन्जप्य
जापम् २, जपित्वा २, जापम् २, जापयित्वा, जिजपिषम् २, जिजपिषित्वा २, जञ्जपम् २-जन्जपम् २
जञ्जपित्वा २-जन्जपित्वा २।
01 (५८४)
02 (१-भ्वादिः-३९७। सक। सेट्। पर।)
03 [[१। ‘लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्’ (३-१-२४) इति सूत्रेण गर्हितं जपतीत्यर्थे यङ्। द्विर्वचनम्, अभ्यासस्य, ‘जपजभदहदशभञ्जपशां च, (७-४-८६) इत्यनेन नुगागमे, तस्य ‘पदान्तवद्वाच्यः, (वा। ७-४-८५) इति पदान्तवद्भावेन ‘वा पदान्तस्य’ (८-४-५९) इति पाक्षिके परसवर्णे रूपद्वयम्। एवं यङन्ते सर्वत्र रूपद्वयं ज्ञेयम्।]]
04 [[आ। ‘आ तिष्ठद्गु जपन् सन्ध्यां प्रकान्तामायतीगवम्।’ भ। का। ४। १४।]]
05 [[२। ‘प्रतिषेधे हसादीनामुपसंख्यानम्’ (वा। १-३-१५) इति वचनात् कर्मव्यतीहारेऽपि न शानच्।]]
06 [[३। ‘सेटोऽप्यस्य धातोः क्वचिदिडभावेनापि प्रयोगो दृश्यते। तस्य साधुत्वकल्पनाय ‘आदितश्च’ (७-२-१६) इति सूत्रे, काशिकायां ‘चकारोऽनुक्तसमुच्चयार्थः। आश्वस्तः। वान्तः।’ इत्युदाहरणं दत्तम्।’ तदिहानुसन्धेयम्। ‘वमजप्- व्याश्वसो निष्ठाया इड् वा’ इति केचित् जपितः जप्तः, इति प्रक्रियाकौमुदी।]]
07 [[४। ‘स्तम्बकर्णयो रमिजपोः’ (३-२-१३) इति सुबन्ते उपपदे अच्प्रत्ययः। ‘तत्पुरुषे कृति बहुलम्’ (६-३-१४) इति सप्तम्या अलुक्। ‘हस्तिसूचकयोरिति वक्तव्यम्’ (वा। ३-२-१३) इति वचनात् कर्णेजपः इति सूचके एव साधुः।]]
08 [[B। ‘कर्णेजपैराहितराज्यलोमा स्त्रैणेन नीता विकृतिं लघिम्ना।’ भ। का। ३। ७।]]
09 [[५। ‘यजजपदशां यङः’ (३-२-१६६) इति तच्छीलादिषु कर्तृषु यङन्तादूकप्रत्यये, ‘यस्य हलः’ (६-४-४९) इति यकारलोपे, अभ्यासस्य नुगागमे च रूपम्।]]
10 [[C। ‘जन्मधामनि निजे नियमस्थं जञ्जपूकमभिसृत्य जघान।।’ यादवाभ्युदये २१। ४०।]]
11 [पृष्ठम्०५५७+ २५]
12 [[१। ‘पोरदुपधात्’ (३-१-९८) इति यत्। ण्यदपवादः।]]
13 [[आ। ‘मत्वा सहिष्णूनपरोपजप्यान् स्वकानधिष्ठाय जलान्तदुर्गान्।’ भ। का। १२। ३२।]]
14 [[२। ‘व्यधजपोरनुपसर्गे’ (३-३-६१) इति भावे, अप्प्रत्ययः। उपसृष्टात्तु घञेव। उपजापः।]]
15 [[B। ‘गोपायतां धर्ममधूपितात्मनां जल्पान् विमुच्याभवदुद्यमो जपे।।’ धा। का। १। ५१।]]
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
