जन्माष्टमी (janmASTamI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiजन्माष्टमी
जन्मन्-अष्टमी -
"भाद्रपद कृष्णपक्ष की अष्टमी, श्रीकृष्ण का जन्मदिन"
Shabdartha Kaustubha
Kannadaजन्माष्टमी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಶ್ರೀಕೃಷ್ಣಜನ್ಮಾಷ್ಟಮಿ /ಕೃಷ್ಣನು ಅವತರಿಸಿದ ಶ್ರಾವಣ ಕೃಷ್ಣಾಷ್ಟಮಿ
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritजन्माष्टमी, (जन्मनः श्रीकृष्णोत्पत्तेरष्टमीतिथिः ।) भाद्रकृष्णाष्टमी । सा च श्रीकृष्णस्यजन्मतिथिः । सा तु मुख्यचान्द्रेण श्रावणस्यकृष्णाष्टमी गौणचान्द्रेण भाद्रस्य । तत्रश्रीकृष्णस्य जन्मकालो यथा, ब्रह्मपुराणे ।“अथ भाद्रपदे मासि कृष्णाष्टम्यां कलौ युगे ।अष्टाविंशतिमे जातः कृष्णोऽसौ देवकीसुतः ॥
”विष्णुपुराणे महामायां प्रति भगवद्बाक्यम् ।“प्रावृट्काले च नभसि कृष्णाष्टम्यां महानिशि ।उत्पत्स्यामि नवम्यान्तु प्रसूतिं त्वमवाप्म्यसि ॥
श्रावणे वा नभस्ये वा रोहिणीसहिताष्टमी ।यदा कृष्णे नरैर्लब्धा सा जयन्ती प्रकीर्त्रिता ॥
”अग्निपुराणे ।“रोहिणीसहिता कृष्णा मासि भाद्रपदेऽष्टमी ।सप्तम्यामर्द्धरात्राधःकलयापि यदा भवेत् ॥
तत्र जातो जगन्नाथः कौस्तुभी हरिरीश्वरः ।तमेवोपवसेत् कालं तत्र कुर्य्याच्च जागरम् ॥
अविद्धायाञ्च सर्क्षायां जातो देवकीनन्दनः ॥
”इति सप्तम्यवेधे जन्मश्रवणकल्पभेदादविरुद्धम् ॥
नवम्यादियोगस्य प्रशंसा यथा । ब्रह्मवैवर्त्ते ।“उदये चाष्टमी किञ्चिन्नवमी सकला यदि ।भवेत्तु बुधसंयुक्ता प्राजापत्यर्क्षसंयुता ।अपि वर्षशतेनापि लभ्यते वा न वा विभो ! ॥
”पद्मपुराणे ।“प्रेतयोनिगतानान्तु प्रेतत्वं नाशितन्तु तैः ।यैः कृता श्रावणे मासि अष्टमी रोहिणीयुता ॥
किं पुनर्बुधवारेण सोमेनापि विशेषतः ।किं पुनर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदा ॥
”उपवासादिफलं यथा, भविष्यपुराणे ।“एकेनैवोपवासेन कृतेन कुरुनन्दन ! ।सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः ॥
”ब्रह्मवैवर्त्ते ।“मन्वादिदिवसे प्राप्ते यत् फलं स्नानपूजनैः ।फलं भाद्रपदेऽष्टम्यां भवेत् कोटिगुणं द्बिज ! ॥
तस्यान्तिथौ वारिमात्रं पितॄणां यः प्रयच्छति ।गयाश्राद्धं कृतं तेन शताब्दं नात्र संशयः ॥
”उपवासाकरणे दोषो यथा, भविष्योत्तरे ।“श्रावणेऽबहुले पक्षे कृष्णजन्माष्टमीव्रतम् ।न करोति नरो यस्तु स भवेत् क्रूरराक्षसः ॥
वर्षे वर्षे च या नारी कृष्णजन्माष्टमीव्रतम् ।न करोति महाक्रूरा व्याली भवति कानने ॥
”स्कान्दे ।“न करोति यदा विष्णोर्ज्जयन्तीसंज्ञकं व्रतम् ।यमस्य वशमापन्नः सहते नारकीं व्यथाम् ॥
”भविष्ये ।“तुष्ट्यर्थं देवकीसूनोर्ज्जयन्तीसंज्ञकं व्रतम् ।कर्त्तव्यं चिन्त्यमानेन भक्त्या भक्तजनैः सह ॥
अकुर्व्वन् नरकं याति यावदिन्द्राश्चतुर्द्दश ॥
”तत्रोपवासक्रमः, भविष्यपुराणे ।“पार्थ ! तद्दिवसे प्राप्ते दन्तधावनपूर्व्वकम् ।उपवासस्य नियमं गृह्णीयाद्भक्तिभावतः ॥
वासुदेवं समुद्दिश्य सर्व्वपापप्रशान्तये ।उपवासं करिष्यामि कृष्णाष्टम्यां नभस्यहम् ॥
अद्य कृष्णाष्टर्मां देवीं नभश्चन्द्रसरोहिणीम् ।अर्च्चयित्वोपवासेन भोक्ष्येऽहमपरेऽहनि ॥
एनसो मोक्षकामोऽस्मि यद्गोविन्द ! त्रियोनिजम् ।तन्मे मुञ्चतु मां त्राहि पतितं शोकसागरे ॥
आजन्ममरणं यावद्यन्मया दुष्कृतं कृतम् ।तत् प्रणाशय गोविन्द ! प्रसीद पुरुषोत्तम ! ॥
”गृहमुपक्रम्य ।“तन्मध्ये प्रतिमा स्थाप्या काञ्चनादिविनिर्म्मिता ।प्रतप्तकाञ्चनाभा सा देवकी सुतपस्विनी ॥
माञ्चापि बालकं सुप्तं प्रसूता नीरदच्छविम् ।वसुदेवोऽपि तत्रैव खड्गचर्म्मधरं स्थितम् ॥
यशोदा चापि तत्रैव प्रसूतवरकन्यका ।बलभद्रस्तथा नन्दो दक्षो गर्गश्चतुर्मुखः ॥
एवं संपूजयेद्भक्त्या गन्धपुष्पाक्षतैः फलैः ।स्थण्डिले स्थापयेद्देवीं सचन्द्रां रोहिणीन्तथा ॥
देवकीं वसुदेवञ्च यशोदां नन्दमेव च ।चण्डिकां बलदेवञ्च पूज्य पापैः प्रमुच्यते ॥
अर्द्धरात्रे वसोर्धारां पातयेद्गुडसर्पिषा ।ततो वर्द्धापनं षष्ठीं नामादेः करणं मम ॥
कर्त्तव्यं तत्क्षणाद्रात्रौ प्रभाते नवमीदिने ।यथा मम तथा कार्य्यो भगवत्या महोत्सवः ॥
ब्राह्मणान् भोजयेद्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् ।सुवर्णं काञ्चनं गाश्च वासांसि कुसुमानि च ॥
यद्यदिष्टतमं लोके कृष्णो मे प्रीयतामिति ।यं देवं देवकी देवी वसुदेवादजीजनत् ॥
भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः ।सुब्रह्मवासुदेवाय गोब्राह्मणहिताय च ॥
शान्तिरस्तु शिवञ्चास्तु इत्युक्त्रा तान् विसर्ज्जयेत् ॥
एवं यः कुरुते देव्या देवक्या सुमहोत्सवम् ।वर्षे वर्षे भगवतो मद्भक्त्या धर्म्मनन्दन ! ।नरो वा यदि वा नारी यथोक्तफलमाप्नुयात् ॥
पुत्त्रसन्तानमारोग्यधनधान्यर्द्धिमद्गृहम् ।सम्पर्केणापि यः कुर्य्यात् कश्चिज्जन्माष्टमीव्रतम् ॥
विष्णुलोकमवाप्नोति नरो नास्त्यत्र संशयः ॥
”पूजा च मध्यरात्रे गारुडे ।“कृष्णाष्टम्यान्तु रोहिण्यामर्द्धरात्रेऽर्च्चनं हरेः ॥
”व्रतपारणयोः कालनियमः । एकदिने जयन्ती-लाभे तत्रैवोपवासः । उभयदिने चेत्तदा पर-दिने । जयन्त्यलाभे तु रोहिणीयुक्ताष्टम्याम् ।उभयदिने रोहिणीयुताष्टमीलाभे परदिने तद-लाभे तु निशीथसम्बन्धिन्यामष्टम्यां उभयदिनेनिशीथसम्बन्धे तदसम्बन्धे वा परदिने इति ।उपवासपरदिने तिथिनक्षत्रयोरवसाने पार-णम् । यदा महानिशायाः पूर्व्वमेकतरस्याव-सानमन्यतरस्य महानिशायां तदनन्तरं वातदैकतरावसाने पारणं यदा महानिशाया-मुभयस्थितिस्तदा उत्सवान्ते पारणम् ।” इतितिथ्यादितत्त्वम् ॥
* ॥
हरिभक्तिविलासमते तूपवासकालो यथा, --“जन्माष्टमी पूर्व्वविद्धा न कर्त्तव्या कदाचन ।पलवेधे तु विप्रेन्द्र ! सप्तम्यां चाष्टमीं त्यजेत् ॥
सुराया बिन्द्वना स्पृष्टं गङ्गाम्भःकलसं यथा ।विना ऋक्षेण कर्त्तव्या नवमीसंयुताष्टमी ॥
सऋक्षापि न कर्त्तव्या सप्तमीसंयुताष्टमी ।तस्मात् सर्व्वप्रयत्नेन त्याज्यमेवाशुभं बुधैः ॥
वेधे पुण्यक्षयं याति तमः सूर्य्योदये यथा ।यच्च वह्निपुराणादौ प्रोक्तं विद्धाष्टमीव्रतम् ।अवैष्णवपरं तच्च कृतं वा देवमायया ॥
”पारणकालो यथा, --“यद्वा तिथ्यर्क्षयोरेव द्बयोरन्ते तु पारणम् ।समर्थानामशक्तानां द्बयोरेकवियोगतः ॥
केचिच्च भगवज्जन्ममहोत्सवदिने शुभे ।भक्त्योत्सवान्ते कुर्व्वन्ति वैष्णवा व्रतपारणम् ॥
”तद्ब्रतकथा यथा, --“एकदा श्रीकुलाचार्य्यं वशिष्ठमृषिसत्तमम् ।राजा दिलीपः पप्रच्छ विनयावनतः सुधीः ॥
दिलीप उवाच ।भाद्रे मास्यसिते पक्षे यस्यां जातो जनार्द्दनः ।तत्कथां श्रोतुमिच्छामि कथयस्व महामुने ! ॥
कथं वा भगवान् जातः शङ्खचक्रगदाधरः ।देवकीजठेरे विष्णुः किं कर्त्तुं केन हेतुना ॥
वशिष्ठ उवाच ।शृणु राजन् ! प्रवक्ष्यामि यस्माज्जातो जनार्द्दनः ।पृथिव्यां त्रिदिवं त्यक्त्रा भवते कथयाम्यहम् ॥
पुरा वसुन्धरा ह्यासीत् कंसाराघनतत्परा ।स्वाधिकारप्रमत्तेन कंसदूतेन ताडिता ॥
क्रन्दन्ती लज्जिता सापि ययौ घूर्णितलोचना ।यत्र तिष्ठति देवेश उमाकान्तो वृषध्वजः ॥
कंसेन ताडिता नाथ ! इति तस्मै निवेदितम् ।वास्पधारां प्रवर्षन्तीं विवर्णामपमानिताम् ॥
क्रन्दन्तीं तां समालोक्य कोपेन स्फुरिताधरः ।उमया सहितः सर्व्वैर्द्देववृन्दैरनुद्रुतः ॥
आजगाम महादेवो विधातुर्भवनं रुषा ।गत्वा चोवाच ब्रह्माणं कंसध्वंसनिमित्तकम् ॥
उपायः सृज्यतां ब्रह्मन् ! भवता विष्णुना सह ।ऐश्वरं तद्बचः श्रुत्वा गन्तुं प्राक्रामदात्मभूः ॥
क्षीरोदे यत्र वैकुण्ठः सुप्तः स भुजगोपरि ।हंसपृष्ठे समारुह्य हरेरन्तिकमाययौ ॥
तत्र गत्वा हरिं ध्यात्वा देववृन्दैर्हरादिभिः ।तुष्टाव भगवान् वाग्भिरर्थ्याभिर्व्वाग्विदाम्बरः ॥
नमः कमलनेत्राय हरये परमात्मने ।जगतः पालयित्रे च लक्ष्मीकान्त ! नमोऽस्तु ते ॥
नमः कमलकिञ्जल्कपीतनिर्म्मलवाससे ।नमः समस्तदेवानामधिपाय महात्मने ॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
इति तेभ्यः स्तुतीः श्रुत्वा प्रत्युवाच जनार्द्दनः ।देवा नम्रमुखाः सर्व्वे भवतामागमः कथम् ॥
ब्रह्मोवाच ।शृणु देव ! जगन्नाथ ! यस्मादस्माकमागमः ।कथयामि सुरश्रेष्ठ ! तदहं लोकतारण ! ॥
शूलिदत्तवरोन्मत्तः कंसराजो दुरासदः ।वसुधा ताडिता तेन पदाघातेन मुष्टिना ॥
वरं दत्त्वा पुराप्युग्रो मायया स प्रवञ्चितः ।भागिनेयं विना राजन् ! शास्ता न भविता तव ॥
तस्माद्गच्छ स्वयं देव ! हन्तुं कंसं दुरासदम् ।देवकीजठरे जन्म लभ गत्वा च गोकुलम् ॥
ब्रह्मणा प्रेषितो विष्णुः प्रत्युवाच पशोः पतिम् ।पार्व्वतीं देहि देवेश ! अब्दं स्थित्वागमिष्यति ॥
उमया रमया सार्द्धं शङ्खचक्रगदाधरः ।उद्दिश्य मथुरां चक्रे प्रयाणं कंसनाशनम् ॥
देवकीजठरे जन्म लेभे विष्णुर्गदाधरः ।यशोदाकुक्षिमध्ये तु सर्व्वाणी मृगलोचना ॥
नव मांसांश्च विश्राम्य कुक्षौ नवदिनाधिकान् ।भाद्रे मास्यसिते पक्षे अष्टमीसंज्ञया तिथौ ॥
रोहिणीतारकायुक्ता रजनी धनघोरिता ।घूमयोनौ तडिद्युक्ते वारि वर्षति सर्व्वदा ॥
तस्यां जातो जगन्नाथः कंसारिर्व्वसुदेवजः ।वैराटे नन्दपत्नी च यशोदाजीजनत् सुताम् ॥
पुत्त्रं पद्मकरं पद्मनाभं पद्मदलेक्षणम् ।रम्यं चतुर्भुजं शान्तं शङ्खचक्रगदाधरम् ॥
तदा क्रन्दितुमारेभे दृष्ट्वा चानकदुन्दुभिः ।तत्रैव वाण्यभूद्दैवी देवकीमात्रगोचरा ॥
पुत्त्रं दत्त्वा यशोदायै कन्यां तस्याः समानय ।कंसासुरभयात्तं हि उवाच देवकी तदा ॥
वैराटं गच्छ विप्रेन्द्र ! सुतं प्रत्यर्पितुं प्रभो ! ।पुत्त्रं दत्त्वा यशोदायै सुतां तस्याः समानय ॥
तां दृष्ट्वा कंसराजोऽपि सभायां न हनिष्यति ।तस्या वचः समाकर्ण्य वसुदेवोऽतिदुःखितः ॥
अङ्के कुमारमादाय वैराटाभिमुखं ययौ ।यमुना जलसंपूर्णा तत्पथे मध्यवर्त्तिनी ॥
अतिश्रोता महावीर्य्या सुतीक्ष्णोर्म्मिभयाकुला ।तां दृष्ट्वा तत्तटे स्थित्वा यमुनामवलोकयन् ॥
वसुदेवोऽतिदुःखार्त्तो विलोलचेतनोऽभवत् ।किं करोमि क्व गच्छामि विधिनात्रापि वञ्चितः ॥
कथमद्य गमिष्यामि वैराटे नन्दमन्दिरम् ।हरिणा तत्र सानन्दं मायया वञ्चितः पिता ॥
क्षणमात्रं तटे स्थित्वा यमुनामप्यलोकयत् ।तेन दृष्टा पुनः सापि क्षीणा जानुवहाभवत् ॥
ततः सोऽपि पुरो दृष्ट्वा धावन्तं खलु जम्बुकम् ।क्रोडे कृत्वा सुतं स्वैरं गन्तुं पारं प्रचक्रमे ॥
तं दृष्ट्वा हृष्टचित्तन्तु भगवान् यमुनाजले ।मायां कृत्वा जगन्नाथो ह्यङ्कात् स पतितः पितुः ॥
तं सुतं पतितं दृष्ट्वा सूर्य्यजाजीवने द्बिजः ।तदा क्रन्दितुमारेभे भाले घात्वा करं दृढम् ॥
विधिना वैरिणा ह्यत्र दुःखितोऽहं प्रवञ्चितः ।त्राहि मां जगतां नाथ ! पुत्त्रं देहि सुरोत्तम ! ॥
जनकं क्रन्दितं दृष्ट्वा कंसारिः कृपया विभुः ।जलक्रीडां समाचर्य्य पितुरङ्केऽवसत् पुनः ॥
पथा तेन द्बिजश्रेष्ठो गतवान्नन्दमन्दिरम् ।सुतं दत्त्वा यशोदायै सुतां तस्याः समानयत् ॥
सुतामङ्के तथा सोऽपि गृहीत्वानकद्रुन्दुभिः ।निजागारं पुनः प्राप्य प्रत्यर्प्य तादृशीं सुताम् ॥
प्रतियुज्य पदे लोहमासीत् पूर्व्ववदावृतः ।देवकी च प्रसूतेति वार्त्ता प्राप्ता सुरारिणा ॥
आनेतुं प्रहितो दूतःसुतं दुहितरञ्च वा ।आगत्य कंसदूतोऽसौ सुतां नेतुं प्रचक्रमे ॥
बलादङ्कात् समाकृष्य देवकीवसुदेवयोः ।कंसदूतो गृहीत्वा तां कंसायादर्शयत् पुनः ॥
दृष्ट्वा तां कंसराजोऽपि सभयोऽभूद्दुरासदः ।शुद्धकाञ्चनवर्णाभां पूर्णेन्द्वसदृशाननाम् ॥
दृष्ट्वा कंसो विहस्यन्तीं विद्युत्स्फुरितलोचनाम् ।आदिदेशासुरश्रेष्ठो वध नीत्वा शिलोपरि ॥
आज्ञां लब्ध्वासुरास्ते तु निष्पेष्टुं तां प्रवर्त्तिताः ।विद्र्युद्रूपधरा गौरी जगाम शङ्करान्तिकम् ॥
अन्तरीक्षे क्षणं स्थित्वा कंसं प्रोवाच शङ्करी ।त्वां हन्तुं गोकुले जातः पूर्व्वशत्रुर्न संशयः ॥
तत्रातिष्ठज्जगन्नाथः कंसारिः सुरकृत्यकृत् ।क्रीडित्वा बालभावेन कंसध्वंसे मनो दधौ ॥
प्राप्तिमात्रेण तं कंसं जघान जगदीश्वरः ।एतत्ते कथितं राजन् ! कृष्णजन्माष्टमीव्रतम् ॥
य इदं कुरुते राजन् ! या च नारी हरेर्व्रतम् ।प्राप्नोत्यैश्वर्य्यमतुलमिह लोके यथेप्सितम् ॥
अन्तकाले हरेः स्थानं दुर्ल्लभञ्च गमिष्यति ।एकेनैवोपवासेन कृतेन कुरुनन्दन ! ॥
सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः ।वत्सरद्वादशे चैव यत् पुण्यं समुपार्ज्जितम् ॥
विफलं तद्भवेत् सर्व्वं पुरा व्यासेन भाषितम् ।न द्रष्टव्यं सुखं तेषां नराणां न च योषिताम् ॥
जयन्ती न कृता यैस्तु जागरादिसमन्विता ।श्वानश्चैते तु विज्ञेया जयन्तीविमुखा नराः ॥
योषितश्च न सन्देहः सत्योक्तं तव सुव्रते ! ॥
”इति भविष्यपुराणे वशिष्ठदिलीपसंवादेश्रीकृष्णजन्माष्टमीव्रतकथा समाप्ता ॥
वाचस्पत्यम्
Sanskritजन्माष्टमी स्त्री कृष्णस्य जन्माधारोऽष्टमो । कृष्णजन्पाष्टम्याम्कृष्णाष्टमी शब्दे २२२० पृ० विवृतिः । हरिभक्तिविलास-मते तु तत्रत्यव्रतकालव्यवस्था यथा“जन्माष्टमी पूर्वविद्धा न कर्त्तव्या कदाचन । पलवेधेतु विप्रेन्द्र! सप्तम्या चाष्टमीं त्यजेत् । सुराया विन्दुनास्पृष्टं गङ्गाम्भःकलसं यथा । विना ऋक्षेण कर्त्तव्यानवमी संयुताष्टमी । सऋक्षापि न कर्त्तव्या सप्तमीसंयुताष्टमी । तस्मात् सर्वप्रयत्नेन त्याज्यमेवाशुभं बुधैः ।वेधे पुण्यक्षयं याति तमः सूर्य्योदये यथा । यच्च वह्नि-पुराणादौ प्रोक्तं विद्धाष्टमीव्रतम् । अवैष्णवपरं तच्चकृतं वा देवमायया” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
