| YouTube Channel

जन्मतिथि (janmatithi)

 
Monier Williams Cologne
English
जन्म—तिथि mf. (L. ) birthday,
ŚāṅkhGṛ.
i, 25.
Apte Hindi
Hindi
जन्मतिथिः
पुं*
जन्मन्-तिथिः -
जन्मदिन
Shabdartha Kaustubha
Kannada
जन्मतिथि
पदविभागः - > पुल्लिङ्गः /स्त्रीलिङ्गः
कन्नडार्थः - > ಹುಟ್ಟಿದ ದಿವಸ
L R Vaidya
English
janman-tiTi {% m.f. %} birth-day.
Aufrecht Catalogus Catalogorum
English
जन्मतिथि Paris (B 200).
वाचस्पत्यम्
Sanskrit
जन्मतिथि
पु०
स्त्री जन्मनस्तिथिः जन्मकालिकतिथिसजा-तीयतिथौ स्त्रीत्वे वा ङीप् तत्र कृत्यानां गौणचान्द्रे-णैव कर्त्तव्यता तद्विधानादि ति० त० दर्शितं यथा“तच्च मलमासे कर्त्तव्यं चान्द्रमासीयत्वेन साव-काशत्वात् नच तस्य सौरमासीयत्वं तथात्वे तन्मासेतत्तिथेः कदाचिदप्राप्तौ तद्वर्षे तत्कृत्यलोपापत्तेः नचेष्टा-पत्तिः प्रतिसंवत्सरन्तद्विधानात् यथा ब्रह्मपुराणं गर्गश्च“सर्वैश्च जन्मदिवसे स्नातैर्मङ्गलपाणिभिः गुरुदेवाग्नि-विप्राश्च पूजनीयाः प्रयत्नतः स्वनक्षत्रञ्च पितरौ तथादेवः प्रजापतिः प्रतिसंवत्सरञ्चैव कर्त्तव्यश्च महोत्-सवः” स्नातैस्तिलस्नातैः तथाच तत्तिथिमधिकृत्य‘तिलोद्वर्त्तीतिलस्नायी तिलहोमी तिलप्रदः तिलभुक्तिलवापी षट्तिली नावसीदति ।’ प्रजापतिर्ब्रह्मा ।मङ्गलपाणिभिः अभिप्रेतार्थसिद्धिर्मङ्गलं तद्धेतुतयागोरोचनादिकमपि मङ्गलं तेन गुग्गुल्यादिपाणिभि-रित्यर्थः तथाच कृत्यचिन्तामणौ ‘गुडदुग्धतिलानद्या-ज्जन्मग्रन्थेश्च बन्धनम् गुग्गुलुं निम्बसिद्धार्थं दूर्वागो-रोचनायुतम् संपूज्य भानुविघ्नेशौ महर्षिं प्रार्थयेदिदम् ।चिरजीवी यथा त्वं भोभविष्यामि तथा मुने! रूपवान्वित्तवांश्चैव श्रियायुक्तश्च सर्वदा मार्कण्डेय! महाभाग!सप्तकल्पान्तजीवन! आयुरिष्टार्थसिद्ध्यर्थमस्माकं वरदो-भव” स्वनक्षत्रमिति स्वनक्षत्रं अश्विन्याद्यन्तर्गतजन्मका-लीननक्षत्रं नामकरणे तथादर्शनात् वक्ष्यमाणब्रह्मपुरा-णोक्तप्रणवादिनमोऽन्तेन नाम्नैव पूजाविधानाच्च तद-ज्ञाने स्वनक्षत्राय नम इत्युल्लेख्यम् पूजायामर्घ्या-नन्तरं पाद्यमाह मत्स्यपुराणम् “अर्घ्यपाद्यादिकन्तत्रमधुपर्कं प्रयोजयेत् ।’ पाद्यानन्तरमर्घ्यमाह नरसिंह-पुराणम् ‘पाद्यं चैव तृतीयया चतुर्थ्यार्घ्यं प्रदा-पयेत् ।’ तृतीयया पुरुषसूक्तीयतृतीयया ऋचा उभय-क्रमदर्शनादिच्छाविकल्पः इति श्रीदत्तः श्रीपतिव्यव-हारनिर्णये ‘नवाम्बरधरो भूत्वा पूजयेच्च चिरायुषम् ।’तथा ‘द्विभुजं जटिलं सौम्यं सुवृद्धं चिरजीविनम् ।मार्कण्डेयं नरो फक्त्या पूजयेत् प्रयतस्तथा ततो दीर्घायुषं व्यासं रामं द्रौणिं कृपं वलिम् प्रह्रादञ्च हनूमन्तविभीषणमथार्च्चयेत् ।’ रामोऽत्र परशुरामः चिरजीविसाहचर्य्यात् द्रौणिरश्वत्थामा तथा ‘स्वनक्षत्रं जन्मतिथिंप्राप्य सम्पूजयेन्नरः षष्ठीञ्च दधिभक्तेन वर्षे वर्षे पुनपुनः’ ‘एकैकां देवतां राम! समुद्दिश्य यथाविधि चतुर्थ्यन्तेन घर्मज्ञ! नाम्ना प्रणवादिना होमद्रव्यमथैकैवशतसंख्यन्तु होमयेत्” इति विष्णुधर्मोतरदर्शनात् एवंहोमे स्वाहान्तता मन्त्रस्य “स्वाहावसाने जुहुयात्ध्यायन् वै मन्त्रदेवताम्” इति स्मृतेः अशक्तौ तु देवीपु-राणम् “होमग्रहादिपूजायां शतमष्टोत्तरं भवेत् ।अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते” स्कान्दे“खण्डनं नखकेशानां मैथुनाध्वानमेव आमिषंकलहं हिंसां वर्षवृद्धौ विवर्जयेत्” अध्वानम् अघ्वगमनंकलहमित्यत्र सङ्गरमिति क्वचित् पाठः सङ्गरं युद्धम् ।वर्षवृद्धौ जन्मदिने वृद्धमनुः “मृते जन्मनि संक्रान्तौश्राद्धे जन्मदिने तथा अस्पृश्यस्पर्शने चैव स्नाया-दुष्णवारिणा” जन्मनि पुत्रजन्मनि ज्योतिषे “स्नात्वाजन्मदिने स्त्रियं परिहरन् प्राप्नोत्यर्भाष्टां श्रियम् मत्-स्यान्मोचयतो द्विजाय ददतोऽप्यायुश्चिरं वर्द्धते सक्तून्खादति यस्तु तस्य रिपवोनाशं प्रयान्ति ध्रुवं भुङ्क्तेयस्तु निरामिषं हि भवेत् जन्मान्तरे पण्डितः” दीपि-कायाम् “जन्मर्क्षयुक्ता यदि जन्ममासे यस्य ध्रुवं जन्म-तिथिर्मवेच्च भवन्ति तद्वत्सरमेव यावन्नैरुज्यसम्मान-सुखानि तस्य कृतान्तकुजयोर्वारे यस्य जन्मदिनंभवेत् अमृक्षयोगसंप्राप्तौ विघ्नस्तस्य पदे पदे” कृता-न्तकुजयोः शनिमङ्गलयोः “तस्य सर्वौषधिस्नानं ग्रह-विप्रसुरार्च्चनम् ग्रहानुद्दिश्य होमोवा ग्रहाणां प्रीति-मिच्छता सौरारयोर्दिने मुक्ता देयानृक्षे तु काञ्चनम् ।मुरा मांसी वचा कुष्ठं शैलेयं रजनीद्वयम् शठीचम्प-कमुस्तञ्च सर्वौषधिगणः स्मृतः”
सौरारयोः शनि-भौमयोः रजनीद्वयं हरिद्रादारुहरिद्रे एषां पत्रादी-नामपि ग्रहणम् कषायावयवग्रहणमाह मत्स्यपुराणम्‘एषां पत्राणि साराणि मूलानि कुसुमानि एवमा-दीनि चान्यानि कषायाख्योगणः स्मृतः” तत्र क्रमः ।तिलोद्वर्त्तनं तिलयुक्तजलेन स्नानं नववस्त्रपरिधानंगुग्गुलुनिम्बश्वेतसर्षपदूर्वागोरोचनात्मकजन्मग्रन्थिं दक्षि-णपाणौ बध्नीयात् गुरुदेवाग्निविप्राः पूजनीयाःस्वनक्षत्रमपि पूजनीयम् अत्र “हस्तास्वाती श्रवणाअक्लीवे मृगशिरीनपुंसि स्यात् पुंसि पुनर्वसुपुष्यौ मूलंपुंस्त्री स्त्रियः शेषाः” इत्यनेन लिङ्गनिर्णयः जन्मन-क्षत्रादीनां गोपनमाह विष्णुधर्म्मोत्तरे “गोपयेज्ज-न्मनक्षत्र धनसारं गृहे मलम् प्रभोरप्यपमानञ्चतस्य दुश्चरितञ्च यत” धनसारं धनश्रेष्ठं मलं छिद्रम् ।पितरौ प्रजापतिः सूर्य्यो गणपतिर्मार्कण्डेयच्च पूज-नीयः ‘सतिलं गुडसंयुक्तमञ्जल्यर्द्धमितं पयः मार्क-ण्डेयवरं लब्धा पिबाम्यायुष्यहेतवे” इति गुडतिलदुग्ध-पानमन्त्रः ततः प्रार्थनामन्त्रौ ‘चिरजीवी यथात्वं भो भविष्यामि तथा मुने! रूपवान् वित्तवांश्चैवश्रिया युक्तश्च सर्वदा मार्कण्डेय! महामाग! सप्तकल्पान्तजीवन! आयुरिष्टार्थसिद्ध्यर्थमस्माकं वरदोभव” तती-व्यासपरशुरामाश्वत्थामकृपवलिप्रह्लादहनूमद्विभीषणाः पू-जनीयाः षष्ठ्यपि “त्रैलोक्ये यानि भूतानि स्थाव-राणि चराणि व्रह्मविष्णुशिवैः सार्द्धं रक्षां कुर्वन्तुतानि मे” इति मत्स्यपुराणीयं पठेत् पितृमातृ-पादग्रहणक्रमस्तु विष्णुपुराणादुन्नेयः यथा “कृष्णोऽपिवसुदेवस्य पादौ जग्राह सत्वरः देवक्याश्च महा-बाहुर्बलदेवसहायवान्” एवञ्च “सहस्रन्तु पितु-र्माता गौरवेणा वरिच्यते” इति मनुवचने सहस्रं पितॄ-नपेक्ष्य यद्गौरवमुक्तं तत्पोषणरक्षार्थम् अतएव मनुः“मृते भर्त्तरि पुत्रस्तु वाच्यो मातुररक्षिता” वाच्यो-गर्हणीयः अत्र वैदिकेतरमन्त्रपाठे शूद्रादेरप्यधिकारः“वेदमन्त्रवर्जम् शूद्रस्य” इति छन्दोगाह्निकाचारचिन्तामणि-धृतस्मृतौ वेदेति विशेषणात् एवञ्च पुराणमधिकृत्य “अध्येतव्यं चान्येन ब्राह्मणं क्षत्रियं विना श्रोतव्यमिहशूद्रेण नाध्येतव्यं कदाचन” इति भविष्यपुराणवचनंपुराणमन्त्रेतरपरम् पञ्चयज्ञस्नानश्राद्धेषु पौराणिक-मन्त्रोऽपि निषिद्धः शूद्रमधिकृत्य “नमस्कारेण मन्त्रेणपञ्चयज्ञान्न हापयेत्” इति याज्ञवल्क्येन “ब्रह्मक्षत्रविशा-मेव मन्त्रवत् स्नानमिष्यते तुष्णीमेव हि शूद्रस्य नम-स्कारकं मतम्” इति योगियाज्ञवल्क्येन श्राद्धमधिकृत्य“अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः अमन्त्रस्यतु शूद्रस्य विप्रो मन्त्रेणं गृह्यते” इति वराहपुराणेनच नमस्कारेणेति तुष्णीमिति मन्त्रवर्जित इति चाभि-धानादेतत्परं वैदिकपरञ्च शूद्राधिकारे गौतमवचन“अनुमतोऽस्य नमस्कारो मन्त्रः” इति अनुपनीतस्यापिशूद्रसमत्वेन श्राद्धातिरिक्तवेदपाठनिषेधमाह मनुः“नाभिव्याहारयेद्व्रह्म स्वधानिनयनादृते शूद्रेण हिसमस्तावत् यावद्वेदे जायते” स्त्रीणामपि वैदिक-मन्त्रनिषेधमाह नृसिंहतापनीयम् “सावित्रीप्रणवं यजुर्लक्ष्मीं स्त्रीशूद्रयोर्नेच्छन्ति सावित्रीं प्रणवंयजुर्लक्ष्मीं स्त्री शूद्रोयदि जानीयात्स मृतोऽधोगच्छति”इति मेच्छन्तीतिपर्य्यन्तं पराशरभाष्येऽपि लिंखतम् ।जन्मतिथेः प्रागुक्तब्रह्मपुराणीयत्वात् पौर्णमास्यन्तमासा-दरः गृह्यपरिशिष्टम् “उपाकर्म्म तथोत्सर्गःप्रसवाहोऽष्टकादयः मानवृद्धौ पराः कार्य्या वर्जयित्वा तुपैतृकम्” अत्राष्टकासाहचर्य्याज्जन्माष्टम्यां तथादर्शनाच्च प्रसवाहो जन्मदिनम् “द्बादश मासाः संवत्सरःक्वचित्त्रयोदश मासाः संवत्सरः” इति श्रुत्या वर्षे मासवृद्धि-रूपा मानवृद्धिरुक्ता सैबात्र ग्राह्या तु सौरे मासितिथिद्वयलाभान्मानवृद्धिर्जीमूतवाहनोक्ता ग्राह्या ति-थिद्वयलाभस्य मानवृद्धित्वे प्रमाणाभावात् मान-वृद्धावित्यत्र मासवृद्धाविति हेमाद्रिणा धृतम् पैतृकंमपिण्डीकरणं मलमासमृतस्य प्रत्याव्दिकञ्च तयोर्मल-मासेऽपि विधानात् ज्योतिः पराशरोऽपि “उपाकर्म्मतथोत्सर्गः प्रसवाहोऽष्टकादयः मासवृद्धौ पराः कार्य्या-वर्जयित्वा तु पैतृकम्” जन्मतिथेरुभयदिनलाभे तुदेवीपुराणम् “युगाद्या वर्षवृद्धिश्च सप्तमी पार्वती-प्रिया रवेरुदयमीक्षन्ते तत्र तिथियुग्मता ।घस्रद्वये जन्मतिथिर्यदि स्यात् पूज्या तदा जन्मभसंयु-तैव असङ्गता भेन दिनद्वयेऽपि पूज्या परा या भव-तीह यत्रात्” भं नक्षत्रं परवचनं वृहद्राजमार्त्त-ण्डेऽपि पूर्व्वाह्णे तिथिनक्षत्रलाभ एवेदं लक्ष्यते“नक्षत्रे खण्डिते येन प्राप्तः कालस्तु कर्म्मणः नक्षत्रकर्म्माण्यत्रैव तिथिकर्म तथैव च” इति वृहस्पविवचनात् ।खण्डिते खण्डद्वययुक्ते येन नक्षत्रखण्डेन विहितकालःप्राप्तः नक्षत्रद्वैघे तु बौधायनमार्कण्डेयौ “तन्नक्षत्रम-होरात्रं यस्मिन्नस्तं गतोरविः यस्मिन्नुदेति सवितातन्नक्षत्रं दिनं स्मृतम्” पूर्व्वार्द्धमहोरात्रसाध्योपवासनक्तैकभक्तेषु “तत्रैवोपवसेदृक्षे यन्निशीथादधोभवेत् ।उपवासे यद्वक्षं स्यात् तद्धि नक्तैकभक्तयोः” इति स्कन्द-पुराणात् निशीथादधैत्यनेन अर्द्धरात्रपूर्व्वकालत्वेनसूर्य्यास्तमयकालस्यापि लाभात् “उपोषितव्यं नक्षत्रंयेनास्तं याति भास्करः यत्र वा युज्यते राम!निशीथे शशिना सह” इति विष्णुधर्म्मोत्तराच्च उपवास-वन्नक्तव्रतादीनामहोरात्रसाध्यता अहोरात्रसाध्यभो-जनद्वथस्यैकतरपरित्यागसहितकालविशेषनियामकत्वात् ।यस्मिन्नुदेतीति तु दिवसकर्त्तव्यस्नानदानादाविति बोध्यम् ।पितृकार्य्येऽपि शुक्लकृष्णपक्षाभ्यां व्यवस्थामाह बौधायनः“सा तिथिस्तच्च नक्षत्रं यस्मिन्नभ्युदितोरविः वर्द्धमानस्यपक्षस्य हीने त्वस्तमयं प्रति” हीने चन्द्रस्य हीनत्वात्कृष्णपक्षे, वर्द्धमानस्य चन्द्रस्य वर्द्धमानत्वेन शुक्लपक्षस्य ।कालमाधवीयोऽप्येवम् भोजराजः “योजन्ममासे क्षुर-कर्मयात्रां कर्णस्य वेधं कुरुते मोहात् मूनं रोगंधनपुत्रनाशं प्राप्नोति मूढोबधबन्धनानि जातं दिनंदूषयते वशिष्ठश्चाष्टौ गर्गोयवनोदशाहम् जन्मा-ख्यमासं किल भागुरिश्च चूडे विवाहे क्षुरकर्णवेधे” ।एतद्विषयभेदस्तु राजमार्त्तण्डे “उक्तानि प्रतिषिद्धानिपुनः सम्भावितानि सापेक्षनिरपेक्षाणि श्रुति-वाक्यानि कोविदैः” सापेक्षनिरपेक्षाणि समर्था-समर्थविषयकाणि क्षुरेति क्षुरिकर्म्म राजमार्त्तण्डे“देवकार्य्ये पितृश्राद्धे रवेरंशपरिक्षये क्षुरिकर्म्मन कुर्व्वीत जन्ममासेऽथ जन्मभे” एवञ्च चूड इतिचूडाकरणे अधिकदोषाय नार्य्यास्तु जन्ममासे विवाह-माह श्रीपतिव्यवहारसमुच्चये “स्नानं दानं तपो-विद्या सर्वमङ्गल्यवर्द्धनम् उद्वाहश्च कुमारीणांजन्ममासे प्रशस्यते” एवं “जन्मोदये जन्मसु तारकासुमासेऽथ वा जन्मनि जन्मभे वा व्रतेन विप्रो न-बहुश्रुतोऽपि विद्याविशेषैः प्रथितः पृथिव्याम्” इति व्यास-वचनेन जन्ममासे उपनयनविधानात्तदङ्गसशिखवषनेऽपिन दोषः उदये लग्ने भे राशौ नवहुश्रुतोऽपि स्वल्प-विद्योऽपि अत्र जन्ममासकृत्याकृत्ये सौरादरो यात्रा-दिसाहचर्य्यात् व्यवहारोऽपि तथा प्रतिमासे जन्म-नक्षत्रकृत्यमाह विष्णुधर्म्मोत्तरम् “जन्मनक्षत्रगे सोमेशिरःस्नानेन यत्नतः पूजा सोमस्य कर्त्तव्या नक्ष-त्रस्य तथात्मनः श्राद्धं कुर्य्यात् प्रयत्नेन वह्निब्राह्मणपूजने वाहनायुधरत्नाद्यं पूजर्नायं प्रयत्नतः ।सुराणामर्च्चनं कार्य्यं केशवस्य विशेषतः”