| YouTube Channel

जन्तुः (jantuH)

 
Apte
English
जन्तुः [jantuḥ], [जन्-तुन्]
A creature, a living being, man
Ś.*
5.2
Ms.*
3.77.
The (individual) soul.
An animal of the lowest organization.
People, mankind.
Comp.
कम्बुः a snail's shell.
a snail.
घ्नः the citron.
a snail. -फलः the Udumbara tree.
Apte Hindi
Hindi
जन्तुः
पुं*
- जन् + तृन्
"जानवर, जीवित प्राणी, मनुष्य"
जन्तुः
पुं*
- -
"आत्मा, व्यक्ति"
जन्तुः
पुं*
- -
निम्न जाति का जानवर
Wordnet
Sanskrit
Synonyms:
प्राणी, चेतनः, जन्मी, जन्तुः, जन्युः, शरीरी, जीवः
noun
प्राणविशिष्टः।
"अस्मिन् विश्वे नैके प्राणिनः सन्ति।"
Synonyms:
प्राणी, जन्तुः, चेतनः, जीवी, जन्मी, शरीरी, पशुः, तिर्यङ्
noun
यस्मिन् प्राणाः सन्ति।
"पृथिव्यां नैके प्राणिनः सन्ति। / कर्मात्मनाञ्च देवानां सः असृजत् प्राणिनां प्रभुः।साध्यानाञ्च गणं सूक्ष्मं यज्ञञ्चैव सनातनम्।"
अमरकोशः
Sanskrit
Word: जन्तुः
Root: जन्तुः
Gender: undefined
Number: undefined
Meaning(s):
fetus
ghost
demon
first
embryo
goblin
monster
rudiment of life
Shloka(s):
3|3|213|2 द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु॥ (नानार्थवर्गः)
Synonym(s):
3|3|213|2 सत्त्वः (सत्त्व) (पुं) fetus, ghost, demon, first, embryo, goblin, monster, rudiment of life
3|3|213|2 सत्त्वम् (सत्त्व) (नपुं) fetus, ghost, demon, first, embryo, goblin, monster, rudiment of life
Related word(s):
अवयव_अवयवीसंबन्धः जन्तुसमूहः
जातिः जन्तुः
शब्दकल्पद्रुमः
Sanskrit
जन्तुः,
पुं,
(जायते उद्भवतीति जन + “कमि-मनिजनीति ।” उणां ७२ इति तुः ।)प्राणी इत्यमरः ३०
(यथा, मनौ २४० ।“एकः प्रजायते जन्तुरेक एव प्रलीयते ।एकोऽनुभुङ्क्ते सुकृतमेक एव दुष्कृतम्
”मनुष्ये बहुवचनान्तः इति निघण्टुः
यथा, ऋग्वेदे ९४ ।“विशां गोपा अस्य चरन्ति जन्तवोद्बिपच्च यदुत चतुष्पदक्तुभिः
”सोमकस्य राज्ञः पुत्त्रविशेषः अस्य विवरण-मुक्तं यथा, महाभारते १२७ -- १२८अध्याययोः ।“युधिष्ठिरासीन्नृपतिः सोमको नाम धार्म्मिकः ।तस्य भार्य्याशतं राजन् ! सदृशीनामभूत्तदा
वै यत्नेन महता तासु पुत्त्रं महीपतिः ।कञ्चिन्नासादयामास कालेन महता ह्यपि
कदाचित्तस्य वृद्धस्य घटमानस्य यत्नतः ।जन्तुर्नाम सुतस्तस्मिन् स्त्रीशते समजायत
तं जातं मातरः सर्व्वाः परिवार्य्य समासते ।सततं पृष्ठतः कृत्वा कामभोगान् विशाम्पते !
ततः पिपीलिका जन्तुं कदाचिददशत् स्फिचि ।स दष्टो व्यनदन्नादं तेन दुःखेन बालकः
ततस्ता मातरः सर्व्वाः प्राक्रोशन् भृशदुःखिताः ।प्रावार्य्य जन्तुं सहिताः शब्दस्तुमुलोऽभवत्
तमार्त्तनादं सहसा शुश्राव महीपतिः ।अमात्यपर्षदो मध्ये उपविष्टः सहर्त्विजा
ततः प्रस्थापयामास किमेतदिति पार्थिवः ।तस्मै क्षत्ता यथावृत्तमाचचत्ते सुतं प्रति
त्वरमाणः चोत्थाय सोमकः सह मन्त्रिभिः ।प्रविश्यान्तःपुरं पुत्त्रमाश्वासयदरिन्दमः
सान्त्वयित्वा तु तं पुत्त्र निष्क्रम्यान्तःपुरान्नृपः ।ऋत्विजा सहितो राजन् ! सहामात्य उपा-विशत्
सोमक उवाच ।धिगस्त्विहैकपुत्त्रत्वमपुत्त्रत्वं वरं भवेत् ।नित्यातुरत्वाद्भूतानां शोक एवैकपुत्त्रता
इदं भार्य्याशतं ब्रह्मन् ! परीक्ष्य सदृशं प्रभो ! ।पुत्त्रार्थिना मया चोढं तासां विद्यते प्रजा
एकः कथञ्चिदुत्पन्नः पुत्त्रो जन्तुरयं मम ।यतमानासु सर्व्वासु किन्नु दुःखमतः परम्
वयश्च समतीतं मे सभार्य्यस्य द्बिजोत्तम ! ।आसां प्राणाः समायत्ता मम चात्रैकपुत्त्रके
स्यात्तु कर्म्म तथा युक्तं येन पुत्त्रशतं भवेत् ।महता लघुना वापि कर्म्मणा दुंष्करेण वा
ऋत्विगुवाच ।अस्ति चैतादृशं कर्म्म येन पुत्त्रशतं भवेत् ।यदि शक्नोषि तत् कर्त्तुमथ वक्ष्यामि सोमक !
सोमक उवाच ।कार्य्यं वा यदि वाकार्य्यं येन पुत्त्रशतं भवेत् ।कृतमेवेति तद्विद्धि भगवन् ! प्रब्रवीतु मे
ऋत्विगुवाच ।यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ ।ततः पुत्त्रशतं श्रीमद्भविष्यत्यचिरेण ते
वपायां हूयमानायां धूममाघ्राय मातरः ।ततस्ताः सुमहावीर्य्यान् जनयिष्यन्ति ते सुतान् ।तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः ।उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति
ततः याजयामास सोमकं तेन जन्तुना ।मातरस्तु वलात् पुत्त्रमपाकार्षुः कृपान्विताः
हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमाहताः ।रुदत्यः करुणञ्चापि गृहीत्वा दक्षिणे करे
सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति ।कुररीणामिवार्त्तानां समाकृष्य तु तं सुतम्
विशस्य चैनं विधिना वपामस्य जुहाव सः ।वपायां हूयमानायां गन्धमाघ्राय मातरः
आर्त्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन !
सर्व्वाश्च गर्भानलभंस्ततस्ताः परमाङ्गनाः
ततो दशसु मासेषु सोमकस्य विशाम्पतेः ।जज्ञे पुत्त्रशतं पूर्णं तासु सर्व्वासु भारत !
जन्तुर्ज्येष्ठः समभवत् जनित्र्यामेव पार्थिव ! ।स तासामिष्ट एवासीत् तथा ते निजाः सुताः
तच्च लक्षणमस्यासीत् सौवर्णं पार्श्व उत्तरे ।तस्मित् पुत्त्रशते चाग्र्यः बभूव गुणैरपि
”)