| YouTube Channel

जनी (janI)

 
Capeller Eng
English
ज॑नी
f.
woman, wife,
pl.
metaph. the fingers
जनि also
birth, origin, birthplace.
ज॑नी v. ज॑नि.
Monier Williams Cologne
English
ज॑नी
f.
, see °नि
a daughter-in-law (cf. जामि॑),
L.
Apte Hindi
Hindi
जनी
स्त्री*
- जनि + ङीष्
"जन्म, सृजन, उत्पादन, "
जनी
स्त्री*
- जनि + ङीष्
स्त्री
जनी
स्त्री*
- जनि + ङीष्
माता
जनी
स्त्री*
- जनि + ङीष्
पत्नी
जनी
स्त्री*
- जनि + ङीष्
"स्नुषा, पुत्रवधू"
Shabdartha Kaustubha
Kannada
जनी - प्रादुर्भावे (दिवा० आत्म० अक० से०) जायते
पदविभागः - > धातुः
कन्नडार्थः - > ಹುಟ್ಟು /ಜನ್ಮಪಡೆ /ಉತ್ಪತ್ತಿ ಹೊಂದು
जनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸ್ನುಷೆ /ಸೊಸೆ
निष्पत्तिः - > जनी (प्रादुर्भावे) - "इण्" (उ० ४-१२९)
व्युत्पत्तिः - > जायते सन्ततिरस्याम्
प्रयोगाः - > "तथा तथा हृषितवपुर्मुदाकुला द्विषां चमूरजनि जनीव चेतसा"
उल्लेखाः - > माघ० १७-४३
जनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ತಾಯಿ
जनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪತ್ನಿ /ಹೆಂಡತಿ
जनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಹೆಂಗಸು
जनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಉತ್ಪತ್ತಿ /ಹುಟ್ಟು
विस्तारः - > "जनीस्नुषावनितयोः" - हेम०
जनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ವಧೂವರರು/ದಂಪತಿಗಳು
विस्तारः - > "जनिर्वरस्त्रीपत्योश्च" - वैज०
L R Vaidya
English
janI {% f. %} 1. Birth, creation, production
2. a woman
3. a mother
4. a daughter-in-law
5. a wife.
Bopp
Latin
जनी correptum जनि f. (a जन vir signo fem. ई, corre-
ptum इ) mulier
cf. जानि. (Hib. gean «a woman»
goth. qvêns, Th. qvêni uxor, qveins, Th. qveini id., angl.
queen
de goth. qvinô et slav. ЖЕНⲀ schena v. जन.)
Lanman
English
jánī, f. same as jani.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
जन्
मूलधातुः:
जनी
धात्वर्थः:
प्रादुर्भावे
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
जायते
धातुप्रदीपः
Sanskrit
जनीँ जनी प्रादुर्भावे
- जायते जज्ञे जनिता अजनि अजनिष्ट जाजायते जञ्जन्यते जिजनिषते जनयति जातः जातिः जनः जनता जन्यो घटः जन्यं घटेन जन्या जन्तुः प्रजनः प्रजनिष्णुः प्रजा सुप्रजाः सुप्रजसौ वीजम् 43
Wordnet
Sanskrit
Synonyms:
पर्पटी, रञ्जनी, कृष्णा, जतुका, जननी, जनी, जतुकृष्णा, संस्पर्शा, जतुकृत्, चक्रवर्तिनी
noun
पिष्टकभेदः, उत्तरभारतदेशभवसुगन्धीद्रव्यम् (आयुर्वेदे अस्य विषव्रणकण्डूकफपित्तास्रकुष्ठनाशित्वादयः गुणाः प्रोक्ताः)
"श्राद्धविधौ ब्राह्मणेन ललाटे पर्पट्याः तिलकं परिधृतः"
Synonyms:
पत्नी, जाया, भार्या, गृहिणी, वधूः, जनी, सहधर्मिणी, सहचरी, दाराः, कलत्रम्, पाणिगृहीती, सधर्मिणी, धर्माचारिणी, गृहः, क्षेत्रम्, परिग्रहः, ऊढा
noun
सा परिणीता या पत्या उद्वाहविहीतमन्त्रादिना वेदविधानेनोढा।
"पत्न्याः गुणेनैव पुरुषाः सुखिनो भवन्ति।"
Synonyms:
स्त्री, नारी, नरी, मानुषी, मनुषी, मानवी, ललना, ललिता, रमणी, रामा, वनिता, प्रिया, महिला, योषा, योषिता, योषित्, योषीत्, वधूः, भरण्या, महेला, महेलिका, मानिनी, वामा, अङ्गना, अबला, कामिनी, जनिः, जनी, जोषा, जोषिता, जोषित्, धनिका, परिगृह्या, प्रमदा, प्रतीपदर्शिनी, विलासिनी, सिन्दूरतिलका, सीमन्तिनी, सुभ्रूः, शर्वरी
noun
मनुष्यजातीयानां स्त्री-पुंरूपीययोः प्रभेदद्वययोः प्रथमा या प्रजननक्षमा अस्ति।
"अधुना विविधेषु क्षेत्रेषु स्त्रीणाम् आधिपत्यम् वर्तते। "
Synonyms:
माता, जननी, जन्मदा, जनयित्री, प्रसूः, जनिः, जनी, जनित्री, सावित्री, अक्का, अम्बा, अम्बिका, अम्बालिका
noun
या जन्म ददाति पोषयति च।
"आदौ माता गुरोः पत्नी ब्राह्मणी राजपत्निका गावी धात्री तथा पृथ्वी सप्तैता मातरः स्मृताः"
अभिधानचिन्तामणिः
Sanskrit
--source--
सुवासिनी वधूटी स्याच्चिरिण्ट्यथ सधर्मिणी
पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः ५१२
दारा क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः
द्वितीयोढा कलत्रं पुरंध्री तु कुटुम्बिनी ५१३
-wordlist-
सुवासिनी (स्त्री), वधूटी (स्त्री), चिरण्टी (स्त्री), सधर्मिणी (स्त्री), पत्नी (स्त्री), सहचरी (स्त्री), पाणिगृहीती (स्त्री), गृहिणी (स्त्री), गृहाः (पुंब), गृह (क्ली), दाराः (पुंब), क्षेत्र (क्ली), वधू (स्त्री), भार्या (स्त्री), जनी (स्त्री), जाया (स्त्री), परिग्रह (पुं), द्वितीया (स्त्री), ऊढा (स्त्री), कलत्र (क्ली), पुरन्ध्री (स्त्री), कुटुम्बिनी (स्त्री)
--source--
प्रजावती भ्रातुर्जाया सूनोः स्नुषा जनी वधूः
-wordlist-
प्रजावती (स्त्री), भ्रातृजाया (स्त्री), सूनुजाया (स्त्री), स्नुषा (स्त्री), जनी (स्त्री), वधू (स्त्री)
अभिधानरत्नमाला
Sanskrit
स्नुषा
स्नुषा, जनी, पुत्रवधू, वधू
स्नुषा जनी पुत्रवधूर्वधूः स्यात्,
verse 2.1.1.504
page 0058
शब्दकल्पद्रुमः
Sanskrit
जनी,
स्त्री,
(जायते सन्ततिर्यस्यामिति जन +“जनिघसिभ्यामिण् ।” उणां १२९ इतीण्जनिवध्योश्चेति वृद्धिनिषेधः ततः कृदिकारा-दिति ङीष् ।) सीमन्तिनी बधूः (जन + भावेइण् ।) उत्पत्तिः (जायते आरोग्यमनया ।करणे इण् ।) ओषधीभित् इति मेदिनी ।ने,
शेषस्य पर्य्यायः जतूका रजनी ३जतुकृत् चक्रवर्त्तिनी संस्पर्शा इत्य-मरः १५३
जतुका जनिः ८जननी इति भरतः
राजनिर्घण्टोक्तगुण-पर्य्यायौ जतुकाशब्दे द्रष्ठव्यौ
वाचस्पत्यम्
Sanskrit
जनि(नी) स्त्री जनं--भावे इन् वा ङीप् उत्पत्तौ “जनिःकर्त्तुः प्रकृतिः” पा० अभूतप्रादुर्भावे जायते स्वयं गर्भोवाऽस्याम्, आधारे नार्य्याम् मातरि स्नुषायां चअमरः जायायाम् जायते आरोग्यमनया ओषधि-भेदे जतुकायाञ्च शब्दरत्ना० जनीनामगन्धद्रव्येरायमुकुटः “उदीर्य्य धुर्य्यं कपटाज्जनीं जनः” नैष०
क्षीरतरङ्गिणी
Sanskrit
जनीँ जनी प्रादुर्भावे
-(अर्थविवरणम्) प्रादुर्भाव उत्पत्तिः
इतो वाश्रन्ताः (52) चतुर्दश सेट आत्मनेपदिनश्च ज्ञाजनोर्जा (7379) जायते ये विभाषा (6443)-जायते जन्यते, जाजायते जञ्जन्यते जनिता जनः अभिजायतेऽनेनेत्यभिजनः ईडजनोर्ध्वे (7278) इतीट्-जनिषे, जनिध्वे गमहनजन (6498) इत्युपधालोपः-जज्ञे दीपजनबुध (3161) इति कर्तरि चिण् वा-अजनि अजनिष्ट जनिवध्योश्च (7335) इति वृद्धिर्नास्ति जनखनसनां सञ्झलोः (तु0 6448) लोपः-जातः जनीजॄष् (1554) इति मित्-जनयति भव्यगेय (3468) इति कर्तरि-चैत्रो जन्यः मनिन् (दश0 उ0 673) जन्म जनेरुसिः (उ0 2115)-जनुस् जनेरठरः जठरम् जनेः को जङ्घ (द0 उ0 370)-जङ्घा जनिघसिभ्यामिण् (उ0 4130), जनिवध्योश्च (7335) इति वृद्धिनिषेधः-जनिः दॄसनि (उ0 13) इति ञुण्-जानुः फलिपाटि (उ0 118) इति जतु कमिमनिजनि (उ0173) इति तुन्-जन्तुः यजमनि (उ0 320) इति युच्-जन्यु जनेर्यक् (उ0 4111)-जाया जनेस्तोरश्च (द0 उ0 625) जर्तः स्तनिहृषिपुषिगदिमदिघुषिगडिमण्डिजनिनन्दिभ्यो णेरिलुच् (द0 उ0 1140 कपाठः) जनयित्नुः जनेष्टो लोपश्च (द0 उ0 54)-जटा जत्र्वादयश्च (उ0 4102) इति जत्रुः अन्दूदृन्भू (तु0 उ0 13) इति जम्बूः कृञादिभ्यः संज्ञायां वुन् (उ0 535)-जनकः, जायतेऽस्याम् (द्र0 33117) इति जननी उपसर्गे संज्ञायां ( 3399) डः-प्रजा अनौ कर्मणः (तु0 32100)-स्त्रीम् अनुजातः स्त्र्यनुजः अन्येष्वपि (32101)-पूर्वजः गत्यर्थाकर्मक (3472) इति क्तः-पुमांसमनुजातः जनः, सकर्मकार्थम् अलंकृञ् (32136) इतीष्णुच्-प्रजनिष्णुः जनसन (3267) इति विट्, विड्वनोरनुनासिकस्यात् (6441)-अब्जाः, गोजाः, ऋतजाः अद्रिजाः 40
धातुवृत्तिः
Sanskrit
जनीँ जनी (अर्थः) प्रादुर्भावे
इतः प्रभृति वाश्यन्ता उदात्ता अनुदात्तेतः प्रादुर्भाव उत्पत्तिरभिव्यञ्जनायां अत्रायमकर्मकः यदा त्वन्तर्भांंवितण्यर्थ उत्पादनायामभिव्यञ्जनायां वा वर्तते तदासकर्मकः दृश्यते "दाशतये अज्ञा ह्यग्नेरजनिष्ट गर्भंम्' तथा "अचः कर्तृयकि'' इत्यत्रभाष्यमपि "जायते स्वयमेव' इति अत्र ह्यन्तर्भावितण्यर्थत्वेन कर्मस्थाभावकत्वात् कर्मकर्तृत्वम् तथा ऽनुपूर्वोऽयं यदाऽऽत्मजन्मपूर्वके प्रापणे वर्तते तदापि सकर्मकः "असौ कुमारस्तमजोऽनुजात' इति जननेन तं प्राप्त इत्यर्थः शृङ्गाच्छरो जायते "ज्ञाजनोर्जा' इति जादेशइत्संज्ञकशकारादौ प्रत्यये "जनिकर्तुः प्रकृतिः'' इति जायमानस्य कारणं शृङ्गम् अपादानम् ( जज्ञे, जज्ञाते, जज्ञिषे, जज्ञिवहे ) "गमहन'' इत्युपधालोपः तस्य स्थानिवत्त्वाद् द्विर्ववनम् "स्तोश्चुः'' इति श्चुत्वम् ( जनिता जनिष्यते जायतां, जानस्व, जायै अजायत जायेत जनिषीष्ठ, ) लिङौ (अजनि, अजनिष्ट, अजनिषातां) "दीपजन'' इति कर्तरि तशब्दे च्लेर्वा चिण् "जनिवध्योश्च'' इति वृद्धिनिषेधः अन्तर्भावितण्यर्थादस्मात् कर्मकर्तरि कर्मवद्भावाद् नित्यश्चिण्' (जिजनिषते) "जनसनखनां सन्झलोः'' इत्यात्वं सन इटि ज्झलादित्वाभावान्न भवति झलादिश्च सन् सनोतेरेव सम्भवतीति तदर्थमेव सन्ग्रहणम् ( जाजायते, जञ्जन्यते, ) "ये विभाषा'' इति जनादीनां वा यकारादौ ङ्कित्यात्वम् ( जञ्जनीति जञ्जन्ति जनयति, ) "बुधयुधनशजन'' इति कर्त्रभिप्रायेऽपि क्रियाले परस्मैपदम् "जनिजॄष्'' इति मित्त्वाद्ध्रस्वत्वम् ण्यन्तात्कर्मणि "चिण्णमुलोर्दीर्घोऽन्यतरस्याम्'' इति वा ह्रस्वत्वे (अजनि अजानि) इति (जन्यो घटः, जन्यं घटेन, )"तकिशसिचतियतिजनीनाम्'' इति यत् "भव्यगेय'' इत्यादिना कर्तृभावयोः "ये विभाषा'' इति नात्वमकित्वात् ( जनः, ) पचाद्यच् घञ्यपि "जनिवध्योश्च'' इतिवृद्धिनिषेधात् ( जनः ) जनानां समूहो (जनता) "ग्रामजनबन्धुसहायेभ्यस्तल्'' इति तल्जनस्य जल्पो ( जन्यः ) "मतजनहलात् करणजल्पकर्षेषु'' इति जल्पे यत्प्रत्ययः जनेषु साधुः जनंजनं प्रति वा ( प्रतिजनं, ) सप्तम्यर्थे वीप्सायां वा ऽव्ययीभावः ( प्रातिजनीनः ) "प्रतिजनादिभ्यः खञ्'' इति "तत्र साधुः'' इति विषये खञ् विश्वजनाय हितं ( विश्वजनीनम् ) "आत्मन्विश्वजन'' इति खः ( पञ्चजनीनम् ) [पञ्चजनादुपसङ्ख्यानम्] इति खः (सार्वजनिकः, सर्वजनीनः, ) "सर्वजनाट्वञ्च'' इति ठञ्खौ, त्रय एते कर्मधारयादेवेष्यन्ते षष्ठीतत्पुरुषे बहुव्रीहौ "तस्मै हितम्'' इति छो भवति, ( विश्वजनीयः, पञ्चजनीयः, सर्वजनीयः ) इति महाजनाय हितं ( माहाजनिकम्, [ महाजनाचित्यं ठञ्वक्तव्यः ] इति ठञ्.अयं तत्पुरुषादेवेष्यते बहुव्रीहौ तु छो भवति ( महाजनीयः ) इति पञ्चजनेषु भवं ( पाञ्चजन्यम्, ) "बहिर्देवपञ्चजनेभ्यश्च'' इति ञ्यः ( प्रावृषिजः) "सप्तम्यां जनेर्डः'' इति डः "प्रावृट्छरत्कालदिवां जे'' इति सप्तम्या अलुक् एवं ( शरदिजः ) इत्यादि ( वर्षेजः, वर्षजः क्षरेजः, क्षरजः शरेजः शरजः वरेजः, वरजः ) "विभाषा वर्षक्षराशरवरात्'' इति जे परे सप्तम्या वा ऽलुक् बुद्धेर्जातो ( बुद्धिजः ) "पञ्चम्यामजातौ'' इति डः ( अनुजः, प्रजा ) "उपसर्गे संज्ञायाम्'' इति डः ( अप्रजाः, दुष्प्रजाः सुप्रजाः ) "नित्यमसिच्प्रजामेधयोः'' इति नञ्दुस्सुभ्यः परस्य प्रजाशब्दस्यासिच् प्रत्ययो बहुव्रीहौ स्त्रियमनुजातः ( स्त्र्यनुजः ) "अनौ कर्मणि'' इति डः आत्मनो जननेनाग्रजां स्त्रियामवरत्वेन प्राप्त इत्यर्थः अपरे त्वनुना रुधिराक्षिप्यते, तदपेक्षं स्त्रियाः कर्मत्वमिति स्त्रियमनुरुध्य जातइत्यर्थ इति विवृण्वते जायत इति ( अजः ) द्विर्जायतइति ( द्विजः, ) द्वितीयजननम् उपनयनम् ( ब्राह्मजो ) धर्मः ( क्षत्रियजं ) युद्धम् ( अभिजाः ) केशाः "अन्येष्वपि दृश्यते'' इति डः ( बीजम्, ) पूर्ववत् डः बीजाकरोति बीजेन सह कषतीत्यर्थः बीजशब्दो बीजावापसहिते विलेखने वर्तत इति हरदत्तः ( सूत्रम्) कृञो द्वितीयतृतीयशम्बबीजात्कृषौ (इति सूत्रम्) इति कृञो योगे कृषावभिधेयायां द्वितीयादिभ्यो डाच् "ऊर्यादिच्विडाचश्च'' इति निपातो "गतिश्च'' इत्यव्ययत्वं पूर्वप्रयोगश्च बीजादिति निर्देशात् दीर्घो बत्वं चोपसर्गस्य ( प्रजनिष्णुः ) "अलंकृञ्'' इत्यादिना इष्णुच् ( अनुजातो ) माणवको माणविकाम्, ( अनुजाता ) माणविका माणवकेन "गत्यर्थाकर्मक'' इति कर्तृकर्मणोः क्तः (जनिः) "भाषायां धाञ्'' इत्यादिना किकिनोरन्यतरः लिड्वद्भावाद् द्वित्वं (जनुः) "जनेरुसिः'' इत्युसिप्रत्ययः ( पुंसानुजः जनुषान्धः ) [ पुंजानुजो जनुषान्ध उपसङ्ख्यानम् ] इति तृतीयाया अलुक् "तृतीया'' इति योगविभागात्समासः पुंसा जन्मना हेतुना ऽनुजो ऽन्धश्चेत्यर्थः ( जन्म ) मनिम् ( जन्मी ) व्रीह्मादित्वादिनिः ( जन्तुः ) "कमिममि'' इत्यादिना तुप्रत्ययः ( जानुः ) "दृसनि'' इत्यादिनाऽ ञुणनुबन्धठ्ठयसामर्थ्यात् "जनिवध्योश्च'' इति वृद्धिनिषेधो बाध्यते प्रगता जानुः ( प्रज्ञुः ) सङ्गताजानुः ( संज्ञुः ) "प्रसंभ्यां जानुनोर्जुः'' इति जुः समासान्तो बहुव्रीहौ ( ऊर्ध्वजुः, ऊर्ध्वजानुः) "ऊर्ध्वाद्विभाषा'' इति जुविकल्पः ( उपजानुः ) समीपे ऽव्ययीभावः तत्र भवम् ( औपजानुकम् ) "उपजानूपकर्णोपनीवेष्ठक्'' इति ठक् "इसुसुक्तान्तात्कः'' इति कादेशः ( जाया ) "जनेर्यक्'' इति यक् "ये विभाषा'' इत्यस्य व्यवस्थितविभाषात्वाद् नित्यमात्वम् ( युवजानिः ) "जायाया निङ्'' इति बहुव्रीहौ निङादेशोऽन्त्यस्यसमासान्तः "लोपो व्योर्वलि'' इति यलोपः ( जनिः ) "जनिघसिम्यामिण्'' इतीण् कृदिकारत्वान् ङीषि ( जनी ) तां वहन्तीति ( जन्या, ) जामातुर्वयस्याः, "संज्ञायां जन्या'' इति द्वितीयान्तात् जनीशब्दाद् वहतीत्यर्थे यत्प्रत्ययः संज्ञायाम् 41
कृदन्तरूपमाला
Sanskrit
1 {@“जनी प्रादुर्भावे”@} 2 प्रादुर्भावः = उत्पत्तिरभिव्यक्तिर्वा।
अनुपूर्वकोऽयं धातुः सकर्मकः।
3 4 जनकः-निका, 5 जनकः-निका, 6 जिजनिषकः-षिका, 7 जञ्जनकः-जन्जनकः-निका, जाजायकः-यिका
जनिता-त्री, जनयिता-त्री, जिजनिषिता-त्री, जञ्जनिता-जाजायिता-त्री
-- 8 जनयन्-न्ती, जनयिष्यन्-न्ती-ती
-- -- 9 जायमानः, -- जिजनिषमाणः, जञ्जन्यमानः- 10 जाजायमानः
जनिष्यमाणः, -- जिजनिषिष्यमाणः, जञ्जनिष्यमाणः-जाजायिष्यमाणः
11 प्रजा-प्रजानौ-प्रजानः
-- -- -- -- 12 जातम्- 13 जातः-जातवान्, जनितः, जिजनिषितः, जञ्जनितः-जाजायितः-तवान्
14 15 जनः, 16 प्रजनिष्णुः, 17 18 जज्ञिः, 19 विजावा-विजावानौ-विजावानः, विजावरी, 20 जन्यः, 21 मन्दुरजः, 22 प्रावृषिजः-शरदिजः-कालेजः- 23 दिविजः, 24 सरसिजम्-सरोजम्, 25 वर्षेजः-वर्षजः-क्षरेजः-क्षरजः-शरेजः- शरजः-वरेजः-वरजः, 26 संस्कारजः-अदृष्टजः, 27 प्रजा-अनुजः, 28 29 बीजम्- 30 31 पुमनुजा-रामानुजः, 32 पुंसाऽनुजः, 33 अजः-द्विजः, 34 ब्राह्मणजः, क्षत्रियजः-नगजः 35 - 36 वनजः, कौसल्याजः, 37 अभिजः-परिजः 38, जनः, जिजनिषुः, जञ्जनः- 39 जाजः
जनितव्यम्, जनयितव्यम्, जिजनिषितव्यम्, जञ्जनितव्यम्-जाजायितव्यम्
जननीयम्, जननीयम्, जिजनिषणीयम्, जञ्जननीयम्-जाजायनीयम्
40 जन्यम्, 41 जन्यम्, जिजनिष्यम्, जञ्जन्यम्-जाजाय्यम्
ईषज्जनः-दुर्जनः-सुजनः
-- -- -- जन्यमानः-जायमानः, जन्यमानः, जिजनिष्यमाणः, जञ्जन्यमानः-जाजाय्यमानः
42 प्रजनः, जनः, जिजनिषः, जञ्जनः-जाजायः
जनितुम्, जनयितुम्, जिजनिषितुम्, जञ्जनितुम्-जाजायितुम्
43 जातिः, 44 अजननिः, 45 जनना, निजनिषा, जञ्जना-जाजाया
जननम्, जननम्, जिजनिषणम्, जञ्जननम्-जाजायनम्
जनित्वा, जनयित्वा, जिजनिषित्वा, जञ्जनित्वा-जाजायित्वा
प्रजन्य-प्रजाय, 46 प्रजनय्य, प्रजिजनिष्य, प्रजञ्जन्य-प्रजाजाय्य
जनम् २, जनित्वा २, 47 जनम् -जानम् २, जनयित्वा २, जिजनिषम् २, जिजनिषित्वा २, जञ्जनम् -जाजायम्
जञ्जनित्वा -जजायित्वा
48 इत्यादिना तुप्रत्ययः।
जायते, जजन्ति इति वा जन्तुः = प्राणी।]] जन्तुः, 49 इत्नुच्प्रत्यये जनयित्नुः = पिता।
‘अयामन्ताल्वाय्येत्न्विष्णुषु च’ 50 इति णेरयादेशः।]] जनयित्नुः, 51 इति क्कुन्प्रत्ययः।]] जनकः, 52 इति मनिनि रूपम्।
जायते, जन्यते इति वा जन्म]] जन्म, 53 इति यक्प्रत्ययः।
जायते, जन्यते वाऽस्यापत्य- मिति जाया = भार्या।
‘ये विभाषा’ 54 इत्यात्वे, सवर्णदीर्घें रूपम्।]] जाया, 55 इति अरप्रत्यये, धातोश्च ठकारेऽन्तादेशे रूपम्।
जायन्तेऽस्मिन् अतिशयेन वातादिवैषम्यात् व्याधय इति जठरम् = उदरम्।]] जठरम्, 56 इत्युसिप्रत्ययः।
जायते इति जनुः = जन्म।]] जनुः।
57
प्रासङ्गिक्यः
01
=>
(५८३)
02
=>
(४-दिवादिः-११४९। अक। सेट्। आत्म।)
03
=>
[पृष्ठम्०५५२+ २८]
04
=>
[[१। ‘जनिवध्योश्च’ (७-३-३५) इति निषेधात्, ‘अत उपधायाः’ (७-२-११६) इति वृद्धिर्न भवति। एवं घञि, णमुल्यपि ज्ञेयम्।]]
05
=>
[[२। णिचि, ‘अत उपधायाः’ (७-२-११६) इति प्राप्ता वृद्धिः, ‘जनिवध्योश्च’ (७-३-३५) इति निषिध्यते। वृद्धौ सत्यामपि, ‘जनीजॄष्--’ (गणसूत्रम्-भ्वादौ) इति वचनेन मित्त्वात्, ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वः स्यादिति शङ्क्यम्
\n\n मित्त्वविधानस्य, चिण्णमुल्परकणौ दीर्घविकल्पविधानेन चारितार्थ्यात्। ‘जनिवध्योश्च’ (७-३-३५) इति निषेधस्य जागरूकत्वाच्च। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[[३। ‘जनसनखनां सन्झलोः’ (६-४-४२) इति सूत्रेण आत्वं तु नात्र प्रवर्तते। झलादौ सनि तद्विधानात्। अत्र चेडागमप्रवृत्त्या सनः झलादित्वाभावात्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[[४। ‘ये विभाषा’ (६-४-४३) इत्यनेन आत्त्वविकल्यः। आत्त्वाभावपक्षे, द्वित्वे, अभ्या- सस्य ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति नुगागमः। आत्त्वपक्षे ‘दीर्घो- ऽकितः’ (७-४-८३) इति अभ्यासस्य दीर्घे जाजायकः इति रूपम्। एवं यङन्ते सर्वत्र रूपद्वयं बोध्यम्। नुकः ‘पदान्तवद्वाच्यः’ (वा। ७-४-८५) इति वचनात् कदाचित् परसवर्णाभावरूपोऽपि साधुरेव।]]
08
=>
[[५। ‘बुधयुधनशजनेङ्प्रुद्रुश्रुभ्यो णेः’ (१-३-८६) इति ण्यन्तात् परस्मैपदमेव। तु शानच्।]]
09
=>
[[६। ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन्प्रत्ययः। ‘ज्ञाजनोर्जा (७-३-७९) इति प्रकृतेः जादेशः।]]
10
=>
[[आ। ‘जाजायमानेन भयेन नभ्राडतायताथो सहसोत्थितश्च।’ वा। वि। ३। ४४।]]
11
=>
[[७। क्विपि, ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६-४-१५) इति दीर्घः। ‘न लोपः प्रातिपदिकान्तस्य’ (८-२-७) इति नकारलोपः।]]
12
=>
[[८। ईदित्त्वेन, ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्णिषेधः। ‘जनसनखनां सञ्- झलोः’ (६-४-४२) इति नकारस्याकारः। सवर्णदीर्घः।]]
13
=>
[[B। ‘असौ कुमारस्तमजोऽनुजातस्रिविष्टपस्येव पतिं जयन्तः।’ रघुवंशे ६। ७८।]]
14
=>
[पृष्ठम्०५५३+ ३२]
15
=>
[[आ। ‘तावज्जनित्वा व्रजनाथपत्न्त्या मनो जनस्याभिनिविश्य देव्या।’ वा। वि। ३। ३९।]]
16
=>
[[१। ‘अलंकृञ्निराकृञ्प्रजनोत्पद--’ (३-२-१३६) इत्यादिना तच्छीलादिषु कर्तृषु प्रोपसृष्टादस्मात् इष्णुच् प्रत्ययः।]]
17
=>
[[B। ‘तर्पणं प्रजनिष्णूनां सस्यानाममलं पयः।’ का। ७। २।]]
18
=>
[[२। ‘भाषायां धाञ्कृसृगमिजनिनमिभ्यः--’ (वा। ३-२-१७१) इति लिटः किः किन् वा आदेशः। लिड्वद्भावात् ‘लिटि धातोरनभ्यासस्य’ (६-१-८) इति द्विर्वचनम्। ताच्छीलिकोऽयं प्रत्ययः। अभ्यासकार्यम्। ‘गमहनजनखनघसां लोपः क्ङित्यनङि’ (६-४-९८) इत्युपधालोपः। ‘स्तोः श्चुना श्चुः’ (८-४-४०) इति श्चुत्वम्।]]
19
=>
[[३। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति वनिप्प्रत्यये, ‘विड्वनोरनुनासिक- स्यात्’ (६-४-४१) इत्यात्त्वे, सवर्णदीर्घे, ‘नलोपः प्रातिपदिकान्तस्य’ (८-२-७) इति नकारलोपे, रूपम्। नकारान्तोऽयं शब्दः। स्त्रियाम्, ‘वनो च’ (४-१-७) इति ङीब्रेफौ भवतः।]]
20
=>
[[४। ‘भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा’ (३-४-६८) इति कर्तरि यत्प्रत्ययान्तो निपातितः। पक्षे भावेऽष्ययं प्रत्ययः।]]
21
=>
[[५। ‘सप्तम्यां जनेर्डः’ (३-२-९७) इति डप्रत्ययः। ‘ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्’ (६-३-६३) इति पूर्वपदस्य ह्रस्वः।]]
22
=>
[[६। ‘प्रावृट्शरत्कालदिवां जे’ (६-३-१५) इति सप्तम्या अलुक्।]]
23
=>
[[C। ‘अवश्यलाव्या दिविजा ममाद्य ये खेचरीं वाचमुदैरिरंस्ताम्। नूनं गृहेशूर इतीमके मां क्षिपन्ति वर्षेजजलानिवार्यम्।।’ वा। वि। २। १८।]]
24
=>
[[७। ‘तत्पुरुषे कृति बहुलम्’ (६-३-१४) इति वा सप्तम्या अलुक्।]]
25
=>
[[८। ‘विभाषा वर्षक्षरशरवरात्’ (६-३-१६) इति विभाया सप्तम्या अलुक्।]]
26
=>
[[९। ‘पञ्चम्यामजातौ’ (३-२-९८) इति डप्रत्ययः।]]
27
=>
[[१०। ‘उपसर्गे संज्ञायाम्’ (३-२-९९) इति डप्रत्ययः।]]
28
=>
[[ड्। ‘मन्ये किञ्जमहं घ्नन्तं त्वामक्षत्रियजे रणे। लक्ष्मणाधिज दुर्वृत्तं प्रयुक्तमनुजेन नः।।’ भ। का। ६। १३६।]]
29
=>
[[११। विशेषेण जायते इति बीजम्। ‘उपसर्गे संज्ञायाम्’ (३-२-९९) इति डप्रत्ययः। ‘कृञो द्वितीयतृतीयशम्बबीजात् कृषौ’ (५-४-५८) इत्यत्र, ‘बीज’ इति निर्देशात्, पृषोदरादित्वेन (६-३-१०९) ‘वि’ इत्युपसर्गस्य दीर्घः, वकारस्य बकारादेशः।]]
30
=>
[पृष्ठम्०५५४+ २७]
31
=>
[[१। ‘अनौ कर्मणि’ (३-२-१००) इति डप्रत्ययः।]]
32
=>
[[२। ‘पुंसाऽनुजो जनुषाऽन्ध इति वक्तव्यम्’ (वा। ६-३-३) इति तृतीयाया अलुक्।]]
33
=>
[[३। ‘अन्येष्वपि दृश्यते’ (३-२-१०१) इति डप्रत्ययः। “--‘सप्तम्याम्--’ (३-२-९७) इत्युक्तम्
\n\n असप्तम्यामपि दृश्यते--न जायते इत्यजः। द्विर्जाताः द्विजाः। ‘पञ्चम्यामजातौ’ (३-२-९८) इत्युक्तम्
\n\n जातावपि दृश्यते--ब्राह्म- णजो धर्मः, क्षत्रियजं युद्धम्। ‘उपसर्गे संज्ञायाम्’ (३-२-९९) इत्युक्तम्
\n\n असंज्ञायामपि दृश्यते-अभिजाः, परिजाः केशाः। ‘अनौ कर्मणि’ (३-२-१००) इत्युक्तम्
\n\n अकर्मण्यपि दृश्यते--अनुजातः = अनुजः। अपिशब्दः सर्वोपाधिव्य- भिचारार्थः। तेन धात्वन्तरादपि भवति, कारकान्तरेऽपि--परितः खाता = परिखा, आखा।” इति काशिका (३-२-१०१) अत्रानुसन्धेया।]]
34
=>
[[आ। ‘वेदिवत् सपरिग्राहा यज्ञियैः संस्कृता द्विजैः।’ भ। का। ७-४५।]]
35
=>
[[B। ‘न गजा नगजा दयिता दयिता विगतं विगतं वलितम् वलितम्। प्रमदाप्रमदा महता महतामरणं मरणं समयात् समयात्।।’ भ। का। १०। ९।]]
36
=>
[[C। ‘घनगिरीन्द्रविलङ्घनशालिना वनगता वनजद्युतिलोचना। जनमता ददृशे जनकात्मजा तरुमृगेण तरुस्थलशायिनी।।’ भ। का। १०। १५।]]
37
=>
[[ड्। ‘पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृतजैर्द्विजैः। कौसल्याज शशादीनां तेषां नैकोऽप्यहं कपिः।।’ भ। का। ६। १३४।]]
38
=>
[केशः]
39
=>
[[४। यङन्तात् पचाद्यचि (३-१-१३४) पृथगल्लोपे, अकारस्य स्थानिवद्भावात् उत्तर- खण्डाकारस्य लोपः।]]
40
=>
[[५। ‘तकिशसिचतिजनिभ्यो यद्वाच्यः’ (वा। ३-१-९७) इति ण्यदपवादो यत्।]]
41
=>
[[E। ‘स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं जनौघजन्यम्।’ भ। का। ३। २७।]]
42
=>
[पृष्ठम्०५५५+ २६]
43
=>
[[१। ‘तितुत्र--’ (७-२-९) इतीण्णिषेधे, ‘जनसनखनां सञ्झलोः’ (६-४-४२) इति आत्वे, सवर्णदीर्घे रूपम्।]]
44
=>
[[२। स्त्रियां भावे ‘आक्रोशे नञ्यनिः’ (३-३-११२) इत्यनिप्रत्ययः।]]
45
=>
[[आ। ‘तस्याजननिरेवास्तु जननीक्लेशकारिणः।।’ शिशुपालवधे २४। ५।]]
46
=>
[[३। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
47
=>
[[४। ‘जनीजॄष्--’ (गणसूत्रम्--भ्वादौ) इति वचनेन मित्त्वात्, ‘चिण्णमुलोर्दीर्घोऽ- न्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः। मित्त्वस्येदमेवासा- धारणं प्रयोजनम्।]]
48
=>
[[५। ‘कमिमनिजनि--’ [द। उ। १-१२५]
49
=>
[[६। ण्यन्तादस्मात् औणादिके [द। उ। १-१४०]
50
=>
(६-४-५५)
51
=>
[[७। जनयतीति जनकः = पिता। ‘क्कुन् शिल्पिसंज्ञयोः’ [द। उ। ३-५]
52
=>
[[८। ‘मनिन्’ [द। उ। ६-७३]
53
=>
[[९। ‘जनेर्यक्’ [द। उ। ८-१३]
54
=>
(६-४-४३)
55
=>
[[१०। ‘जनेरर ठः’ [द। उ। ८-९८]
56
=>
[[११। ‘जनेरुसिः’ [द। उ। ९-३७]
57
=>
[पृष्ठम्०५५६+ २९]
Capeller
German
ज॑नी s. ज॑नि.
Grassman
German
jáni, jánī, f., Weib, Gattin [als die gebärende, von jan, Cu. 〔128〕, vgl. gnā́], 1〉 Weib
2〉 Gattin, insbesondere 3〉 mit dem Zusatze pátnī
4〉 von Göttern, namentlich pl., die Götterweiber, insbesondere 5〉 wie gnā́s, die mit Tvastar in Verbindung stehenden
6〉 bildlich von den Fingern beim Hervorbringen des Feuers durch Reiben. Adj.: sūnára, sánīḍa.
[N. s.] 4〉 {348, 1} (uṣā́s).
-yus [G.] 2〉 (tanúam) {836, 3}.
-ayas 1〉 {85, 1}
{315, 5}
{415, 3}
{844, 7}
{950, 7}. 2〉 {301, 5}
{866, 10}
{869, 1}
{936, 5}. 3〉 {62, 10}
{186, 7}. 6〉 {71, 1}.
-īs [A. p.] 4〉 subhāgā́s {167, 7}. 2〉 {542, 3}.
-ibhis 4〉 {534, 2}. 5〉 {227, 3}
{491, 13}
{890, 10}. 6〉 {260, 3}.
-īnām 1〉 ṛtús {400, 8}. 2〉 pátis {66, 8}
{798, 32}.
Burnouf
French
जनी जनी
f.
(cf. जन) femme [par oppos. à jeune
fille]. Gr.
γυνή
irland. gean.