| YouTube Channel

जनलोकः (janalokaH)

 
शब्दकल्पद्रुमः
Sanskrit
जनलोकः,
पुं,
(जन एव लोकः ।) महर्लोको-परिभुवनम् यथा, --“अयं हि महर्लोकः स्वर्लोकात् परमाद्भुतः ।कल्पायुषो वसन्त्यत्र तपसा धुतकल्मषाः
इत्थं कथां कथयतोर्भगवद्गणयोः प्रिये ! ।क्षणार्द्ध्वेन विमानन्तज्जनलोकं निनाय तान्
निवसन्त्यमला यत्र मानसा ब्रह्मणः सुताः ।सनन्दनाद्या योगीन्द्राः सर्व्वे ते ह्यूर्द्ध्वरेतसः
अन्ये तु योगिनो ये वै ह्यस्खलद्ब्रह्मचारिणः ।सर्व्वद्बन्द्वविनिर्म्मुक्तास्ते वसन्त्यत्र निर्म्मलाः
महर्लोकः क्षितेरूर्द्ध्वमेककोटिप्रमाणतः ।कोटिद्वयेतिसंख्यातो जनो भूर्लोकतो जनैः
”इति स्कान्दे काशीखण्डम्