जनयिता-त्री (janayitA-trI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“जन जनने”@} 2 छान्दसः।
3 जनकः-निका, 4 जनकः-निका, जिजनिषकः-षिका, 5 जञ्जनकः-निका, जाजायकः-यिका
जनिता-त्री, जनयिता-त्री, जिजनिषिता-त्री, जञ्जनिता-त्री, जाजायिता-त्री
6 जज्ञत्-ती, 7 जनयन्-न्ती, जिजनिषन्-न्ती
-- जनिष्यन्-न्ती-ती, जनयिष्यन्-न्ती-ती, जिजनिषिष्यन्-न्ती-ती
-- -- जञ्जन्यमानः-जञ्जनिष्यमाणः, जाजायमानः, जाजायिष्यमाणः
8 गोजाः-गोजौ-गोजाः
-- -- -- 9 जनितम्-तः, जनितः, जिजनिषितः, जञ्जनितः-जाजायितः-तवान्
जनः, 10 जन्यः, जनः, जिजनिषुः, जञ्जनः- 11 जाजः
जनितव्यम्, जनयितव्यम्, जिजनिषितव्यम्, जञ्जनितव्यम्, जाजायितव्यम्
जननीयम्, जननीयम्, जिजनिषणीयम्, जञ्जननीयम्-जाजायनीयम्
12 जन्यम्, जन्यम्, जिजनिष्यम्, जञ्जन्यम्-जाजाय्यम्
ईषज्जनः-दुर्जनः-सुजनः
-- -- जन्यमानः-जायमानः, जन्यमानः, जिजनिष्यमाणः, जञ्जन्यमानः-जाजाय्यमानः
जनः, जनः, जिजनिषः, जञ्जनः-जाजायः
जनितुम्, जनयितुम्, जिजनिषितुम्, जञ्जनितुम्-जाजायितुम्
13 जातिः, जनना, जिजनिषा, जञ्जना-जाजाया
जननम्, जननम्, जिजनिषणम्, जञ्जननम्-जाजायनम्
जनित्वा, जनायित्वा, जिजनिषित्वा, जञ्जनित्वा-जाजायित्वा
प्रजन्य-प्रजाय, 14 प्रजनय्य, प्रजिजनिष्य, प्रजञ्जन्य-प्रजाजाय्य
जनम् २, जनित्वा २, 15 जनम् २, जनयित्वा २, जिजनिषम् २, जिजनिषित्वा २, जञ्जनम् २- जञ्जनित्वा २- जाजायम् २
जाजायित्वा २।
01 (५८२)
02 (३-जुहोत्यादिः-११०५। अक। सेट्। पर।)
03 [[४। ण्वुलि ‘जनिवध्योश्च’ (७-३-३५) इत्युपधाया वृद्धिनिषेधः। एवं घञि, णमुलि च ज्ञेयम्।]]
04 [[५। ‘जनीजॄष्--’ (गणसूत्रम्-भ्वादौ) इति सूत्रे ईकारविशिष्टोपादानात्, अस्य जन- धातोर्न मित्त्वप्रयुक्तो ह्रस्वः। अपितु, ‘जनिवध्योश्च’ (७-३-३५) इत्येव णौ परतः वृद्धिनिषेधः।]]
05 [[६। यङि द्वित्वे, ‘ये विभाषा’ (६-४-४३) इति वैकल्पिकमात्त्वम्। आत्त्वाभाव- पक्षे, ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इत्यभ्यासस्य नुगागमे, जञ्जनकः इति, आत्त्वपक्षे जाजायकः इति च रूपम्। एवं यङन्ते सर्वत्र रूपद्वयस्योपपत्तिर्ज्ञेया।]]
06 [[७। शतरि ‘जुहोत्यादिभ्यः श्लुः’ (२-४-७५) इति श्लौ, ‘श्लौ’ (६-१-१०) इति द्वित्वे, उत्तरखण्डे, ‘गमहनजनखनघसां लोपः क्ङित्यनङि’ (६-४-९८) इत्युपधालोपे, ‘स्तोः श्चुना श्चुः’ (८-४-४०) इति नकारस्य श्चुत्वे जज्ञत् इति रूपम्। ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुम् न भवति।]]
07 [[८। ‘बुधयुधनशजनेङ् प्रुद्रुश्रुभ्यो णेः’ (१-३-८६) इति ण्यन्तात् शतैव। न शानच्।]]
08 [[९। ‘जनसनखनक्रमगमो विट्’ (३-२-६७) इति विट्प्रत्ययः। ‘विड्वनोरनुनासि- कस्यात्’ (६-४-४१) इत्यनुनासिकस्याकारे, आकारान्तं प्रातिपदिकम्। एवम्, अब्जाः, अद्रिजाः, ऋतजाः इत्यादिकं बोध्यम्।]]
09 [पृष्ठम्०५५१+ २२]
10 [[१। ‘भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा’ (३-४-६८) इति कर्तरि भावे च यदन्तो निपातितः।]]
11 [[२। यङन्तात् पचाद्यचि (३-१-१३४) आत्वपक्षे, अतो लोपे, यकारस्य लुकि, स्थानि- वद्भावेन आकारलोपे, रूपम्।]]
12 [[३। ‘तकिशसिजनिभ्यो यद्वाच्यः’ (वा। ३-१-९७) इति यत्। ण्यदपवादः।]]
13 [[४। ‘जनसनखनां सञ्झलोः’ (६-४-४२) इति आत्वे सवर्णदीर्घे रूपम्।]]
14 [[५। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
15 [[६। अस्य धातोर्मित्त्वाभावात्, णमुल्परके णिचि उपधायाः वैकल्पिकदीर्घो न।]]
1 {@“जनी प्रादुर्भावे”@} 2 प्रादुर्भावः = उत्पत्तिरभिव्यक्तिर्वा।
अनुपूर्वकोऽयं धातुः सकर्मकः।
3 4 जनकः-निका, 5 जनकः-निका, 6 जिजनिषकः-षिका, 7 जञ्जनकः-जन्जनकः-निका, जाजायकः-यिका
जनिता-त्री, जनयिता-त्री, जिजनिषिता-त्री, जञ्जनिता-जाजायिता-त्री
-- 8 जनयन्-न्ती, जनयिष्यन्-न्ती-ती
-- -- 9 जायमानः, -- जिजनिषमाणः, जञ्जन्यमानः- 10 जाजायमानः
जनिष्यमाणः, -- जिजनिषिष्यमाणः, जञ्जनिष्यमाणः-जाजायिष्यमाणः
11 प्रजा-प्रजानौ-प्रजानः
-- -- -- -- 12 जातम्- 13 जातः-जातवान्, जनितः, जिजनिषितः, जञ्जनितः-जाजायितः-तवान्
14 15 जनः, 16 प्रजनिष्णुः, 17 18 जज्ञिः, 19 विजावा-विजावानौ-विजावानः, विजावरी, 20 जन्यः, 21 मन्दुरजः, 22 प्रावृषिजः-शरदिजः-कालेजः- 23 दिविजः, 24 सरसिजम्-सरोजम्, 25 वर्षेजः-वर्षजः-क्षरेजः-क्षरजः-शरेजः- शरजः-वरेजः-वरजः, 26 संस्कारजः-अदृष्टजः, 27 प्रजा-अनुजः, 28 29 बीजम्- 30 31 पुमनुजा-रामानुजः, 32 पुंसाऽनुजः, 33 अजः-द्विजः, 34 ब्राह्मणजः, क्षत्रियजः-नगजः 35 - 36 वनजः, कौसल्याजः, 37 अभिजः-परिजः 38, जनः, जिजनिषुः, जञ्जनः- 39 जाजः
जनितव्यम्, जनयितव्यम्, जिजनिषितव्यम्, जञ्जनितव्यम्-जाजायितव्यम्
जननीयम्, जननीयम्, जिजनिषणीयम्, जञ्जननीयम्-जाजायनीयम्
40 जन्यम्, 41 जन्यम्, जिजनिष्यम्, जञ्जन्यम्-जाजाय्यम्
ईषज्जनः-दुर्जनः-सुजनः
-- -- -- जन्यमानः-जायमानः, जन्यमानः, जिजनिष्यमाणः, जञ्जन्यमानः-जाजाय्यमानः
42 प्रजनः, जनः, जिजनिषः, जञ्जनः-जाजायः
जनितुम्, जनयितुम्, जिजनिषितुम्, जञ्जनितुम्-जाजायितुम्
43 जातिः, 44 अजननिः, 45 जनना, निजनिषा, जञ्जना-जाजाया
जननम्, जननम्, जिजनिषणम्, जञ्जननम्-जाजायनम्
जनित्वा, जनयित्वा, जिजनिषित्वा, जञ्जनित्वा-जाजायित्वा
प्रजन्य-प्रजाय, 46 प्रजनय्य, प्रजिजनिष्य, प्रजञ्जन्य-प्रजाजाय्य
जनम् २, जनित्वा २, 47 जनम् २ -जानम् २, जनयित्वा २, जिजनिषम् २, जिजनिषित्वा २, जञ्जनम् २ -जाजायम् २
जञ्जनित्वा २ -जजायित्वा २
48 इत्यादिना तुप्रत्ययः।
जायते, जजन्ति इति वा जन्तुः = प्राणी।]] जन्तुः, 49 इत्नुच्प्रत्यये जनयित्नुः = पिता।
‘अयामन्ताल्वाय्येत्न्विष्णुषु च’ 50 इति णेरयादेशः।]] जनयित्नुः, 51 इति क्कुन्प्रत्ययः।]] जनकः, 52 इति मनिनि रूपम्।
जायते, जन्यते इति वा जन्म]] जन्म, 53 इति यक्प्रत्ययः।
जायते, जन्यते वाऽस्यापत्य- मिति जाया = भार्या।
‘ये विभाषा’ 54 इत्यात्वे, सवर्णदीर्घें च रूपम्।]] जाया, 55 इति अरप्रत्यये, धातोश्च ठकारेऽन्तादेशे रूपम्।
जायन्तेऽस्मिन् अतिशयेन वातादिवैषम्यात् व्याधय इति जठरम् = उदरम्।]] जठरम्, 56 इत्युसिप्रत्ययः।
जायते इति जनुः = जन्म।]] जनुः।
57
01 (५८३)
02 (४-दिवादिः-११४९। अक। सेट्। आत्म।)
03 [पृष्ठम्०५५२+ २८]
04 [[१। ‘जनिवध्योश्च’ (७-३-३५) इति निषेधात्, ‘अत उपधायाः’ (७-२-११६) इति वृद्धिर्न भवति। एवं घञि, णमुल्यपि ज्ञेयम्।]]
05 [[२। णिचि, ‘अत उपधायाः’ (७-२-११६) इति प्राप्ता वृद्धिः, ‘जनिवध्योश्च’ (७-३-३५) इति निषिध्यते। न च वृद्धौ सत्यामपि, ‘जनीजॄष्--’ (गणसूत्रम्-भ्वादौ) इति वचनेन मित्त्वात्, ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वः स्यादिति शङ्क्यम्
\n\n मित्त्वविधानस्य, चिण्णमुल्परकणौ दीर्घविकल्पविधानेन चारितार्थ्यात्। ‘जनिवध्योश्च’ (७-३-३५) इति निषेधस्य जागरूकत्वाच्च। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
06 [[३। ‘जनसनखनां सन्झलोः’ (६-४-४२) इति सूत्रेण आत्वं तु नात्र प्रवर्तते। झलादौ सनि तद्विधानात्। अत्र चेडागमप्रवृत्त्या सनः झलादित्वाभावात्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
07 [[४। ‘ये विभाषा’ (६-४-४३) इत्यनेन आत्त्वविकल्यः। आत्त्वाभावपक्षे, द्वित्वे, अभ्या- सस्य ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति नुगागमः। आत्त्वपक्षे ‘दीर्घो- ऽकितः’ (७-४-८३) इति अभ्यासस्य दीर्घे जाजायकः इति रूपम्। एवं यङन्ते सर्वत्र रूपद्वयं बोध्यम्। नुकः ‘पदान्तवद्वाच्यः’ (वा। ७-४-८५) इति वचनात् कदाचित् परसवर्णाभावरूपोऽपि साधुरेव।]]
08 [[५। ‘बुधयुधनशजनेङ्प्रुद्रुश्रुभ्यो णेः’ (१-३-८६) इति ण्यन्तात् परस्मैपदमेव। न तु शानच्।]]
09 [[६। ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन्प्रत्ययः। ‘ज्ञाजनोर्जा (७-३-७९) इति प्रकृतेः जादेशः।]]
10 [[आ। ‘जाजायमानेन भयेन नभ्राडतायताथो सहसोत्थितश्च।’ वा। वि। ३। ४४।]]
11 [[७। क्विपि, ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६-४-१५) इति दीर्घः। ‘न लोपः प्रातिपदिकान्तस्य’ (८-२-७) इति नकारलोपः।]]
12 [[८। ईदित्त्वेन, ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्णिषेधः। ‘जनसनखनां सञ्- झलोः’ (६-४-४२) इति नकारस्याकारः। सवर्णदीर्घः।]]
13 [[B। ‘असौ कुमारस्तमजोऽनुजातस्रिविष्टपस्येव पतिं जयन्तः।’ रघुवंशे ६। ७८।]]
14 [पृष्ठम्०५५३+ ३२]
15 [[आ। ‘तावज्जनित्वा व्रजनाथपत्न्त्या मनो जनस्याभिनिविश्य देव्या।’ वा। वि। ३। ३९।]]
16 [[१। ‘अलंकृञ्निराकृञ्प्रजनोत्पद--’ (३-२-१३६) इत्यादिना तच्छीलादिषु कर्तृषु प्रोपसृष्टादस्मात् इष्णुच् प्रत्ययः।]]
17 [[B। ‘तर्पणं प्रजनिष्णूनां सस्यानाममलं पयः।’ भ का। ७। २।]]
18 [[२। ‘भाषायां धाञ्कृसृगमिजनिनमिभ्यः--’ (वा। ३-२-१७१) इति लिटः किः किन् वा आदेशः। लिड्वद्भावात् ‘लिटि धातोरनभ्यासस्य’ (६-१-८) इति द्विर्वचनम्। ताच्छीलिकोऽयं प्रत्ययः। अभ्यासकार्यम्। ‘गमहनजनखनघसां लोपः क्ङित्यनङि’ (६-४-९८) इत्युपधालोपः। ‘स्तोः श्चुना श्चुः’ (८-४-४०) इति श्चुत्वम्।]]
19 [[३। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति वनिप्प्रत्यये, ‘विड्वनोरनुनासिक- स्यात्’ (६-४-४१) इत्यात्त्वे, सवर्णदीर्घे, ‘नलोपः प्रातिपदिकान्तस्य’ (८-२-७) इति नकारलोपे, रूपम्। नकारान्तोऽयं शब्दः। स्त्रियाम्, ‘वनो र च’ (४-१-७) इति ङीब्रेफौ भवतः।]]
20 [[४। ‘भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा’ (३-४-६८) इति कर्तरि यत्प्रत्ययान्तो निपातितः। पक्षे भावेऽष्ययं प्रत्ययः।]]
21 [[५। ‘सप्तम्यां जनेर्डः’ (३-२-९७) इति डप्रत्ययः। ‘ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्’ (६-३-६३) इति पूर्वपदस्य ह्रस्वः।]]
22 [[६। ‘प्रावृट्शरत्कालदिवां जे’ (६-३-१५) इति सप्तम्या अलुक्।]]
23 [[C। ‘अवश्यलाव्या दिविजा ममाद्य ये खेचरीं वाचमुदैरिरंस्ताम्। नूनं गृहेशूर इतीमके मां क्षिपन्ति वर्षेजजलानिवार्यम्।।’ वा। वि। २। १८।]]
24 [[७। ‘तत्पुरुषे कृति बहुलम्’ (६-३-१४) इति वा सप्तम्या अलुक्।]]
25 [[८। ‘विभाषा वर्षक्षरशरवरात्’ (६-३-१६) इति विभाया सप्तम्या अलुक्।]]
26 [[९। ‘पञ्चम्यामजातौ’ (३-२-९८) इति डप्रत्ययः।]]
27 [[१०। ‘उपसर्गे च संज्ञायाम्’ (३-२-९९) इति डप्रत्ययः।]]
28 [[ड्। ‘मन्ये किञ्जमहं घ्नन्तं त्वामक्षत्रियजे रणे। लक्ष्मणाधिज दुर्वृत्तं प्रयुक्तमनुजेन नः।।’ भ। का। ६। १३६।]]
29 [[११। विशेषेण जायते इति बीजम्। ‘उपसर्गे च संज्ञायाम्’ (३-२-९९) इति डप्रत्ययः। ‘कृञो द्वितीयतृतीयशम्बबीजात् कृषौ’ (५-४-५८) इत्यत्र, ‘बीज’ इति निर्देशात्, पृषोदरादित्वेन (६-३-१०९) ‘वि’ इत्युपसर्गस्य दीर्घः, वकारस्य बकारादेशः।]]
30 [पृष्ठम्०५५४+ २७]
31 [[१। ‘अनौ कर्मणि’ (३-२-१००) इति डप्रत्ययः।]]
32 [[२। ‘पुंसाऽनुजो जनुषाऽन्ध इति वक्तव्यम्’ (वा। ६-३-३) इति तृतीयाया अलुक्।]]
33 [[३। ‘अन्येष्वपि दृश्यते’ (३-२-१०१) इति डप्रत्ययः। “--‘सप्तम्याम्--’ (३-२-९७) इत्युक्तम्
\n\n असप्तम्यामपि दृश्यते--न जायते इत्यजः। द्विर्जाताः द्विजाः। ‘पञ्चम्यामजातौ’ (३-२-९८) इत्युक्तम्
\n\n जातावपि दृश्यते--ब्राह्म- णजो धर्मः, क्षत्रियजं युद्धम्। ‘उपसर्गे च संज्ञायाम्’ (३-२-९९) इत्युक्तम्
\n\n असंज्ञायामपि दृश्यते-अभिजाः, परिजाः केशाः। ‘अनौ कर्मणि’ (३-२-१००) इत्युक्तम्
\n\n अकर्मण्यपि दृश्यते--अनुजातः = अनुजः। अपिशब्दः सर्वोपाधिव्य- भिचारार्थः। तेन धात्वन्तरादपि भवति, कारकान्तरेऽपि--परितः खाता = परिखा, आखा।” इति काशिका (३-२-१०१) अत्रानुसन्धेया।]]
34 [[आ। ‘वेदिवत् सपरिग्राहा यज्ञियैः संस्कृता द्विजैः।’ भ। का। ७-४५।]]
35 [[B। ‘न गजा नगजा दयिता दयिता विगतं विगतं वलितम् वलितम्। प्रमदाप्रमदा महता महतामरणं मरणं समयात् समयात्।।’ भ। का। १०। ९।]]
36 [[C। ‘घनगिरीन्द्रविलङ्घनशालिना वनगता वनजद्युतिलोचना। जनमता ददृशे जनकात्मजा तरुमृगेण तरुस्थलशायिनी।।’ भ। का। १०। १५।]]
37 [[ड्। ‘पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृतजैर्द्विजैः। कौसल्याज शशादीनां तेषां नैकोऽप्यहं कपिः।।’ भ। का। ६। १३४।]]
38 [केशः]
39 [[४। यङन्तात् पचाद्यचि (३-१-१३४) पृथगल्लोपे, अकारस्य स्थानिवद्भावात् उत्तर- खण्डाकारस्य लोपः।]]
40 [[५। ‘तकिशसिचतिजनिभ्यो यद्वाच्यः’ (वा। ३-१-९७) इति ण्यदपवादो यत्।]]
41 [[E। ‘स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं न जनौघजन्यम्।’ भ। का। ३। २७।]]
42 [पृष्ठम्०५५५+ २६]
43 [[१। ‘तितुत्र--’ (७-२-९) इतीण्णिषेधे, ‘जनसनखनां सञ्झलोः’ (६-४-४२) इति आत्वे, सवर्णदीर्घे रूपम्।]]
44 [[२। स्त्रियां भावे ‘आक्रोशे नञ्यनिः’ (३-३-११२) इत्यनिप्रत्ययः।]]
45 [[आ। ‘तस्याजननिरेवास्तु जननीक्लेशकारिणः।।’ शिशुपालवधे २४। ५।]]
46 [[३। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
47 [[४। ‘जनीजॄष्--’ (गणसूत्रम्--भ्वादौ) इति वचनेन मित्त्वात्, ‘चिण्णमुलोर्दीर्घोऽ- न्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः। मित्त्वस्येदमेवासा- धारणं प्रयोजनम्।]]
48 [[५। ‘कमिमनिजनि--’ [द। उ। १-१२५]
49 [[६। ण्यन्तादस्मात् औणादिके [द। उ। १-१४०]
50 (६-४-५५)
51 [[७। जनयतीति जनकः = पिता। ‘क्कुन् शिल्पिसंज्ञयोः’ [द। उ। ३-५]
52 [[८। ‘मनिन्’ [द। उ। ६-७३]
53 [[९। ‘जनेर्यक्’ [द। उ। ८-१३]
54 (६-४-४३)
55 [[१०। ‘जनेरर ठः’ [द। उ। ८-९८]
56 [[११। ‘जनेरुसिः’ [द। उ। ९-३७]
57 [पृष्ठम्०५५६+ २९]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
