| YouTube Channel

जनयन्-न्ती (janayan-ntI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“जन जनने”@} 2 छान्दसः।
3 जनकः-निका, 4 जनकः-निका, जिजनिषकः-षिका, 5 जञ्जनकः-निका, जाजायकः-यिका
जनिता-त्री, जनयिता-त्री, जिजनिषिता-त्री, जञ्जनिता-त्री, जाजायिता-त्री
6 जज्ञत्-ती, 7 जनयन्-न्ती, जिजनिषन्-न्ती
-- जनिष्यन्-न्ती-ती, जनयिष्यन्-न्ती-ती, जिजनिषिष्यन्-न्ती-ती
-- -- जञ्जन्यमानः-जञ्जनिष्यमाणः, जाजायमानः, जाजायिष्यमाणः
8 गोजाः-गोजौ-गोजाः
-- -- -- 9 जनितम्-तः, जनितः, जिजनिषितः, जञ्जनितः-जाजायितः-तवान्
जनः, 10 जन्यः, जनः, जिजनिषुः, जञ्जनः- 11 जाजः
जनितव्यम्, जनयितव्यम्, जिजनिषितव्यम्, जञ्जनितव्यम्, जाजायितव्यम्
जननीयम्, जननीयम्, जिजनिषणीयम्, जञ्जननीयम्-जाजायनीयम्
12 जन्यम्, जन्यम्, जिजनिष्यम्, जञ्जन्यम्-जाजाय्यम्
ईषज्जनः-दुर्जनः-सुजनः
-- -- जन्यमानः-जायमानः, जन्यमानः, जिजनिष्यमाणः, जञ्जन्यमानः-जाजाय्यमानः
जनः, जनः, जिजनिषः, जञ्जनः-जाजायः
जनितुम्, जनयितुम्, जिजनिषितुम्, जञ्जनितुम्-जाजायितुम्
13 जातिः, जनना, जिजनिषा, जञ्जना-जाजाया
जननम्, जननम्, जिजनिषणम्, जञ्जननम्-जाजायनम्
जनित्वा, जनायित्वा, जिजनिषित्वा, जञ्जनित्वा-जाजायित्वा
प्रजन्य-प्रजाय, 14 प्रजनय्य, प्रजिजनिष्य, प्रजञ्जन्य-प्रजाजाय्य
जनम् २, जनित्वा २, 15 जनम् २, जनयित्वा २, जिजनिषम् २, जिजनिषित्वा २, जञ्जनम् २- जञ्जनित्वा २- जाजायम्
जाजायित्वा २।
प्रासङ्गिक्यः
01
=>
(५८२)
02
=>
(३-जुहोत्यादिः-११०५। अक। सेट्। पर।)
03
=>
[[४। ण्वुलि ‘जनिवध्योश्च’ (७-३-३५) इत्युपधाया वृद्धिनिषेधः। एवं घञि, णमुलि ज्ञेयम्।]]
04
=>
[[५। ‘जनीजॄष्--’ (गणसूत्रम्-भ्वादौ) इति सूत्रे ईकारविशिष्टोपादानात्, अस्य जन- धातोर्न मित्त्वप्रयुक्तो ह्रस्वः। अपितु, ‘जनिवध्योश्च’ (७-३-३५) इत्येव णौ परतः वृद्धिनिषेधः।]]
05
=>
[[६। यङि द्वित्वे, ‘ये विभाषा’ (६-४-४३) इति वैकल्पिकमात्त्वम्। आत्त्वाभाव- पक्षे, ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इत्यभ्यासस्य नुगागमे, जञ्जनकः इति, आत्त्वपक्षे जाजायकः इति रूपम्। एवं यङन्ते सर्वत्र रूपद्वयस्योपपत्तिर्ज्ञेया।]]
06
=>
[[७। शतरि ‘जुहोत्यादिभ्यः श्लुः’ (२-४-७५) इति श्लौ, ‘श्लौ’ (६-१-१०) इति द्वित्वे, उत्तरखण्डे, ‘गमहनजनखनघसां लोपः क्ङित्यनङि’ (६-४-९८) इत्युपधालोपे, ‘स्तोः श्चुना श्चुः’ (८-४-४०) इति नकारस्य श्चुत्वे जज्ञत् इति रूपम्। ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुम् भवति।]]
07
=>
[[८। ‘बुधयुधनशजनेङ् प्रुद्रुश्रुभ्यो णेः’ (१-३-८६) इति ण्यन्तात् शतैव। शानच्।]]
08
=>
[[९। ‘जनसनखनक्रमगमो विट्’ (३-२-६७) इति विट्प्रत्ययः। ‘विड्वनोरनुनासि- कस्यात्’ (६-४-४१) इत्यनुनासिकस्याकारे, आकारान्तं प्रातिपदिकम्। एवम्, अब्जाः, अद्रिजाः, ऋतजाः इत्यादिकं बोध्यम्।]]
09
=>
[पृष्ठम्०५५१+ २२]
10
=>
[[१। ‘भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा’ (३-४-६८) इति कर्तरि भावे यदन्तो निपातितः।]]
11
=>
[[२। यङन्तात् पचाद्यचि (३-१-१३४) आत्वपक्षे, अतो लोपे, यकारस्य लुकि, स्थानि- वद्भावेन आकारलोपे, रूपम्।]]
12
=>
[[३। ‘तकिशसिजनिभ्यो यद्वाच्यः’ (वा। ३-१-९७) इति यत्। ण्यदपवादः।]]
13
=>
[[४। ‘जनसनखनां सञ्झलोः’ (६-४-४२) इति आत्वे सवर्णदीर्घे रूपम्।]]
14
=>
[[५। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
15
=>
[[६। अस्य धातोर्मित्त्वाभावात्, णमुल्परके णिचि उपधायाः वैकल्पिकदीर्घो न।]]
1 {@“जनी प्रादुर्भावे”@} 2 प्रादुर्भावः = उत्पत्तिरभिव्यक्तिर्वा।
अनुपूर्वकोऽयं धातुः सकर्मकः।
3 4 जनकः-निका, 5 जनकः-निका, 6 जिजनिषकः-षिका, 7 जञ्जनकः-जन्जनकः-निका, जाजायकः-यिका
जनिता-त्री, जनयिता-त्री, जिजनिषिता-त्री, जञ्जनिता-जाजायिता-त्री
-- 8 जनयन्-न्ती, जनयिष्यन्-न्ती-ती
-- -- 9 जायमानः, -- जिजनिषमाणः, जञ्जन्यमानः- 10 जाजायमानः
जनिष्यमाणः, -- जिजनिषिष्यमाणः, जञ्जनिष्यमाणः-जाजायिष्यमाणः
11 प्रजा-प्रजानौ-प्रजानः
-- -- -- -- 12 जातम्- 13 जातः-जातवान्, जनितः, जिजनिषितः, जञ्जनितः-जाजायितः-तवान्
14 15 जनः, 16 प्रजनिष्णुः, 17 18 जज्ञिः, 19 विजावा-विजावानौ-विजावानः, विजावरी, 20 जन्यः, 21 मन्दुरजः, 22 प्रावृषिजः-शरदिजः-कालेजः- 23 दिविजः, 24 सरसिजम्-सरोजम्, 25 वर्षेजः-वर्षजः-क्षरेजः-क्षरजः-शरेजः- शरजः-वरेजः-वरजः, 26 संस्कारजः-अदृष्टजः, 27 प्रजा-अनुजः, 28 29 बीजम्- 30 31 पुमनुजा-रामानुजः, 32 पुंसाऽनुजः, 33 अजः-द्विजः, 34 ब्राह्मणजः, क्षत्रियजः-नगजः 35 - 36 वनजः, कौसल्याजः, 37 अभिजः-परिजः 38, जनः, जिजनिषुः, जञ्जनः- 39 जाजः
जनितव्यम्, जनयितव्यम्, जिजनिषितव्यम्, जञ्जनितव्यम्-जाजायितव्यम्
जननीयम्, जननीयम्, जिजनिषणीयम्, जञ्जननीयम्-जाजायनीयम्
40 जन्यम्, 41 जन्यम्, जिजनिष्यम्, जञ्जन्यम्-जाजाय्यम्
ईषज्जनः-दुर्जनः-सुजनः
-- -- -- जन्यमानः-जायमानः, जन्यमानः, जिजनिष्यमाणः, जञ्जन्यमानः-जाजाय्यमानः
42 प्रजनः, जनः, जिजनिषः, जञ्जनः-जाजायः
जनितुम्, जनयितुम्, जिजनिषितुम्, जञ्जनितुम्-जाजायितुम्
43 जातिः, 44 अजननिः, 45 जनना, निजनिषा, जञ्जना-जाजाया
जननम्, जननम्, जिजनिषणम्, जञ्जननम्-जाजायनम्
जनित्वा, जनयित्वा, जिजनिषित्वा, जञ्जनित्वा-जाजायित्वा
प्रजन्य-प्रजाय, 46 प्रजनय्य, प्रजिजनिष्य, प्रजञ्जन्य-प्रजाजाय्य
जनम् २, जनित्वा २, 47 जनम् -जानम् २, जनयित्वा २, जिजनिषम् २, जिजनिषित्वा २, जञ्जनम् -जाजायम्
जञ्जनित्वा -जजायित्वा
48 इत्यादिना तुप्रत्ययः।
जायते, जजन्ति इति वा जन्तुः = प्राणी।]] जन्तुः, 49 इत्नुच्प्रत्यये जनयित्नुः = पिता।
‘अयामन्ताल्वाय्येत्न्विष्णुषु च’ 50 इति णेरयादेशः।]] जनयित्नुः, 51 इति क्कुन्प्रत्ययः।]] जनकः, 52 इति मनिनि रूपम्।
जायते, जन्यते इति वा जन्म]] जन्म, 53 इति यक्प्रत्ययः।
जायते, जन्यते वाऽस्यापत्य- मिति जाया = भार्या।
‘ये विभाषा’ 54 इत्यात्वे, सवर्णदीर्घें रूपम्।]] जाया, 55 इति अरप्रत्यये, धातोश्च ठकारेऽन्तादेशे रूपम्।
जायन्तेऽस्मिन् अतिशयेन वातादिवैषम्यात् व्याधय इति जठरम् = उदरम्।]] जठरम्, 56 इत्युसिप्रत्ययः।
जायते इति जनुः = जन्म।]] जनुः।
57
प्रासङ्गिक्यः
01
=>
(५८३)
02
=>
(४-दिवादिः-११४९। अक। सेट्। आत्म।)
03
=>
[पृष्ठम्०५५२+ २८]
04
=>
[[१। ‘जनिवध्योश्च’ (७-३-३५) इति निषेधात्, ‘अत उपधायाः’ (७-२-११६) इति वृद्धिर्न भवति। एवं घञि, णमुल्यपि ज्ञेयम्।]]
05
=>
[[२। णिचि, ‘अत उपधायाः’ (७-२-११६) इति प्राप्ता वृद्धिः, ‘जनिवध्योश्च’ (७-३-३५) इति निषिध्यते। वृद्धौ सत्यामपि, ‘जनीजॄष्--’ (गणसूत्रम्-भ्वादौ) इति वचनेन मित्त्वात्, ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वः स्यादिति शङ्क्यम्
\n\n मित्त्वविधानस्य, चिण्णमुल्परकणौ दीर्घविकल्पविधानेन चारितार्थ्यात्। ‘जनिवध्योश्च’ (७-३-३५) इति निषेधस्य जागरूकत्वाच्च। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[[३। ‘जनसनखनां सन्झलोः’ (६-४-४२) इति सूत्रेण आत्वं तु नात्र प्रवर्तते। झलादौ सनि तद्विधानात्। अत्र चेडागमप्रवृत्त्या सनः झलादित्वाभावात्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[[४। ‘ये विभाषा’ (६-४-४३) इत्यनेन आत्त्वविकल्यः। आत्त्वाभावपक्षे, द्वित्वे, अभ्या- सस्य ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति नुगागमः। आत्त्वपक्षे ‘दीर्घो- ऽकितः’ (७-४-८३) इति अभ्यासस्य दीर्घे जाजायकः इति रूपम्। एवं यङन्ते सर्वत्र रूपद्वयं बोध्यम्। नुकः ‘पदान्तवद्वाच्यः’ (वा। ७-४-८५) इति वचनात् कदाचित् परसवर्णाभावरूपोऽपि साधुरेव।]]
08
=>
[[५। ‘बुधयुधनशजनेङ्प्रुद्रुश्रुभ्यो णेः’ (१-३-८६) इति ण्यन्तात् परस्मैपदमेव। तु शानच्।]]
09
=>
[[६। ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन्प्रत्ययः। ‘ज्ञाजनोर्जा (७-३-७९) इति प्रकृतेः जादेशः।]]
10
=>
[[आ। ‘जाजायमानेन भयेन नभ्राडतायताथो सहसोत्थितश्च।’ वा। वि। ३। ४४।]]
11
=>
[[७। क्विपि, ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६-४-१५) इति दीर्घः। ‘न लोपः प्रातिपदिकान्तस्य’ (८-२-७) इति नकारलोपः।]]
12
=>
[[८। ईदित्त्वेन, ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्णिषेधः। ‘जनसनखनां सञ्- झलोः’ (६-४-४२) इति नकारस्याकारः। सवर्णदीर्घः।]]
13
=>
[[B। ‘असौ कुमारस्तमजोऽनुजातस्रिविष्टपस्येव पतिं जयन्तः।’ रघुवंशे ६। ७८।]]
14
=>
[पृष्ठम्०५५३+ ३२]
15
=>
[[आ। ‘तावज्जनित्वा व्रजनाथपत्न्त्या मनो जनस्याभिनिविश्य देव्या।’ वा। वि। ३। ३९।]]
16
=>
[[१। ‘अलंकृञ्निराकृञ्प्रजनोत्पद--’ (३-२-१३६) इत्यादिना तच्छीलादिषु कर्तृषु प्रोपसृष्टादस्मात् इष्णुच् प्रत्ययः।]]
17
=>
[[B। ‘तर्पणं प्रजनिष्णूनां सस्यानाममलं पयः।’ का। ७। २।]]
18
=>
[[२। ‘भाषायां धाञ्कृसृगमिजनिनमिभ्यः--’ (वा। ३-२-१७१) इति लिटः किः किन् वा आदेशः। लिड्वद्भावात् ‘लिटि धातोरनभ्यासस्य’ (६-१-८) इति द्विर्वचनम्। ताच्छीलिकोऽयं प्रत्ययः। अभ्यासकार्यम्। ‘गमहनजनखनघसां लोपः क्ङित्यनङि’ (६-४-९८) इत्युपधालोपः। ‘स्तोः श्चुना श्चुः’ (८-४-४०) इति श्चुत्वम्।]]
19
=>
[[३। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति वनिप्प्रत्यये, ‘विड्वनोरनुनासिक- स्यात्’ (६-४-४१) इत्यात्त्वे, सवर्णदीर्घे, ‘नलोपः प्रातिपदिकान्तस्य’ (८-२-७) इति नकारलोपे, रूपम्। नकारान्तोऽयं शब्दः। स्त्रियाम्, ‘वनो च’ (४-१-७) इति ङीब्रेफौ भवतः।]]
20
=>
[[४। ‘भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा’ (३-४-६८) इति कर्तरि यत्प्रत्ययान्तो निपातितः। पक्षे भावेऽष्ययं प्रत्ययः।]]
21
=>
[[५। ‘सप्तम्यां जनेर्डः’ (३-२-९७) इति डप्रत्ययः। ‘ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्’ (६-३-६३) इति पूर्वपदस्य ह्रस्वः।]]
22
=>
[[६। ‘प्रावृट्शरत्कालदिवां जे’ (६-३-१५) इति सप्तम्या अलुक्।]]
23
=>
[[C। ‘अवश्यलाव्या दिविजा ममाद्य ये खेचरीं वाचमुदैरिरंस्ताम्। नूनं गृहेशूर इतीमके मां क्षिपन्ति वर्षेजजलानिवार्यम्।।’ वा। वि। २। १८।]]
24
=>
[[७। ‘तत्पुरुषे कृति बहुलम्’ (६-३-१४) इति वा सप्तम्या अलुक्।]]
25
=>
[[८। ‘विभाषा वर्षक्षरशरवरात्’ (६-३-१६) इति विभाया सप्तम्या अलुक्।]]
26
=>
[[९। ‘पञ्चम्यामजातौ’ (३-२-९८) इति डप्रत्ययः।]]
27
=>
[[१०। ‘उपसर्गे संज्ञायाम्’ (३-२-९९) इति डप्रत्ययः।]]
28
=>
[[ड्। ‘मन्ये किञ्जमहं घ्नन्तं त्वामक्षत्रियजे रणे। लक्ष्मणाधिज दुर्वृत्तं प्रयुक्तमनुजेन नः।।’ भ। का। ६। १३६।]]
29
=>
[[११। विशेषेण जायते इति बीजम्। ‘उपसर्गे संज्ञायाम्’ (३-२-९९) इति डप्रत्ययः। ‘कृञो द्वितीयतृतीयशम्बबीजात् कृषौ’ (५-४-५८) इत्यत्र, ‘बीज’ इति निर्देशात्, पृषोदरादित्वेन (६-३-१०९) ‘वि’ इत्युपसर्गस्य दीर्घः, वकारस्य बकारादेशः।]]
30
=>
[पृष्ठम्०५५४+ २७]
31
=>
[[१। ‘अनौ कर्मणि’ (३-२-१००) इति डप्रत्ययः।]]
32
=>
[[२। ‘पुंसाऽनुजो जनुषाऽन्ध इति वक्तव्यम्’ (वा। ६-३-३) इति तृतीयाया अलुक्।]]
33
=>
[[३। ‘अन्येष्वपि दृश्यते’ (३-२-१०१) इति डप्रत्ययः। “--‘सप्तम्याम्--’ (३-२-९७) इत्युक्तम्
\n\n असप्तम्यामपि दृश्यते--न जायते इत्यजः। द्विर्जाताः द्विजाः। ‘पञ्चम्यामजातौ’ (३-२-९८) इत्युक्तम्
\n\n जातावपि दृश्यते--ब्राह्म- णजो धर्मः, क्षत्रियजं युद्धम्। ‘उपसर्गे संज्ञायाम्’ (३-२-९९) इत्युक्तम्
\n\n असंज्ञायामपि दृश्यते-अभिजाः, परिजाः केशाः। ‘अनौ कर्मणि’ (३-२-१००) इत्युक्तम्
\n\n अकर्मण्यपि दृश्यते--अनुजातः = अनुजः। अपिशब्दः सर्वोपाधिव्य- भिचारार्थः। तेन धात्वन्तरादपि भवति, कारकान्तरेऽपि--परितः खाता = परिखा, आखा।” इति काशिका (३-२-१०१) अत्रानुसन्धेया।]]
34
=>
[[आ। ‘वेदिवत् सपरिग्राहा यज्ञियैः संस्कृता द्विजैः।’ भ। का। ७-४५।]]
35
=>
[[B। ‘न गजा नगजा दयिता दयिता विगतं विगतं वलितम् वलितम्। प्रमदाप्रमदा महता महतामरणं मरणं समयात् समयात्।।’ भ। का। १०। ९।]]
36
=>
[[C। ‘घनगिरीन्द्रविलङ्घनशालिना वनगता वनजद्युतिलोचना। जनमता ददृशे जनकात्मजा तरुमृगेण तरुस्थलशायिनी।।’ भ। का। १०। १५।]]
37
=>
[[ड्। ‘पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृतजैर्द्विजैः। कौसल्याज शशादीनां तेषां नैकोऽप्यहं कपिः।।’ भ। का। ६। १३४।]]
38
=>
[केशः]
39
=>
[[४। यङन्तात् पचाद्यचि (३-१-१३४) पृथगल्लोपे, अकारस्य स्थानिवद्भावात् उत्तर- खण्डाकारस्य लोपः।]]
40
=>
[[५। ‘तकिशसिचतिजनिभ्यो यद्वाच्यः’ (वा। ३-१-९७) इति ण्यदपवादो यत्।]]
41
=>
[[E। ‘स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं जनौघजन्यम्।’ भ। का। ३। २७।]]
42
=>
[पृष्ठम्०५५५+ २६]
43
=>
[[१। ‘तितुत्र--’ (७-२-९) इतीण्णिषेधे, ‘जनसनखनां सञ्झलोः’ (६-४-४२) इति आत्वे, सवर्णदीर्घे रूपम्।]]
44
=>
[[२। स्त्रियां भावे ‘आक्रोशे नञ्यनिः’ (३-३-११२) इत्यनिप्रत्ययः।]]
45
=>
[[आ। ‘तस्याजननिरेवास्तु जननीक्लेशकारिणः।।’ शिशुपालवधे २४। ५।]]
46
=>
[[३। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
47
=>
[[४। ‘जनीजॄष्--’ (गणसूत्रम्--भ्वादौ) इति वचनेन मित्त्वात्, ‘चिण्णमुलोर्दीर्घोऽ- न्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः। मित्त्वस्येदमेवासा- धारणं प्रयोजनम्।]]
48
=>
[[५। ‘कमिमनिजनि--’ [द। उ। १-१२५]
49
=>
[[६। ण्यन्तादस्मात् औणादिके [द। उ। १-१४०]
50
=>
(६-४-५५)
51
=>
[[७। जनयतीति जनकः = पिता। ‘क्कुन् शिल्पिसंज्ञयोः’ [द। उ। ३-५]
52
=>
[[८। ‘मनिन्’ [द। उ। ६-७३]
53
=>
[[९। ‘जनेर्यक्’ [द। उ। ८-१३]
54
=>
(६-४-४३)
55
=>
[[१०। ‘जनेरर ठः’ [द। उ। ८-९८]
56
=>
[[११। ‘जनेरुसिः’ [द। उ। ९-३७]
57
=>
[पृष्ठम्०५५६+ २९]