जनमेजयः (janamejayaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishजनमेजयः [janamējayḥ], of a celebrated king of Hastināpura, son of Parīkṣit, the grandson of Arjuna. [His father died, being bitten by a serpent
and Janamejaya, determined to avenge the injury, resolved to exterminate the whole serpent-race. He accordingly instituted a serpent sacrifice, and burnt down all serpents except Takṣaka, who was saved only by the intercession of the sage Astika, at whose request the sacrifice was closed.. It was to this king that Vaiśampāyana related the Mahābhārata, and the king is said to have listened to it to expiate the sin of killing a Brāhmaṇa. ].
Apte 1890
Englishजनमेजयः N. of a celebrated king of Hastināpura, son of Parīkshit, the grandson of Arjuna. [His father died, being bitten by a serpent
and Janamejaya, determined to avenge the injury, resolved to exterminate the whole serpent-race. He accordingly instituted a serpent sacrifice, and burnt down all serpents except Takṣaka, who was saved only by the intercession of the sage Āstīka, at whose request the sacrifice was closed. It was to this king that Vaiśampāyana related the Mahābhārata, and the king is said to have listened to it to expiate the sin of killing a Brāhmaṇa.].
Apte Hindi
Hindiजनमेजयः
- "जनान् एजयति इति जन् + एज् + णिच् + खश्, मुमागमः"
हस्तिनापुर का एक प्रसिद्ध राजा
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit जनमेजयः, पारीक्षितः, राजर्षिः
राज्ञः परीक्षितस्य पुत्रः।
"जनमेजयः अभिमन्योः पौत्रः आसीत्।"
शब्दकल्पद्रुमः
Sanskritजनमेजयः, (जनान् शत्रुजनान् एजयति प्रतापैःकम्पयतीति । एजृङ् कम्पने + णिच् + “एजेःखश् ।” ३ । २ । २८ । इति खश् ततो मुमागमः ।)परीक्षितराजपुत्त्रः । तत्पर्य्यायः । राजर्षिः २पारीक्षितः ३ । इति त्रिकाण्डशेषः ॥
(यथा, देवीभागवते । २ । ११ । ६ ।“पौरजानपदा लोकाश्चक्रुस्तं नृपतिं शिशुम् ।जनमेजयनामानं राजलक्षणसंयुतम् ॥
”जन्मेजय इति पाठोऽपि क्वचित् दृश्यते । तन्नि-रुक्तिस्तच्छब्दे द्रष्टव्या ॥
अयं हि चतुरशीतिवर्षाणि राज्यं कृतवान् ।तत्र अश्वमेधादिकं बहुयज्ञं कृत्वा पितृवधा-मर्षात् सर्पसत्रं चकार । अत्रैवासौ जरत्-कारुपुत्त्रेण आस्तीकेन प्रार्थितः सर्पसत्रात्विरराम ततश्चित्तप्रशमनार्थं भारतादिकं श्रुत-वान् । वृत्तान्तस्त्वेषः क्रमशः प्रदर्श्यते । यथा, राजावल्यां १ परिच्छेदे ।“पारीक्षितस्तदा राजा नीतिमानीतिभीतितः ।पृथिवीं पालयामास निवसन् गजसाह्वये ।कृत्वा पितृवधामर्षी सर्पेष्टिं मुनिभिः समम् ।नाशयामास सर्पाणां कुलानि कुलनायकः ॥
हयमेधस्ततश्चक्रे सम्भारैर्बहुविस्तरैः ।ब्रह्महत्याभवत्तत्र यागेऽकालकृते तदा ॥
तत् पापमभवत् तस्य दारुणं पृथिवीपतेः ।वैशम्पायनतो वेदव्यासशिष्यात्तपोनिधेः ।श्रुत्वा भारतमाख्यानं तत्पापात् मुक्तिमाप सः ।चतुरशीतिवर्षाणि कृत्वा राज्यं सुनिर्म्मलम् ।शतानीकं सुतं राज्ये संस्थाप्यैवं दिवं गतः ॥
”सोमश्रवसमृषिमसौ पौरहित्याय वृतवान् ।तत्कथा यथा, महाभारते । १ । ३ । १ -- २० ।“जनमेजयः पारिक्षितः सह भ्रातृभिः कुरु-क्षेत्रे दीर्घसत्रमुपास्ते । तस्य भ्रातरस्त्रयः शुत-सेन उग्रसेनो भीमसेन इति । तेषु तत्सत्र-मुपासीनेष्वागच्छत् सारमेयः । स जनमेजयस्यभ्रातृभिरभिहतो रोरूयमाणो मातुः समीप-मुपागच्छत् । तं माता रोरूयमाणमुवाच किंरोदिषि केनास्यभिहत इति । स एवमुक्तोमातरं प्रत्युवाच जनमेजयस्य भ्रातृभिरभिहतो-ऽस्मीति । तं माता प्रत्युवाच व्यक्तं त्वया तत्रा-पराद्धं येनास्यभिहत इति । स तां पुनरुवाचनापराध्यामि किञ्चिन्नावेक्षे हवींषि नावलिहइति । तच्छ्रुत्वा तस्य माता सरमा पुत्त्रदुःखार्त्तातत् सत्रमुपागच्छद्यत्र स जनमेजयः सहभ्रातृभिर्दीर्घं सत्रमुपास्ते । स तया क्रुद्धयातत्रोक्तोऽयं मे पुत्त्रो न किञ्चिदपराध्यति नावे-क्षते हवींषि नावलेढि किमर्थमभिहत इति ।न किञ्चिदुक्तवन्तस्ते सा तानुव्राच यस्मादय-मभिहतोऽनपकारी तस्माददृष्टन्त्वां भयमाग-मीष्यतीति । जनमेजय एवमुक्तो देवशुन्यासरमया भृशं संभ्रान्तो विषण्णश्चासीत् । सतस्मिन् सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरो-हितमनुरूपमन्विच्छमानः परं यत्नमकरोत्यो मे पापकृत्यां शमयेदिति । स कदाचि-न्मृगयां गतः पारीक्षितो जनमेजयः कस्मिंश्चित्स्वविषये आश्रममपश्यत् । तत्र कश्चिदृषि-रासाञ्चक्रे श्रुतश्रवा नाम तस्य तपस्यभिरतःपुत्र आस्ते सोमश्रवा नाम । तस्य तं पुत्त्र-मभिगम्य जनमेजयः पारीक्षितः पौरहित्यायवव्रे । स नमस्कृत्य तमृषिमुवाच भगवन्नयं तवपुत्त्रो मम पुरोहितोऽस्त्विति । स एवमुक्तःप्रत्युवाच जनमेजयं भो जनमेजय ! पुत्त्रोऽयं ममसर्प्याञ्जातो महातपस्वी स्वाध्यायसम्पन्नो मत्तपो-वीर्य्यसम्भूतो मच्छुक्रपातवत्यास्तस्याः कुक्षौजातः । समर्थोऽयं भवतः सर्व्वाः पापकृत्याःशमयितुमन्तरेण महादेवकृत्याम् । अस्य त्वेक-मुपांशुव्रतं यदेनं कश्चिद्ब्राह्मणः कश्चिदर्थ-मभियाचेत्तं तस्मै यद्यादयं यद्येतदुत्सहसे ततोनयस्वैनमिति । तेनैवमुक्तो जनमेजयस्तं प्रत्यु-वाच भगवंस्तत्तथा भविष्यतीति ॥
* ॥
अस्य सर्पसत्रविवरणकथा यथा देवीभागवते ।२ । ११ । ४६ -- ६० ।“इति तस्य वचः श्रुत्वा राजा जन्मेजयस्तदा ।नेत्राभ्यामश्रुपातञ्च चकारातीवदुःखितः ॥
धिङ्मामस्तु सुदुर्बुद्धेर्वृथामानकरस्य वै ।पिता यस्य गतिं घोरां प्राप्तः पन्नगपीडितः ॥
अद्याहं मखमारभ्य करोम्यपचितिं पितुः ।हत्वा सर्पानसन्दिग्धो दीप्यमाने विभावसौ ॥
आहूय मन्त्रिणः सर्व्वान् राजा वचनमब्रवीत् ।कुर्व्वन्तु यज्ञसम्भारं यथार्हं मन्त्रिसत्तमाः ! ॥
गङ्गातीरे शुभां भूमिं मापयित्वा द्बिजोत्तमैः ।कुर्व्वन्तु मण्डपं स्वस्थाः शतस्तम्भं मनोहरम् ॥
वेदी यज्ञस्य कर्त्तव्या ममाद्य सचिवाः खलु ।तदङ्गत्वे विधेयो वै सर्पसत्रः सुविस्तरः ॥
तक्षकस्तु पशुस्तत्र होतोत्तङ्को महामुनिः ।शीघ्रमाहूयतां विप्राः सर्व्वज्ञा वेदपारगाः ॥
मन्त्रिणस्तु तदा चक्रुर्भूपवाक्यैर्व्विचक्षणाः ।यज्ञस्य सर्व्वसम्भारं वेदीं यज्ञस्य विस्तृताम् ॥
हवने वर्त्तमाने तु सर्पाणां तक्षको गतः ।इन्द्रं प्रति भयार्त्तोऽहं त्राहि मामिति चाब्रवीत् ॥
भयभीतं समाश्वास्य स्वासने सन्निवेश्य च ।ददावभयमत्यर्थं निर्भयो भव पन्नग ! ॥
तमिन्द्रशरणं ज्ञात्वा मुनिर्द्दत्ताभयं तथा ।उत्तङ्कोऽह्वयदुद्बिग्नः सेन्द्रं कृत्वा निमन्त्रणम् ॥
स्मृतस्तदा तक्षकेण यायावरकुलोद्भवः ।आस्तीको नाम धर्म्मात्मा जरत्कारुसुतो मुनिः ॥
तत्रागत्य मुनेर्बालस्तुष्टाव जनमेजयम् ।राजा तमर्च्चयामास दृष्ट्वा बालं सुपण्डितम् ॥
”)
कृदन्तरूपमाला
Sanskrit1 {@“एजृ दीप्तौ”@} 2 ‘दीप्तौ शप्येजते तत्र, भवेदेजति कम्पने।।’ 3 इति देवः।
एजकः-जिका, एजकः-जिका, एजिजिषकः-षिका
एजिता-त्री, एजयिता-त्री, एजिजिषिता-त्री
-- एजयन्-न्ती, एजयिष्यन्-न्ती-ती
एजमानः, एजयमानः, एजिजिषमाणः
4 एजिष्यमाणः, एजयिष्यमाणः, एजिजिषिष्यमाणः
5 एक्-एग्-एजौ-एजः
-- -- 6 एजितः-तम्, एजितः-तम्, एजिजिषितः-तवान्
एजः, 7 उदेजयः 8, 9 जनमेजयः, अङ्गमेजयः, सत्त्वमेजयः 10, एजः, एजिजिषुः, एजिजयिषुः
एजितव्यम्, एजयितव्यम्, एजिजिषितव्यम्
एजनीयम्, एजनीयम्, एजिजिषणीयम्
11 एज्यम्, एज्यम्, एजिजिष्यम्
ईषदेजः, दुरेजः, स्वेजः
-- -- एज्यमानः, एज्यमानः, एजिजिष्यमाणः
एजः, एजः, एजिजिषः
एजितुम्, एजयितुम्, एजिजिषितुम्
12 एजा, एजना, एजिजिषा, एजिजयिषा
एजनम्, 13 प्रेजनम्, एजनम्, एजिजिषणम्
एजित्वा, एजयित्वा, एजिजिषित्वा
समेज्य, प्रेज्य, समेजिजिष्य
14 एजम् २, एजित्वा २, एजम् २, एजयित्वा २, एजिजिषम् २
एजिजिषित्वा २।
01 (१३१)
02 (१-भ्वादिः-१७९। अक। सेट्। आत्म।)
03 (श्लो। ५८)
04 [पृष्ठम्०१३४+ २७]
05 [[१। ‘चोः कुः’ (८-२-३०) इति कुत्वम्।]]
06 [[आ। “अमुञ्चनैर्मञ्चितचित्तपञ्चितत्रयीमतप्रस्तुचितैः शुभार्जकैः। समृञ्जितं कन्दमभृक्तसत्फलान्यदद्भिरेकत्र यदेजितं जनैः।।” धा। का। १-२४।]]
07 [[२। ‘अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च’ (३-१-१३८) इति शः प्रत्ययः। ‘कर्तरि शप्’ (३-१-६८) इति शपि गुणायादेशौ। ‘अनुपसर्गात्--’ (३-१-१३८) इत्यत्र अनुपसर्गग्रहणं अन्यविशेषणम्, अत्रापि--उपसर्गान्तरनिवृत्त्यर्थं च। तेन ‘समुदेज’ इत्यत्र अचि णिलोप एव। न तु शप्रत्ययः--इति मा। धा। वृत्तौ।]]
08 [[B। ‘आर्चीत् द्विजातीन् परमार्थविन्दान् उदेजयान् भूतगणान् न्यषेधीत्।’ भ। का। १-१५।]]
09 [[३। ‘एजेः खश्’ (३-२-२८) इति खश्। शित्त्वात् शबादिः। ‘अरुर्द्विषद्--’ (६-३-६७) इति उपपदस्य मुम्।]]
10 [[C। ‘सत्त्वमेजयसिंहाढ्यान् स्तनन्धयसमत्विषौ।’ भ। का। ६-९४।]]
11 [[४। निष्ठायां सेट्त्वात् ‘चजोः--’ (७-३-५२) इति कुत्वं न।]]
12 [[५। ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारः प्रत्ययः।]]
13 [[६। ‘एङि पररूपम्’ (६-१-९४) इति पररूपमेव। न वृद्धिः।]]
14 [पृष्ठम्०१३५+ २७]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
