जनकतनया (janakatanayA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiजनकतनया
जनक-तनया -
जनक की पुत्री सीता के विशेषण
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaजनकतनया
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಜನಕಮಹಾರಾಜನ ಮಗಳು /ಸೀತಾದೇವಿ
व्युत्पत्तिः - > जनकस्य तनया
प्रयोगाः - > "यक्षश्चक्रे जनकतनया स्नानपुण्योदकेषु"
उल्लेखाः - > मेघ० १-१
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritजनकतनया स्त्री जनकस्य तनयेव तत्पाल्यत्वात् । रामकलत्रेजनकयज्ञे वेद्यां हलाकर्षणजातायां सीतायां सा हिसत्ययुगे वृहस्पतिसुतकुशध्वजकन्या वेदवती नामासीत्त्रेतायां सीताजातत्वात् सीतानामा बभूव रामा० उत्त०१७ अ० तत्कथा यथा ।“कुशध्वजो नाम पिता ब्रह्मर्षिरमितप्रभः । वृह-स्पतिसुतः श्रीमान् बुद्ध्या तुल्यो वृहस्पतेः । तस्याहंकुर्वती नित्यं वेदाभ्यासं महात्मनः । सम्भूता वाङ्-मयी कन्या नाम्ना वेदवती स्मृता । ततो देवाः सगन्धर्वायक्षराक्षसपन्नगाः । ते चापि गत्वा पितरंवरणं रोचयन्ति मे । न च मां स पिता तेभ्यो दत्त-वान् राक्षसेश्वर! । कारणं तद्वदिष्यामि निशामय महा-भुज! । पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः ।अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता । दातु-मिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः । शम्भुर्नामततो राजा दैत्यानां कुपितोऽभवत् । तेन रात्रौ शयानोमे पिता पापेन हिंसितः । ततो मे जननी दीना तच्छ-रीरं पितुर्मम । परिष्वज्य महाभागा प्रविष्टा हव्य-वाहनम् । ततो मनोरथं सत्यं पितुर्नारायणं प्रति ।करोमीति तमेवाहं हृदयेन समुद्वहे । इति प्रतिज्ञा-मारुह्य चरामि विपुलं तपः । एतत्ते सर्वमाख्यातंमया राक्षसपुङ्गव! । नारायणो मम पतिर्न त्वन्यःपुरुषोत्तमात् । आश्रये नियमं घोरं नारायणपरी-पसया । विज्ञातस्त्वं हि मे राजन्! गच्छ पौलस्त्य-नन्दन! । जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ।”ततस्तां कामयमानेन रावणेन सा धर्षिता तस्मै शापंदत्त्वा ममार तत्कथा“एवमुक्तस्तया तत्र वेदवत्या निशाचरः । मूर्धजेषु तदाकन्यां कराग्रेण परामृशत् । ततो वेदवती क्रुद्धाकेशान् हस्तेन साऽच्छिनत् । असिर्भूत्वा करस्तस्याःकेशांश्छिन्नांस्तदाऽकरोत् । सा ज्वलन्तीव रोषेण दह-न्तीव निशाचरम् । उवाचाग्निं समाधाय मरणायकृतत्वरा । धर्षितायास्त्वयाऽनार्य! न मे जीवितमिष्यते ।रक्षस्तस्मात् प्रवेक्ष्यामि पश्यतस्ते हुताशनम् । यस्मात्तुधर्षिता चाहं त्वया पापात्मना वने । तस्मात्तव बधार्थंहि समुत्पत्स्याम्यहं पुनः । न हि शक्यः स्त्रिया हन्तुंपुरुषः पापनिश्चय! । शापे त्वयि मयोत्सृष्टे तपसश्चव्ययो भवेत् । यदि त्वस्ति मया किञ्चित्कृतं दत्तं हुतंतथा । तस्मात् त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ।एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् । पपातच दिवो दिव्या पुष्पवृष्टिः समन्ततः । सैषा जनकरा-जस्य प्रसूता तनया प्रभो! । तव भार्या महाबाहो!विष्णुस्त्वं हि सनातनः । पूर्वं क्रोधहतः शत्रुर्ययासौनिहतस्तथा । उपाश्रयित्वा शैलाभस्तव वीर्यममानुषम् ।एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः । क्षेत्रे हल-मुखोत्कृष्टवेद्यामग्निशिखोपमा । एषा वेदवती नामपूर्वमासीत् कृते युगे । त्रेतायुगमनुप्राप्य बधार्थंतस्य रक्षसः । उत्पन्ना मैथिलकुले जनकस्य महा-त्मनः” । कालिकापु० ३७ अ० तस्याः पृथिव्या उत्पत्ति-रुक्ता । कल्पभेदादविरोधः । जनकात्मजाजनकतनया-दयोऽप्यत्र ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
