| YouTube Channel

जडभरत (jaDabharata)

 
Monier Williams Cologne
English
जड—भरत
m.
‘the stupid Bharata’,
N.
of a man simulating stupidity,
JābālUp.
BhP.
v, 9
f.
Shabdartha Kaustubha
Kannada
जडभरत
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಬ್ಬ ಋಷಿ
Aufrecht Catalogus Catalogorum
English
जडभरत (?). See Yadubharata:
Praśnāvalī, vedānta. Lahore 1882, 7.
वाचस्पत्यम्
Sanskrit
जडभरत
पु०
जडोमूक इव भरतः आङ्गिरसप्रवरसुते योगि-भेदे सहि पूर्व्वतरजन्मनि भरतनामा नृपतिरासीत् चवानप्रस्थाश्रमे हरिणशिशुपालनेन तत्स्नेहवशात्मृत्युकाले तमनुस्मरन् मृगत्वमाप्त्वा कर्म्मक्षयात् तद्देहंत्यक्त्वा पुनः आङ्गिरसपवरस्य पुत्रतामासाद्य स्नेहदोषेणपुनस्तिर्य्यग्योनिप्राप्तिशङ्कया ज्ञानवानपि जडत्वमिवव्यञ्जयन्नासीत् तत्कथा भाग० स्क० स्थितादिङमात्रमत्र प्रदर्श्यते ।“अथ कस्यचिद्द्विजवरस्याङ्गिरःप्रवरस्य शमदमतपः-स्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्यानसूयात्म-ज्ञानानन्दयुक्तस्यात्मसदृशश्रुतशीलाचाररूपौदार्य्यगुणा नवसोदार्य्या अङ्गजा बभूवुः मिथुनञ्च यवीयस्यांभार्य्यायाम् यस्त तत्र पुमांस्तं परमभागवतं राजर्षि-प्रवरभरतमुत्सृष्टमृगशरीरम् चरमशरीरेण विप्रत्वं-गतमाहुः तत्रापि स्वजनसङ्गाच्च भगवतः कर्म्म-बन्धविध्वंसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगलंमनसा विदधदात्मनः प्रतीवातमाशङ्कमानो भगवदनु-ग्रहेणानुस्मृतखपूर्वजन्माबलिरात्मानमुन्मत्तजडान्धबधिर-स्वरूपेण दर्शयामास लोकस्य तस्यापि वा आत्मजस्य विप्रः पुत्रस्नेहानुबद्धमना आसमावर्त्तनात्संस्कारान् यथोपदेशं विदधान उपनीतस्य पुनःशौचाचमनादीन् कर्म्मनियमाननभिप्रेतानपि सम-शिक्षयत् अनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति ।स चापि तदुह पितृसन्निधावेवासध्रीचीनमिव स्मकरोति छन्दांस्यध्यापयिष्यन् सह व्याहृतिभिःसप्रणवशिरस्त्रिपदां सावित्रीं ग्रैष्मवासन्तिकान्मासान-धीयानमप्यसमवेतरूपं ग्राहयामास एवं स्वतनुजआत्मन्यनुरागावेशितचित्तः शौचाध्ययनव्रतनियम-गुर्वनलशुश्रूषणाद्यौपकुर्वाणकर्म्माण्यनभियुक्तान्यपि स्व-यमनुशिष्टेन भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयंतावदनधिगतमनोरथः कालेनाप्रमत्तेन स्वयं ग्रह एवप्रमत्तौपसंहृतः अथ यवीयसी द्विजसती स्वगर्भजातंमिथुनं सपत्न्या उपन्यस्य स्वयमनुसस्थया पतिलोकमगात् पितर्य्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यांविद्यायामेव पर्य्यवसितमतयोन परविद्यायां जडमति-रिति भ्रातुरनुशासननिर्बन्धान्न्यवृत्सन् ।स प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूकेत्यभिभाष्य-माणो यदा तदनुरूपाणि प्रभाषते कर्म्माणि कार्य्य-माणः परेच्छया करोति विष्टितो वेतनतोवा याच्ञयायदृच्छया वोपसादितमल्पं बहुमिष्टं कदन्नं वाभ्यवहरतिपरं नेन्द्रियप्रीतिनिमित्तम् नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगमः सुखदुःख-यीर्द्वन्द्वनिमित्तयोरसम्भावितदेहाभिमानः शीतोष्णवातवर्षेषु वृषैवापावृताङ्गः पीनसंहननाङ्गः स्थ-ण्डिलसंवेशनानुमर्द्दनामज्जनरजसा महामणिरिवान-भिव्यक्तव्रह्मवर्च्चसः कुपटावृतकटिरुपवीतेनोरुमषिणा-द्विजातिरिति ब्रह्मबन्धुरिति संज्ञयाऽतज्ज्ञजनावमतोविचचार यदा तु परत आहारङ्कर्म्म वेतनतईह-मानः स्वभ्रातृभिरपि केदारकर्म्मणि निरूपितस्तदपिकरोति किन्तु समं विषमं न्यूनमधिकमिति वेद ।कणपिण्याकफलीकरणकुलमाषस्थालीपुरीषादीनप्यमृत-वदभ्यवहरति अथ कदाचित् कश्चिद्वृषलपतिर्भद्र-काल्यै पुरुषपशुमालभतापत्यकामः तस्य दैववि-मुक्तस्य पशोः पदवीन्तदनुचराः परिधावन्तो निशि नि-शीथसमये तमसा पावृतायामनधिगतपशव आकस्मिकेनविधिना केदारान् वीरासनेन मृगवराहादिभ्यः संरक्षमाणमङ्गिरःप्रवरसुतमपश्यन् अथ तएनमनवद्य-लक्षणमवमृष्य भर्त्तृकर्म्मनिष्पत्तिं मन्यमानाबद्ध्वा रश-मया चण्डिकागृहमुपनिन्युर्मुदा बिकसितवदनाः ।अथ पणयस्तं स्वबिधिनाभिपिच्याहतेन वाससाच्छाद्य-भूषणानुलेपस्रक्ताम्बूलादितिलकादिभिरुपस्कृतं भुक्तवन्तंधूपदीपमाल्यलाजकिसलयाङ्कुरफलोपहारोपेतया वैश-ससंस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण चपुरुषपशुं भद्रकाल्याः पुरत उपवेशयामासुः अथ वृष-लराजपतिः पुरुषपशोरसृगासवेन देवीं भद्रकालीं यक्ष्य-माणस्तदभिमन्त्रितमसिमतिकरालनिशितमुपाददे इतितेषां वृषलानां रजस्तमःप्रकृतीनां धनमदरजौत्सिक्तमनसां भगवत्कलाधीरकुलं कदर्थीकृत्योत्पथेन स्वैरंविहरतां हिंसाविहाराणां कर्म्मातिदारुणं यद्व्रह्मभूतस्य साक्षाद्ब्रह्मर्षिसुतस्य निर्व्वैरस्य सर्वभूतसु-हृदः सूनायामप्यननुमतमालभनं तदुपलभ्य व्रह्मतेजसा-ऽतिदुर्विपहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैवदेवी भद्रकाली भृशममर्षरोषावेशरभसविलसि-तभृकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदनाहन्तुकामैवेदं महाट्टहासमतिसंरम्भेण विमुञ्चन्तीतत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृकण-शीर्ष्णां गलात् स्रवन्तमसृगासवमत्युष्णं सह गणेन नि-पीयातिपानमदविह्वलोच्चैस्तरां स्वपार्षदैः सह जगौननर्त्त विजहार शिरःकन्दुकलीलया एवमेवखलु महदभिचारातिक्रमः कार्त्स्न्येनात्मने फलति ।न वा एतद्विष्णुदत्त! महदद्भुतं यदसंभ्रमः स्वशिरश्छेदेआपतितेऽपि विमुक्तदेहाद्यात्मभावसुदृढहृदयग्रन्थीनां सर्व-सत्वसुहृदात्मनां निर्वैराणां साक्षाद्भगवताऽनिमिषाऽरि-वरायुधेनाप्रमत्तेन तैस्तैर्भावैरभिरक्ष्यमाणानां तत्पदमूल-मकुतश्चिद्भयमुपसृतानां भागवतपरमहंसानाम्” अ०“अथ सिन्धुसौवीरपतेरहूगणस्य व्रजतैक्षुमत्यास्तटेतत्कुलपतिना शिविकावाहपुरुषान्वेषणसमये दैवेनोप-सादितः द्विजवरौपलब्धः एष पीवानसंहननाङ्गो-गोखरवद्धुरं वोढुमलमिति पूर्वविष्टिगृहीतैः सहगृहीतः प्रसभमतदर्हौवाह शिविकां महानुभावः!यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न समाहितापुरुषगतिस्तदा विषमगतां स्वशिविकां रहूगण उपधार्य्यपुरुषानधिवहत आह हे वाढारः माध्वतिक्रा-मत किमिति विषममुह्यते यानमिति? अथ ईश्वर-वचः सौपालम्भमुपाकर्ण्य उपायात्तुरीयाच्छङ्कित-मनसस्तं विज्ञापयां बभूवुः वयं नरदेव! प्रमत्ताभवन्नियमानुपथाः साध्वेव वहामः अयमधुनैव नियुक्तोऽपि द्रुतं व्रजति नानेन सह वोढु मुह वयं पारया-मैति सांसर्गिकोदोष एव नूनमेकस्यापि सर्वेषांसंसर्गिणां भवितुमर्हतीति निश्चित्य निशम्य कृपणवचोराजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृतईषदुत्थितमन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव रजसा-वृतमतिराह अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घ-मध्वानमेक ऊहिवान् सुचिरं नातिपीवानसंहननाङ्गोरजसा चोपद्रुतो भवान् सखे! नो वा परएते संघट्टिनइति बहुविप्रलब्धोऽप्यविद्यया विहितद्रव्यगुणकर्म्माशयेस्वचरमकलेवरेऽवस्तुनि संस्थानविशेषे अहं ममेत्यनध्या-रोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णी शिविकां पूर्ववदु-वाह अथ पुनः स्वशिविकायां विषममतायां प्र-कुपित उवाच रहूगणः किमिदमरे त्वं जीवन्मृतोमांकदर्थीकृत्य भर्तृशासनमतिचरसि प्रमत्तस्य तेकरोमि चिकित्सां दण्डपाणिरिव जनतायाः यथाप्रकृतिं स्वां भजिष्यसीति एवं बह्वबद्धमभिभाषमाणंनरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं भगवान्ब्राह्मणो ब्रह्मभूतः सर्वभूतसुहृदात्मा योगेश्वरचर्य्यायांमातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह ।श्रीब्राह्मण उवाच त्वयोदितं व्यक्तमविप्रलब्धं भर्तुःस मे स्याद्यदि वीर! भावः गन्तुर्यदि स्यादधिगम्यमध्वापीवेति राशौ विदां प्रवादः स्थौल्यं कार्श्यव्याधयश्चाधयश्च क्षुत्तुड्भयं कन्तिरिच्छा जरा निद्रा-रतिर्मन्युरहं मदः शुचो देहेन जातस्य हि मे सन्ति ।जीवन्मृतत्वं नियमेन राजन्नाद्यन्तवद् यद्विकृतस्यदृष्टम् खस्वाम्यभाबो ध्रुवईड्य! यत्र तर्ह्युच्यतेऽसौ-विधिकृत्ययोगः विशेषबुद्धेर्बिवरं मनाक् पश्यामियन्न व्यवहारतोऽन्यत् ईश्वरस्तत्र किमीशितव्यमथापि राजन्! करवाम किन्ते उन्मत्तमत्तजडवत्स्वसंस्थां गतस्य मे वीर! चिकित्सितेन अर्थः कियान्भवता शिक्षितेन स्तब्धप्रमत्तस्य पिष्टपेषः श्रीशुकउवाच एतावदनुवादपरिभाषया प्रत्युदीर्य्य समुनिवर उपशमशील उपरतानात्मानिमित्त उपभोगेनकर्म्मारब्धं त्यपस्यन् राजयानमपि तथैवोवाह सचापि पाण्डवेय! सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायांसम्यक्श्रद्वयाधिकृताधिकारस्तद्धृदयग्रन्थिविमोचनं द्विज-वच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयाऽवरुह्यशिरसा तत्पादमूलमुपसृतः क्षमापयन् विगतनृपदेवस्मय उवाच कस्त्वं निगूढश्चरसि द्विजानां बिभर्षि-सूत्रं कतमोऽवधूतः कस्यासि कुत्रत्य इहापि कस्मात्क्षेमाय नश्चेदसि नोत शुक्लः नाहं विशङ्के सुरराजवज्रान्न त्र्यक्षशूलान्न यमस्य दण्डात् नाग्न्यर्कसोमानिलवि-त्तपास्त्राच्छङ्के भृशं ब्रह्मकुलावमानात् तद् ब्रूह्यसङ्गोजडवन्निगूढविज्ञानवीर्य्योविचरस्यपारः वचांसि योगग्रथितानि साधो! नः क्षमन्ते मनसापि भेत्तुम् ।अहञ्च योगेश्वरमात्मतत्त्वविदां मुनीनां प्रवरं गुरुवै!प्रष्टुं प्रवृत्तः किमिहारणं यत्साक्षाद्धरिं ज्ञानकलावतीर्णम् ।स वै भवान् लोकनिरीक्षणार्थमव्यक्तलिङ्गोविचरत्यपिस्वित् योगेश्वराणां गतिमन्दबुद्धिः कथं विवचक्षीतगृहानुबद्धः” १० अ० ।ततः तेन रहूगणनृपाय योगमुक्त्वा प्रारब्धाव-माने मुक्तो बभूवेति कथा तदुत्तराध्यायादौ स्थिता