| YouTube Channel

जडः (jaDaH)

 
Wordnet
Sanskrit
Synonyms:
मूर्खः, मूढः, विमतिः, विमूढः, अज्ञः, अबुधः, अविद्धः, उन्मुग्धः, कुपटुः, कुबुद्धिः, कुण्ठकः, जडः
noun
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
"समाजे नैकाः मूर्खाः सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
जडः, त्रि, (जलति बुद्धिशक्तिमाच्छादयतीति ।जल आच्छादने + अच् ।) हिमग्रस्तः ।(शीतलः यथा, रघौ ६८ ।“परामृशन् हर्षजडेन पानिनातदीयमङ्गं कुलिशव्रणाङ्कितम्
”“हर्षजडेन हर्षशिशिरेण ।” इति तट्टीकायांमल्लिनाथः
) मूकः (यथा, मनौ ११० ।“नापृष्टः कस्यचिद्ब्रूयात् चान्यायेन पृच्छतः ।जानन्नपि हि मेधावी जडवल्लोक आचरेत्
”वधिरः यथा, तत्रैव २०१ ।“उन्मत्तजडमूकाश्च ये केचिन्निरिन्द्रियाः
”तथा तत्रैव ३९४ ।“अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः
”“अन्धो वधिरः पङ्गुः सम्पूर्णसप्ततिवर्षः ।” इतितट्टीकायां कुल्लूकभट्टः
) अप्रज्ञः इतिमेदिनी डे, १४
(यथा, विक्रमोर्व्वश्याम्१ अङ्के ।“अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नुकान्तिप्रदःशृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलोनिर्म्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणोमुनिः
”निष्पन्दः यथा, रघौ ४२ ।“जडीकृतस्त्र्यम्बकवीक्षनेनवज्रं मुमुक्षन्निव वज्रपाणिः
”मोहितः यथा, तत्रैव ७५ ।अथ तं सवनाय दीक्षितः प्रणिघानाद् गुरुराश्रमस्थितःअभिषङ्गजडं विजज्ञिवान्इति शिष्येण किलान्वबोधयत्
”)